Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 7.166

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

7.166.1

वर्तमाने तदा रौद्रे रात्रियुद्धे विशाम्पते ।
सर्वभूतक्षयकरे धर्मपुत्रो युधिष्ठिरः ॥ ७.१६६.१ ॥

人主啊,当那场毁灭一切众生的可怖夜战正在进行之时,法之子坚战……

7.166.2

अब्रवीत्पाण्डवांश्चैव पाञ्चालांश्चैव सोमकान् ।
अभिद्रवत संयात द्रोणमेव जिघांसया ॥ ७.१६६.२ ॥

他又对般度之子、潘遮罗人与苏摩迦人说:“进攻吧,前进吧,一心要杀死德罗纳!”

7.166.3

राज्ञस्ते वचनाद्राजन्पाञ्चालाः सृञ्जयास्तथा ।
द्रोणमेवाभ्यवर्तन्त नदन्तो भैरवान्रवान् ॥ ७.१६६.३ ॥

国王啊,依照你的君王的话,潘遮罗人与苏兰遮亚人也都怒吼着,向德罗纳冲去。

7.166.4

तान्वयं प्रतिगर्जन्तः प्रत्युद्याताः स्म हर्षिताः ।
यथाशक्ति यथोत्साहं यथासत्वं च संयुगे ॥ ७.१६६.४ ॥

我们以怒吼回应他们,欢欣地迎上前去——在那场战斗中,依各人的力量、热忱与勇气。

7.166.5

कृतवर्मा तु हार्दिक्यो युधिष्ठिरमुपाद्रवत् ।
द्रोणं प्रति समायान्तं मत्तो मत्तमिव द्विपम् ॥ ७.१६६.५ ॥

然而希尔迪迦之子胜军,扑向正朝德罗纳而来的坚战,犹如发狂的象冲向另一头发狂的象。

7.166.6

शैनेयं शरवर्षाणि विकिरन्तं समन्ततः ।
अभ्ययात्कौरवो राजन्भूरिः सङ्ग्राममूर्धनि ॥ ७.१६६.६ ॥

国王啊,俱卢之子布利攻向走在战阵前列、四面倾泻箭雨的悉尼耶(萨提亚基)。

7.166.7

सहदेवमथायान्तं द्रोणप्रेप्सुं महारथम् ।
कर्णो वैकर्तनो राजन्वारयामास पाण्डवम् ॥ ७.१६६.७ ॥

大王啊,那时毗迦尔丹那之子迦尔纳阻挡了前来、渴望接近德罗纳的大车战士、般度之子萨哈德瓦。

7.166.8

भीमसेनमथायान्तं व्यादितास्यामिवान्तकम् ।
स्वयं दुर्योधनो राजा प्रतीपं मृत्युमाव्रजत् ॥ ७.१६६.८ ॥

此时,国王难敌亲自迎向张口而来、如死神一般的怖军。

7.166.9

नकुलं च युधां श्रेष्ठं सर्वयुद्धविशारदम् ।
शकुनिः सौबलो राजन्वारयामास सत्वरः ॥ ७.१६६.९ ॥

大王啊,苏跋罗之子沙恭尼迅速阻挡了精通一切战斗、勇士中最优秀的那库拉。

7.166.10

शिखण्डिनमथायान्तं रथेन रथिनां वरम् ।
कृपः शारद्वतो राजन्वारयामास संयुगे ॥ ७.१६६.१० ॥

大王啊,当战车手中的最优者湿婆坎丁乘车而来时,沙罗陀婆多之子钵阇在战斗中阻挡了他。

7.166.11

प्रतिविन्ध्यमथायान्तं मयूरसदृशैर्हयैः ।
दुःशासनो महाराज यत्तो यत्तमवारयत् ॥ ७.१६६.११ ॥

大王啊,急切而准备就绪的难降,阻挡了驾着如孔雀般的骏马前来的普罗提文底耶。

7.166.12

भैमसेनिमथायान्तं मायाशतविशारदम् ।
अश्वत्थामा महाराज राक्षसं प्रत्यषेधयत् ॥ ७.१६६.१२ ॥

大王啊,阿湿婆塔摩阻挡了前来的怖军之子罗刹,此人精通百般幻术。

7.166.13

द्रुपदं वृषसेनस्तु ससैन्यं सपदानुगम् ।
वारयामास समरे द्रोणप्रेप्सुं महारथम् ॥ ७.१६६.१३ ॥

在战斗中,伐里沙塞那阻挡了德鲁帕达——这位大车将,他率领军队和步兵,想要抵达德罗纳。

7.166.14

विराटं द्रुतमायान्तं द्रोणस्य निधनं प्रति ।
मद्रराजः सुसङ्क्रुद्धो वारयामास भारत ॥ ७.१६६.१४ ॥

