蚁垤《罗摩衍那》 · 篇 1.28
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.28.1
प्रतिगृह्य ततोऽस्त्राणि प्रहृष्टवदनः शुचिः ।
गच्छन्नेव च काकुत्स्थो विश्वामित्रमथाब्रवीत् ॥ १.२८.१ ॥
随后,领受了神兵的、面容欢喜而清净的迦古特斯塔之子罗摩,一边走着,一边对毗首弥多罗说道。
1.28.2
गृहीतास्त्रोऽस्मि भगवन् दुराधर्षः सुरैरपि ।
अस्त्राणां त्वहमिच्छामि संहारान् मुनिपुङ्गव ॥ १.२८.२ ॥
尊者啊,我已领受神兵,即便诸天也无法战胜我。最杰出的仙人啊,我希望得到收回神兵的咒语。
1.28.3
एवं ब्रुवति काकुत्स्थे विश्वामित्रो महातपाः ।
संहारान् व्याजहाराथ धृतिमान् सुव्रतः शुचिः ॥ १.२८.३ ॥
迦古特斯塔之子如此说罢,大苦行者、坚定、持守善誓而清净的毗首弥多罗便宣说了收回神兵的咒语。
1.28.4
सत्यवन्तं सत्यकीर्तिं धृष्टं रभसमेव च ।
प्रतिहारतरं नाम पराङ्मुखमवाङ्मुखम् ॥ १.२८.४ ॥
名为真实者、真名者、勇猛者、迅疾者、最善退者,以及背向者和向下者。
1.28.5
लक्ष्यालक्ष्याविमौ चैव दृढनाभसुनाभकौ ।
दशाक्षशतवक्त्रौ च दशशीर्षशतोदरौ ॥ १.२८.५ ॥
这两者是“可见”与“不可见”,坚脐与善脐,十目与百口,十首与百腹。
1.28.6
पद्मनाभमहानाभौ दुन्दुनाभसुनाभकौ ।
ज्योतिषं शकुनं चैव नैरास्यविमलावुभौ ॥ १.२८.६ ॥
莲脐与大脐,鼓脐与善脐,星辰与鸟鸣,无面与清净——这两者。
1.28.7
यौगन्धरविनिद्रौ च दैत्यप्रमथनौ तथा ।
शुचिबाहुर्महाबाहुर्निष्कलिर्विरुचस्तथा ।
सार्चिर्माली धृतिमाली वृत्तिमान् रुचिरस्तथा ॥ १.२८.७ ॥
耶冈陀罗与毗尼陀罗,这两位摧毁达提耶的神;净臂、大臂、尼什卡利、毗噜遮,以及萨尔契、摩利、坚鬘、转生者与悦意。
1.28.8
पित्र्यः सौमनसश्चैव विधूतमकरावुभौ ।
परवीरं रतिं चैव धनधान्यौ च राघव ॥ १.२८.८ ॥
父神与善意,两位毗陀多与摩迦罗;还有帕拉维罗、罗蒂、财与谷,啊,罗摩。
1.28.9
कामरूपं कामरुचिं मोहमावरणं तथा ।
जृम्भकं सर्वनाभं च पन्थनवरुणौ तथा ॥ १.२८.९ ॥
欲形与欲悦,迷惑与遮蔽亦然;哈欠与全脐,潘萨纳与伐楼那亦然。
1.28.10
कृशाश्वतनयान् राम भास्वरान् कामरूपिणः ।
प्रतीच्छ मम भद्रं ते पात्रभूतोऽसि राघव ॥ १.२८.१० ॥
罗摩啊,请接受这些光辉灿烂、能随意变化形貌的克里沙什瓦之子。愿你吉祥;啊,罗怙之后,你正是合适的受者。
1.28.11
बाढमित्येव काकुत्स्थः प्रहृष्टेनान्तरात्मना ।
दिव्यभास्वरदेहाश्च मूर्तिमन्तः सुखप्रदाः ॥ १.२८.११ ॥
罗摩(迦恭施家族之人)说:“好。”便怀着欢喜的心接受了它们。
1.28.12
केचिदङ्गारसदृशाः केचिद् धूमोपमास्तथा ।
चन्द्रार्कसदृशाः केचित् प्रह्वाञ्जलिपुटास्तथा ॥ १.२८.१२ ॥
有的如炽热的炭火,有的如烟雾;有的如日月,有的恭敬地合掌而立。
1.28.13
रामं प्राञ्जलयो भूत्वाब्रुवन् मधुरभाषिणः ।
इमे स्म नरशार्दूल शाधि किं करवाम ते ॥ १.२८.१३ ॥
他们以甜美的言语合掌对罗摩说:"人中虎啊,我们在此;请吩咐,我们该为你做什么?"
