Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 1.34

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.34.1

कृतोद्वाहे गते तस्मिन् ब्रह्मदत्ते च राघव ।
अपुत्रः पुत्रलाभाय पौत्रीमिष्टिमकल्पयत् ॥ १.३४.१ ॥

罗怙之裔啊,梵授成婚之后,无子的国王为求得子嗣而筹办了一场祭祀,此祭能赐予孙子。

1.34.2

इष्ट्यां तु वर्तमानायां कुशनाभं महीपतिम् ।
उवाच परमोदारः कुशो ब्रह्मसुतस्तदा ॥ १.३४.२ ॥

祭祀正在进行之时,梵天之子、极其慷慨的俱舍对地上之主俱舍那婆说道。

1.34.3

पुत्रस्ते सदृशः पुत्र भविष्यति सुधार्मिकः ।
गाधिं प्राप्स्यसि तेन त्वं कीर्तिं लोके च शाश्वतीम् ॥ १.३४.३ ॥

将有一子与你相似,极为正直;由于他,你将获得迦提,并在世间赢得永恒的名声。

1.34.4

एवमुक्त्वा कुशो राम कुशनाभं महीपतिम् ।
जगामाकाशमाविश्य ब्रह्मलोकं सनातनम् ॥ १.३४.४ ॥

罗摩啊,俱舍说完这些话,便与地上之主俱舍那婆告别,进入天空,前往梵天的永恒世界。

1.34.5

कस्यचित् त्वथ कालस्य कुशनाभस्य धीमतः ।
जज्ञे परमधर्मिष्ठो गाधिरित्येव नामतः ॥ १.३४.५ ॥

过了些时日,智慧的俱舍那婆生下一子,至为守法,名为迦提。

1.34.6

स पिता मम काकुत्स्थ गाधिः परमधार्मिकः ।
कुशवंशप्रसूतोऽस्मि कौशिको रघुनन्दन ॥ १.३४.६ ॥

迦古特斯塔啊,那位至为守法的迦提是我的父亲。罗怙之乐啊,我生于俱舍之族,故名憍尸迦。

1.34.7

पूर्वजा भगिनी चापि मम राघव सुव्रता ।
नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता ॥ १.३४.७ ॥

罗怙之子啊,我还有一位姐姐,她持守善良的誓愿。她名叫萨蒂亚瓦蒂,被嫁给了利尺迦。

1.34.8

सशरीरा गता स्वर्गं भर्तारमनुवर्तिनी ।
कौशिकी परमोदारा सा प्रवृत्ता महानदी ॥ १.३४.८ ॥

她追随丈夫,以肉身升往天界。那位极其慷慨的憍尸迦,如今化作大河奔流。

1.34.9

दिव्या पुण्योदका रम्या हिमवन्तमुपाश्रिता
लोकस्य हितकार्यार्थं प्रवृत्ता भगिनी मम ॥ १.३४.९ ॥

我的姐姐,神圣、美丽、水源圣洁,依托喜马拉雅,为世间的福利而流淌。

1.34.10

ततोऽहं हिमवत्पार्श्वे वसामि नियतः सुखम्
भगिन्यां स्नेहसंयुक्तः कौशिक्यां रघुनन्दन ॥ १.३४.१० ॥

此后我在喜马拉雅山旁,克制自律,安然居住,罗怙之喜啊,我对姐姐憍尸迦满怀深情。

1.34.11

सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठिता
पतिव्रता महाभागा कौशिकी सरितां वरा ॥ १.३४.११ ॥

那位萨蒂亚瓦蒂纯洁无瑕,安立于真实与法。她忠于丈夫,福德深厚,憍尸迦是诸河中最殊胜的。

1.34.12

अहं हि नियमाद्राम हित्वा तां समुपागतः
सिद्धाश्रममनुप्राप्तः सिद्धोऽस्मि तव तेजसा ॥ १.३४.१२ ॥

