蚁垤《罗摩衍那》 · 篇 1.44
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.44.1
स गत्वा सागरं राजा गङ्गायानुगतस्तदा ।
प्रविवेश तलं भूमेर्यत्र ते भस्मसात्कृताः ॥ १.४४.१ ॥
国王抵达大海,此时随着恒河前行,进入大地的深处,那里正是他们化为灰烬之处。
1.44.2
भस्मन्यथाप्लुते राम गङ्गायाः सलिलेन वै ।
सर्वलोकप्रभुर्ब्रह्मा राजानमिदमब्रवीत् ॥ १.४४.२ ॥
罗摩啊,当灰烬被恒河之水浸透时,众界之主梵天对国王说了这些话。
1.44.3
तारिता नरशार्दूल दिवं याताश्च च देववत् ।
षष्टिः पुत्रसहस्राणि सगरस्य महात्मनः ॥ १.४४.३ ॥
人中之虎啊,大德的娑迦罗的六万个儿子已获解脱,如诸神一般升入天界。
1.44.4
सागरस्य जलं लोके यावत्स्थास्यति पार्थिव ।
सगरस्यात्मजाः सर्वे दिवि स्थास्यन्ति देववत् ॥ १.४४.४ ॥
国王啊,只要世间还有大海之水,娑迦罗的所有儿子都将如诸神一般留在天界。
1.44.5
इयं च दुहिता ज्येष्ठा तव गङ्गा भविष्यति ।
त्वत्कृतेन च नाम्नाथ लोके स्थास्यति विश्रुता ॥ १.४४.५ ॥
这位恒河将成为你的长女;因你的功德,并以你的名字,她将在世间名声远扬。
1.44.6
गङ्गा त्रिपथगा नाम दिव्या भागीरथीति च ।
त्रीन् पथो भावयन्तीति तस्मात् त्रिपथगा स्मृता ॥ १.४४.६ ॥
恒河又名三途河、天上河与婆吉罗提河;因她净化三界之路,故被称为三途河。
1.44.7
पितामहानां सर्वेषां त्वमत्र मनुजाधिप ।
कुरुष्व सलिलं राजन् प्रतिज्ञामपवर्जय ॥ १.४४.७ ॥
人主啊,你应在此为所有祖先奉献水祭。大王,请履行你的誓言。
1.44.8
पूर्वकेण हि ते राजंस्तेनातियशसा तदा ।
धर्मिणां प्रवरेणाथ नैष प्राप्तो मनोरथः ॥ १.४४.८ ॥
大王,你的先祖,名声极盛,为诸正法者之首,当时也未能达成此愿。
1.44.9
तथैवांशुमता तात लोकेऽप्रतिमतेजसा ।
गङ्गां प्रार्थयता नेतुं प्रतिज्ञा नापवर्जिता ॥ १.४४.९ ॥
孩子,同样,世上无双光辉的阿述曼祈请引来恒河,然而他的誓愿未能实现。
1.44.10
राजर्षिणा गुणवता महर्षिसमतेजसा ।
मत्तुल्यतपसा चैव क्षत्रधर्मस्थितेन च ॥ १.४४.१० ॥
那位德行卓著的王仙,光辉与大仙相等,苦行与我相当,恪守刹帝利之法。
1.44.11
दिलीपेन महाभाग तव पित्रातितेजसा ।
पुनर्न शकिता नेतुं गङ्गां प्रार्थयतानघ ॥ १.४४.११ ॥
大福之人啊,你的父亲迪利波,光辉非凡,祈请引来恒河,却未能再次引来。无瑕之人啊。
1.44.12
सा त्वया समतिक्रान्ता प्रतिज्ञा पुरुषर्षभ ।
प्राप्तोऽसि परमं लोके यशः परमसम्मतम् ॥ १.४४.१२ ॥
人中之雄啊,你已履行了那誓言。你在世间获得了至高的声名,备受尊崇。
1.44.13
तच्च गङ्गावतरणं त्वया कृतमरिंदम ।
अनेन च भवान् प्राप्तो धर्मस्यायतनं महत् ॥ १.४४.१३ ॥
降伏敌人者啊!你完成了恒河的降临,因此你获得了法的伟大居所。
1.44.14
प्लावयस्व त्वमात्मानं नरोत्तम सदोचिते ।
सलिले पुरुषश्रेष्ठ शुचिः पुण्यफलो भव ॥ १.४४.१४ ॥
人中之最啊,在这永远适宜的水中沐浴自己吧。人中之最啊,成为清净者,收获功德的果报。
1.44.15
पितामहानां सर्वेषां कुरुष्व सलिलक्रियाम् ।
स्वस्ति तेऽस्तु गमिष्यामि स्वं लोकं गम्यतां नृप ॥ १.४४.१५ ॥
为你所有的祖先行水祭。愿你吉祥。我将前往我的世界;国王啊,你也请回你的世界吧。
1.44.16
इत्येवमुक्त्वा देवेशः सर्वलोकपितामहः
यथागतं तथागच्चद् देवलोकं महायशाः ॥ १.४४.१६ ॥
说完这些话,众神之主、一切世界的祖父、大名远扬者,便沿着来时的路回到了天界。
1.44.17
भगीरथस्तु राजर्षिः कृत्वा सलिलमुत्तमम्
यथाक्रमं यथान्यायं सागराणां महायशाः ॥ १.४४.१७ ॥
大名远扬的王仙婆吉罗陀,按照次序与仪轨,为萨加拉之子们行了殊胜的水祭。
1.44.18
कृतोदकः शुची राजा स्वपुरं प्रविवेश ह ।
समृद्धार्थो नरश्रेष्ठ स्वराज्यं प्रशशास ह ॥ १.४४.१८ ॥
国王行完水祭,得以清净,便进入自己的城市。人中之最啊,他的心愿已成,便治理自己的王国。
1.44.19
प्रमुमोद च लोकस्तं नृपमासाद्य राघव ।
नष्टशोकः समृद्धार्थो बभूव विगतज्वरः ॥ १.४४.१९ ॥
啰ghava啊,百姓见到那位君王,无比欢喜;忧愁消散,心愿成就,烦恼尽去。
1.44.20
एष ते राम गंगाया विस्तरोऽभिहितो मया ।
स्वस्ति प्राप्नुहि भद्रं ते संध्याकालोऽतिवर्तते ॥ १.४४.२० ॥
啰摩啊,我已将恒河的这段始末说给你听。愿你平安吉祥;黄昏的时光正在流逝。
1.44.21
धन्यं यशस्यमायुष्यं पुत्र्यं स्वर्ग्यमथापि च।
यः श्रावयति विप्रेषु क्षत्रियेष्वितरेषु च ॥ १.४४.२१ ॥
此事迹带来财富、名声、长寿、子嗣与天界;凡在婆罗门、刹帝利及其他人中使之被听闻的人……
1.44.22
प्रीयन्ते पितरस्तस्य प्रीयन्ते दैवतानि च ।
इदमाख्यानमायुष्यं गंगावतरणं शुभम् ॥ १.४४.२२ ॥
他的祖先欢喜,诸神也欢喜。此叙述赐人长寿——恒河降临的吉祥故事。
1.44.23
यः शृणोति च काकुत्स्थ सर्वान् कामानवाप्नुयात् ।
सर्वे पापाः प्रणश्यन्ति आयुः कीर्तिश्च वर्धते ॥ १.४४.२३ ॥
啰堪古特斯塔啊,凡听闻此者,皆得所求;诸罪尽灭,寿命与名声增长。