1.28.14
गम्यतामिति तानाह यथेष्टं रघुनन्दनः ।
मानसाः कार्यकालेषु साहाय्यं मे करिष्यथ ॥ १.२८.१४ ॥
罗怙之乐对他们说:"你们随意离去吧;诸位心生之子啊,在需要之时,你们将帮助我。"
1.28.15
अथ ते राममामन्त्र्य कृत्वा चापि प्रदक्षिणम् ।
एवमस्त्विति काकुत्स्थमुक्त्वा जग्मुर्यथागतम् ॥ १.२८.१५ ॥
随后,他们向罗摩告辞,绕行右侧,对迦古什特ha说"就这样吧",便沿来路返回了。
1.28.16
स च तान् राघवो ज्ञात्वा विश्वामित्रं महामुनिम् ।
गच्छन्नेवाथ मधुरं श्लक्ष्णं वचनमब्रवीत् ॥ १.२८.१६ ॥
罗怙之子见他们离去,又认出大仙人毗首密多罗,便一边行走,一边以甜美温柔的言语说道。
1.28.17
किमेतन्मेघसंकाशं पर्वतस्याविदूरतः ।
वृक्षखण्डमितो भाति परं कौतूहलं हि मे ॥ १.२८.१७ ॥
"山旁不远处那如云一般的是什么?从这里望去,一片树林闪耀着,我心中十分好奇。"
1.28.18
दर्शनीयं मृगाकीर्णं मनोहरमतीव च ।
नानाप्रकारैः शकुनैर्वल्गुभाषैरलङ्कृतम् ॥ १.२८.१८ ॥
此地景色宜人,群鹿聚集,极为迷人,还有各种婉转鸣叫的鸟儿点缀其间。
1.28.19
निःसृताःस्मो मुनिश्रेष्ठ कान्ताराद् रोमहर्षणात् ।
अनया त्ववगच्छामि देशस्य सुखवत्तया ॥ १.२८.१९ ॥
最好的仙人啊,我们已经走出了那令人毛骨悚然的森林。从此地的宜人之处,我能察觉到这一点。
1.28.20
सर्वं मे शंस भगवन् कस्याश्रमपदं त्विदम् ।
संप्राप्ता यत्र ते पापा ब्रह्मघ्ना दुष्टचारिणः ॥ १.२८.२० ॥
尊者啊,请把一切都告诉我:这座净修林属于谁?那些罪恶的、杀害婆罗门的、行为邪恶的人曾来到此处。
1.28.21
तव यज्ञस्य विघ्नाय दुरात्मानो महामुने ।
भगवंस्तस्य को देशः सा यत्र तव याज्ञिकी ॥ १.२८.२१ ॥
大仙啊,那些妨碍你祭祀的恶毒之人在哪里?尊者啊,他们的地方是哪一处?你的祭坛又在何处?
1.28.22
रक्षितव्या क्रिया ब्रह्मन् मया वध्याश्च राक्षसाः ।
एतत् सर्वं मुनिश्रेष्ठ श्रोतुमिच्छाम्यहं प्रभो ॥ १.२८.२२ ॥
婆罗门啊,我必须守护你的神圣祭仪,那些罗刹也必须被诛杀。最好的仙人,尊者啊,我想听听这一切。