マハーバーラタ · 章 7.75
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.75.1
प्रतिज्ञाते तु पार्थेन सिन्धुराजवधे तदा ।
वासुदेवो महाबाहुर्धनञ्जयमभाषत ॥ ७.७५.१ ॥
パールタが信度王の殺害を誓ったとき、大腕のヴァースデーヴァはダナンジャヤに語った。
7.75.2
भ्रातॄणां मतमज्ञाय त्वया वाचा प्रतिश्रुतम् ।
सैन्धवं चास्मि हन्तेति तत्साहसमिदं कृतम् ॥ ७.७५.२ ॥
兄たちの意見も知らず、お前は言葉で「私はサインダヴァを殺す」と誓った。これは無謀な行いだ。
7.75.3
असम्मन्त्र्य मया सार्धमतिभारोऽयमुद्यतः ।
कथं तु सर्वलोकस्य नावहास्या भवेमहि ॥ ७.७५.३ ॥
私に相談もせず、お前はこの過大な重荷を引き受けた。どうして全世界の笑い者にならずにいられようか。
7.75.4
धार्तराष्ट्रस्य शिबिरे ये तु प्रणिहिताश्चराः ।
त इमे शीघ्रमागम्य प्रवृत्तिं वेदयन्ति नः ॥ ७.७५.४ ॥
ドリタラーシュトラの息子の陣営に配置されていた間諜たちが、急ぎ戻って我々に知らせている。
7.75.5
त्वया वै सम्प्रतिज्ञाते सिन्धुराजवधे प्रभो ।
सिंहनादः सवादित्रः सुमहानिह तैः श्रुतः ॥ ७.७५.५ ॥
主よ、あなたがシンドゥ王の殺害を誓ったとき、彼らはここで楽器を伴う大きな獅子吼を聞いた。
7.75.6
तेन शब्देन वित्रस्ता धार्तराष्ट्राः ससैन्धवाः ।
नाकस्मात्सिंहनादोऽयमिति मत्वा व्यवस्थिताः ॥ ७.७५.६ ॥
その音に怯えたドリタラーシュトラの息子たちとサインダヴァの兵は、これは突然の獅子吼ではないと思い、踏みとどまった。
7.75.7
सुमहाञ्शब्दसम्पातः कौरवाणां महाभुज ।
आसीन्नागाश्वपत्तीनां रथघोषश्च भैरवः ॥ ७.७५.७ ॥
大腕の者よ!クル族の象・馬・歩兵の大きな喧騒が起こり、戦車の恐ろしい轟音も響いた。
7.75.8
अभिमन्योर्वधं श्रुत्वा ध्रुवमार्तो धनञ्जयः ।
रात्रौ निर्यास्यति क्रोधातिति मत्त्वा व्यवस्थिताः ॥ ७.७५.८ ॥
アビマニユの死を聞いて、アルジュナは必ず悲嘆し、怒りのうちに夜に出てくるだろう――そう考えて、彼らは構えて立っていた。
7.75.9
तैश्चारेभ्य इयं कृत्स्ना श्रुता सत्यवतस्तव ।
प्रतिज्ञा सिन्धुराजस्य वधे राजीवलोचन ॥ ७.७५.९ ॥
蓮華眼の者よ!彼らは間者から、あなたの真実なる(息子)がシンドゥ王を殺すという誓いの全てを聞いていた。
7.75.10
ततो विमनसः सर्वे त्रस्ताः क्षुद्रमृगा इव ।
आसन्सुयोधनामात्याः स च राजा जयद्रथः ॥ ७.७५.१० ॥
すると、スヨーダナの大臣たちとジャヤドラタ王は、意気消沈して恐れおののき、小さな鹿のように震えた。
7.75.11
अथोत्थाय सहामात्यैर्दीनः स्वशिविरात्किल ।
अयात्सौवीरसिन्धूनामीश्वरो राजसंसदम् ॥ ७.७५.११ ॥
すると、ソーヴィーラとシンドゥの主は、悲嘆に沈みながら大臣たちとともに立ち上がり、自らの陣営から王の会議へ確かに向かった。
7.75.12
स मन्त्रकाले संमन्त्र्य सर्वां नैश्रेयसीं क्रियाम् ।
सुयोधनमिदं वाक्यमब्रवीद्राजसंसदि ॥ ७.७५.१२ ॥
協議の時、幸福をもたらすあらゆる行動を熟慮した上で、彼は王の会議でスヨーダナにこの言葉を述べた。
7.75.13
मामसौ पुत्रहन्तेति श्वोऽभियाता धनञ्जयः ।
प्रतिज्ञातो हि सेनाया मध्ये तेन वधो मम ॥ ७.७५.१३ ॥
「息子を殺したダナンジャヤは明日、私を攻めてくるだろう。軍勢の中で彼の手によって私が死ぬと、彼は誓ったのだ。」
7.75.14
तां न देवा न गन्धर्वा नासुरोरगराक्षसाः ।
उत्सहन्तेऽन्यथा कर्तुं प्रतिज्ञां सव्यसाचिनः ॥ ७.७५.१४ ॥
神々もガンダルヴァも、アスラも蛇も羅刹も、その誓いをサヴィヤサーチンのものとは違えようとはしない。
7.75.15
ते मां रक्षत सङ्ग्रामे मा वो मूर्ध्नि धनञ्जयः ।
पदं कृत्वाऽऽप्नुयाल्लक्ष्यं युक्तं प्रतिविधीयताम् ॥ ७.७५.१५ ॥
戦において私を守れ。ダナンジャヤがお前たちの頭を踏み越えて目的に届かぬように。相応の手配をせよ。
7.75.16
अथ रक्षा न मे सम्यक्क्रियते कुरुनन्दन ।