罗摩啊,我因誓愿而离开她来到此地;抵达悉陀道场后,我因你的威光而成就了悉地。

1.34.13

एषा राम ममोत्पत्तिः स्वस्य वंशस्य कीर्तिता
देशस्य च महाबाहो यन्मां त्वं परिपृच्छसि ॥ १.३४.१३ ॥

罗摩啊,大臂者!你所询问的我的出身、我的家族与国土的来历,就是这些。

1.34.14

गतोऽर्धरात्रः काकुत्स्थ कथाः कथयतो मम ।
निद्रामभ्येहि भद्रं ते मा भूद् विघ्नोऽध्वनीह नः ॥ १.३४.१४ ॥

迦古特斯特啊,我讲述故事时已过了午夜。愿你平安;现在去睡吧,好让我们的路途不受任何阻碍。

1.34.15

निष्पन्दास्तरवः सर्वे निलीना मृगपक्षिणः ।
नैशेन तमसा व्याप्ता दिशश्च रघुनन्दन ॥ १.३४.१५ ॥

罗怙之悦啊,所有树木都静止不动,鹿与鸟儿都隐伏起来,四方都被夜晚的黑暗所笼罩。

1.34.16

शनैर्विसृज्यते संध्या नभो नेत्रैरिवावृतम् ।
नक्षत्रतारागहनं ज्योतिर्भिरवभासते ॥ १.३४.१६ ॥

黄昏渐渐退去,天空仿佛被眼睛遍布;布满星宿与繁星的天空,闪耀着它的光辉。

1.34.17

१-३४-१६॥
उत्तिष्ठते च शीतांशुः शशी लोकतमोनुदः ।
ह्लादयन् प्राणिनां लोके मनांसि प्रभया स्वया ॥ १.३४.१७ ॥

清辉的月亮,驱散世间黑暗的月亮升起了,以它自己的光辉使世间众生的心灵欢喜。

1.34.18

नैशानि सर्वभूतानि प्रचरन्ति ततस्ततः ।
यक्षराक्षससंघाश्च रौद्राश्च पिशिताशनाः ॥ १.३४.१८ ॥

夜间的一切生灵四处游荡,药叉与罗刹的群众,以及凶猛食肉的生物也在徘徊。

1.34.19

एवमुक्त्वा महातेजा विरराम महामुनिः ।
साधुसाध्विति तं सर्वे मुनयो ह्यभ्यपूजयन् ॥ १.३४.१९ ॥

大光明的大仙人如此说完便停了下来,众仙人都称赞道:“善哉!善哉!”

1.34.20

कुशिकानामयं वंशो महान् धर्मपरः सदा ।
ब्रह्मोपमा महात्मानः कुशवंश्या नरोत्तमाः ॥ १.३४.२० ॥

拘尸迦的这一族伟大,常以法为务。生于拘舍族的这些大德之人如梵天一般,是人中最上者。

1.34.21

विशेषेण भवानेव विश्वामित्र महायशः ।
कौशिकी सरितां श्रेष्ठा कुलोद्योतकरी तव ॥ १.३४.२१ ॥

尤其是您啊,大名声的毗首密多罗!河流中最殊胜的拘尸基河,正是照耀您家族的光明。

1.34.22

मुदितैर्मुनिशार्दूलैः प्रशस्तः कुशिकात्मजः ।
निद्रामुपागमच्छ्रीमानस्तंगत इवांशुमान् ॥ १.३४.२२ ॥

拘尸迦之子受到欢喜的诸仙中之虎的赞叹,光彩如将落的太阳,便入睡了。

1.34.23

रामोऽपि सहसौमित्रिः किञ्चिदागतविस्मयः ।
प्रशस्य मुनिशार्दूलं निद्रां समुपसेवते ॥ १.३४.२३ ॥

罗摩也与苏弥特罗一起,略有惊叹,赞叹了人中之虎的诸仙,便入睡了。