婆罗多啊,摩德罗国王大怒,阻挡了疾速冲向德罗纳覆灭之处的毗罗吒。

7.166.15

शतानीकमथायान्तं नाकुलिं रभसं रणे ।
चित्रसेनो रुरोधाशु शरैर्द्रोणपरीप्सया ॥ ७.१६६.१५ ॥

随后在战斗中,奇特塞那迅速以箭阻挡了那凶猛而来、欲护卫德罗纳的那库拉之子沙塔尼迦。

7.166.16

अर्जुनं च युधांश्रेष्ठं प्राद्रवन्तं महारथम् ।
अलायुधो महाराज राक्षसेन्द्रो न्यवारयत् ॥ ७.१६६.१६ ॥

大王啊,当勇士中最优秀的大车将阿周那奔驰向前时,罗刹之主阿罗耶陀拦阻了他。

7.166.17

तथा द्रोणं महेष्वासं निघ्नन्तं शात्रवान्रणे ।
धृष्टद्युम्नोऽथ पाञ्चाल्यो हृष्टरूपमवारयत् ॥ ७.१६६.१७ ॥

同样,面带喜色的般遮罗王子达里斯塔兖那,阻挡了在战场上屠杀敌人的大弓手德罗纳。

7.166.18

तथाऽन्यान्पाण्डुपुत्राणां समायातान्महारथान् ।
तावका रथिनो राजन्वारयामासुरोजसा ॥ ७.१६६.१८ ॥

同样,大王啊,你的车将们以力量阻挡了前来的般度之子们的其他大车将。

7.166.19

गजारोहा गजैस्तूर्णं सन्निपत्य महामृधे ।
योधयन्तः स्म दृश्यन्ते शतशोऽथ सहस्रशः ॥ ७.१६६.१९ ॥

骑象的战士与象一起迅速冲入大战,成百上千地被看到正在交战。

7.166.20

निशीथे तुरगा राजन्द्रावयन्तः परस्परम् ।
समदृश्यन्त वेगेन पक्षवन्तो यथाऽद्रयः ॥ ७.१६६.२० ॥

大王啊,午夜时分,马匹互相追逐,疾速地显现,如同长翼的山岳。

7.166.21

सादिनः सादिभिः सार्धं प्रासशक्त्यृष्टिपाणयः ।
समागच्छन्महाराज विनदन्तः पृथक्पृथक् ॥ ७.१६६.२१ ॥

骑兵与骑兵相遇,手中执矛、枪与剑,各自呼喊咆哮,大王啊。

7.166.22

नरास्तु बहवस्तत्र समाजग्मुः परस्परम् ।
गादाभिर्मुसलैश्चैव नानाशस्त्रैश्च संयुगे ॥ ७.१६६.२२ ॥

许多步兵在那里相互交战,手持铁锤、木棒及各式兵器。

7.166.23

कृतवर्मा तु हार्दिक्यो धर्मपुत्रं युधिष्ठिरम् ।
वारयामास सङ्क्रुद्धो वेलेवोद्वृत्तमर्णवम् ॥ ७.१६६.२३ ॥

然而希利迪迦之子克里塔瓦尔曼怒不可遏,阻挡了法之子坚战,犹如海岸阻挡翻涌的大海。

7.166.24

युधिष्ठिरस्तु हार्दिक्यं विद्व्वा पञ्चभिराशुगैः ।
पुनर्विव्याध विंशत्या तिष्ठतिष्ठेति चाब्रवीत् ॥ ७.१६६.२४ ॥

然而坚战以五支疾箭射中希利迪迦,又以二十支箭射之,并说道:“站住!站住!”

7.166.25

कृतवर्मा तु सङ्क्रुद्धो धर्मपुत्रस्य मारिष ।
धनुश्चिच्छेद भल्लेन तं च विव्याध सप्तभिः ॥ ७.१६६.२५ ॥

克里达瓦尔曼勃然大怒,啊尊者,他以月牙箭斩断了法之子的弓,并用七支箭射中了他。

7.166.26

अथान्यद्धनुरादाय धर्मपुत्रो महारथः ।
हार्दिक्यं दशभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥ ७.१६६.२६ ॥

于是,大车将法之子又取一张弓,以十支箭射中哈尔迪基亚的双臂与胸膛。

7.166.27

माधवस्तु रणे विद्धो धर्मपुत्रेण मारिष ।
प्राकम्पत च रोषेण सप्तभिश्चार्दयच्छरैः ॥ ७.१६६.२७ ॥

啊尊者,马达瓦在战场上被法之子射伤,怒不可遏而颤抖,以七支箭折磨了他。

7.166.28

तस्य पार्थो धनुश्छित्त्वा हस्तावापं निकृत्य च ।
प्राहिणोन्निशितान्बाणान्पञ्च राजञ्छिलाशितान् ॥ ७.१६६.२८ ॥