अनुजानीहि मां राजन्गमिष्यामि गृहान्प्रति ॥ ७.७५.१६ ॥
クルの喜びよ!今、私はきちんと守られていない。王よ、私に暇を与えよ。家へ帰るとしよう。
7.75.17
एवमुक्तस्त्ववाक्शीर्षो विमनाः ससुयोधनः ।
श्रुत्वा तं समयं तस्य ध्यानमेवान्वपद्यत ॥ ७.७५.१७ ॥
そう言われると、彼は頭を垂れ、意気消沈して、スヨーダナとともにその決意を聞き、それについての思索に沈んだ。
7.75.18
तमार्तमभिसम्प्रेक्ष्य राजा किल स सैन्धवः ।
मृदु चात्महितं चैव सापेक्षमिदमुक्तवान् ॥ ७.७५.१८ ॥
苦しむ彼を見て、シンドゥの王は穏やかに、彼自身の利益を思いやって、次のように語った。
7.75.19
नेह पश्यामि भवतां तथावीर्यं धनुर्धरम् ।
योऽर्जुनस्यास्त्रमस्त्रेण प्रतिहन्यान्महाहवे ॥ ७.७५.१९ ॥
大戦において、アルジュナの武器を武器で防ぎ得るほどの勇猛な弓手は、あなた方の中に見当たらない。
7.75.20
वासुदेवसहायस्य गाण्डीवं धुन्वतो धनुः ।
कोऽर्जुनस्याग्रतस्तिष्ठेत्साक्षादपि शतक्रतुः ॥ ७.७५.२० ॥
ヴァースデーヴァを味方とし、ガーンディーヴァの弓を振るうアルジュナの前に、誰が立ちはだかれようか。帝釈天自身でさえ不可能だ。
7.75.21
महेश्वरोऽपि पार्थेन श्रूयते योधिनः पुरा ।
पदातिना महावीर्यो गिरौ हिमवति प्रभुः ॥ ७.७५.२१ ॥
昔、ヒマヴァット山において、偉大な主マヘーシュヴァラもまた徒歩で、プリター の子と戦ったと伝えられている。
7.75.22
दानवानां सहस्राणि हिरण्यपुरवासिनाम् ।
जघानैकरथेनैव देवराजप्रचोदितः ॥ ७.७५.२२ ॥
神々の王インドラに駆り立てられ、彼は一台の戦車だけで、黄金の都に住むダーナヴァの数千を打ち倒した。
7.75.23
समायुक्तो हि कौन्तेयो बासुदेवेन धीमता ।
सामरानपि लोकांस्त्रीन्हन्यादिति मतिर्मम ॥ ७.७५.२३ ॥
賢明なヴァースデーヴァと結ばれたクンティーの子は、神々をも含む三界を滅ぼし得る、というのが私の考えだ。
7.75.24
सोऽहमिच्छाम्यनुज्ञातुं रक्षितुं वा महात्मना ।
द्रोणेन सहपुत्रेण वीरेण यदि मन्यसे ॥ ७.७५.२४ ॥
もしあなたがよいと思われるなら、偉大な英雄ドローナとその息子を守る許しを得たいと思う。
7.75.25
स राज्ञा स्वयमाचार्यो भृशमत्रार्थितोऽर्जुन ।
संविधानं च विहितं रथाश्च किल सज्जिताः ॥ ७.७५.२५ ॥
アルジュナよ、王自らが師に強く懇願した。陣形は整えられ、戦車も準備された。
7.75.26
कर्णो भूरिश्रवा द्रौणिर्वृषसेनश्च दुर्जयः ।
कृपश्च मद्रराजश्च षडेतेऽस्य पुरोगमाः ॥ ७.७५.२६ ॥
カルナ、ブーリシュラヴァス、ドローナの息子、無敵のヴリシャセーナ、クリパ、そしてマドラ王。この六人がこの陣の先頭に立つ。
7.75.27
शकटः पद्मकश्चार्धो व्यूहो द्रोणेन निर्मितः ।
पद्मकर्णिकमध्यस्थः सूची पार्श्वे जयद्रथः ॥ ७.७५.२७ ॥
車陣、蓮華陣、そして半陣はドローナが組んだものだ。ジャヤドラタは蓮の花托の中央におり、針陣の側面にいる。
7.75.28
स्थास्यते रक्षिते वीरैः सिन्धुराट् स सुदुर्मदः ।
धनुष्यस्त्रे च वीर्ये च प्राणे चैव तथौरसे ॥ ७.७५.२८ ॥
シンドゥの王、極めて傲慢なる彼は、英雄たちに守られて立つだろう。弓において、武器において、勇力において、命において、また胸においても。
7.75.29
अविषह्यतमा ह्येते निश्चिताः पार्थ षड्रथाः ।
एतानजित्वा सगणान्नैव प्राप्यो जयद्रथः ॥ ७.७५.२९ ॥
パールタよ、この六人の戦車兵は到底抗しがたく、決意も固い。彼らとその従者を倒さずして、ジャヤドラタに届くことはできない。
7.75.30
तेषामेकैकशो वीर्यं षण्णां त्वमनुचिन्तय ।
सहिता हि नरव्याघ्र न शक्या जेतुमञ्जसा ॥ ७.७५.३० ॥
人中の虎よ、その六人の勇力を一人ずつよく考えよ。彼らが一緒にいるならば、容易に打ち破ることはできないのだから。
7.75.31
भूयस्तु मन्त्रयिष्यामि नीतिमात्महिताय वै ।
मन्त्रज्ञैः सचिवैः सार्धं सुहृद्भिः कार्यसिद्धये ॥ ७.७५.३१ ॥
再び私は自らの利益のために、策略に通じた大臣や善意の友と共に方策を協議しよう、事を成し遂げるために。