帕尔塔斩断他的弓,又斩断其手上的护臂,啊国王,他射出了五支在石上磨快的锐利箭。

7.166.29

ते तस्य कवचं भित्त्वा हेमचित्रं महाधनम् ।
प्राविशन्धरणीं भित्त्वा वल्मीकमिव पन्नगाः ॥ ७.१६६.२९ ॥

它们穿透了他那镶金的珍贵铠甲,又穿入大地,如同蛇钻进蚁穴一般。

7.166.30

अक्ष्णोर्निमेषमात्रेण सोऽन्यदादाय कार्मुकम् ।
विव्याध पाण्डवं षष्ट्या सूतं च नवभिः शरैः ॥ ७.१६६.३० ॥

转瞬之间,他又取一张弓,以六十支箭射中潘达瓦,以九支箭射中御者。

7.166.31

तस्य शक्तिममेयात्मा पाण्डवो भुजगोपमाम् ।
चिक्षेप भरश्रेष्ठ रथे न्यस्य महद्धनुः ॥ ७.१६६.३१ ॥

婆罗多中最优秀者啊!无量心的般度之子将大弓放在车上,向他掷出了一支如蛇般的长矛。

7.166.32

सा हेमचित्रा महती पाण्डवेयेन प्रेरिता ।
निर्भिद्य दक्षिणं बाहुं प्राविशद्धरणीतलम् ॥ ७.१६६.३२ ॥

般度之子掷出的那支饰有黄金的巨大长矛,刺穿了他的右臂,没入大地之中。

7.166.33

एतस्मिन्नेव काले तु गृह्य पार्थः पुनर्धनुः ।
हार्दिक्यं छादयामास शरैः सन्नतपर्वभिः ॥ ७.१६६.३३ ॥

就在此时,阿周那再次拿起大弓,用关节弯曲的箭矢将希尔迪基亚遮蔽。

7.166.34

ततस्तु समरे शूरो वृष्णीनां प्रवरो रथी ।
व्यश्चसूतरथं चक्रे निमेषार्धाद्युधिष्ठिरम् ॥ ७.१६६.३४ ॥

随后,在战斗中,这位英雄、韦输尼族的最优秀战车武士,在半瞬之间使坚战的战车连同马匹和御者一同毁坏。

7.166.35

ततस्तु पाण्डवो ज्येष्ठः खङ्गं चर्म समाददे ।
तदस्य निशितैर्बाणैर्व्यधमन्माधवो रणे ॥ ७.१६६.३५ ॥

随后,长兄般度之子拿起剑与盾,但在战斗中,摩陀婆以锐利的箭将它们摧毁。

7.166.36

तोमरं तु ततो गृह्य स्वर्णदण्डं दुरासदम् ।
प्रैषयत्समरे तूर्णं हार्दिक्यस्य युधिष्ठिरः ॥ ७.१६६.३६ ॥

随后,坚战拿起一支饰有金柄、难以抵挡的投枪,在战斗中迅速向希尔迪基亚掷去。

7.166.37

तमापतन्तं सहसा धर्मराजभुजच्युतम् ।
द्विधा चिच्छेद हार्दिक्यः कृतहस्तः स्मयन्निव ॥ ७.१६६.३७ ॥

熟练双手的赫尔迪基亚微笑着,仿佛在游戏一般,将那从法王手臂中突然飞来的投枪劈成两段。

7.166.38

ततः शरशतेनाजौ धर्मपुत्रमवाकिरत् ।
कवचं चास्य सङ्क्रुद्धः शरैस्तीक्ष्णैरदारयत् ॥ ७.१६६.३८ ॥

随后在战场上,他以百箭覆盖法子,并在愤怒中以利箭撕裂了他的甲胄。

7.166.39

हार्दिक्यशरसञ्छन्नं कवचं तन्महाधनम् ।
व्यशीर्यत रणे राजंस्ताराजालमिवाम्बरात् ॥ ७.१६६.३९ ॥

那件被赫尔迪基亚的箭所覆盖的贵重甲胄,在战场上碎裂了,哦王啊,就像天空中坠落的星网。

7.166.40

स च्छिन्नधन्वा विरथः शीर्णवर्मा शरार्दितः ।
अपायासीद्रणात्तूर्णं धर्मपुत्रो युधिष्ठिरः ॥ ७.१६६.४० ॥

弓弦已断,失去战车,甲胄破碎,被箭所苦,法子坚战迅速退出了战场。

7.166.41

कृतवर्मा तु निर्जित्य धर्मात्मानं युधिष्ठिरम् ।
पुनर्द्रोणस्य जुगुपे चक्रमेव महात्मनः ॥ ७.१६६.४१ ॥

克利塔瓦尔曼击败了心地正直的坚战,又守护了大德德罗纳的战阵之轮。