Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 1.45

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.45.1

विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः।
विस्मयं परमं गत्वा विश्वामित्रमथाब्रवीत् ॥ १.४५.१ ॥

罗怙之后(罗摩)与拉克什曼那一同听了毗奢密多罗的话,心中大为惊叹,便对毗奢密多罗说道。

1.45.2

अत्यद्भुतमिदं ब्रह्मन् कथितं परमं त्वया।
गङ्गावतरणं पुण्यं सागरस्यापि पूरणम् ॥ १.४५.२ ॥

婆罗门啊,您所讲的这段极为奇妙的故事——恒河的降临与大海的充盈——极为神圣。

1.45.3

क्षणभूतेव नौ रात्रिः संवृत्तेयं परंतप।
इमां चिन्तयतोः सर्वां निखिलेन कथां तव ॥ १.४५.३ ॥

啊,灼烧敌人的人!我们二人沉思您的全部故事,这一夜对我们而言仿佛只是一瞬间。

1.45.4

तस्य सा शर्वरी सर्वा मम सौमित्रिणा सह।
जगाम चिन्तयानस्य विश्वामित्र कथां शुभाम् ॥ १.४५.४ ॥

我与苏弥陀罗(拉克什曼那)一同,沉思毗奢密多罗的吉祥故事,整夜度过。

1.45.5

ततः प्रभाते विमले विश्वामित्रं तपोधनम्।
उवाच राघवो वाक्यं कृताह्निकमरिन्दमः ॥ १.४५.५ ॥

于是,清晨明净之时,灭敌者罗怙之后(罗摩)完成了日常的礼仪,向以苦行为财富的毗奢密多罗说了这些话。

1.45.6

गता भगवती रात्रिः श्रोतव्यं परमं श्रुतम्।
तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम् ॥ १.४५.६ ॥

尊贵的夜晚已经过去,最值得聆听的故事也已听完。让我们渡过恒河吧——河流中最殊胜、神圣、分三路流淌的河。

1.45.7

नौरेषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम्।
भगवन्तमिह प्राप्तं ज्ञात्वा त्वरितमागता ॥ १.४५.७ ॥

这只船已备妥,供行善积德的仙人使用。得知尊者已来到此处,它便迅速赶来了。

1.45.8

तस्य तद् वचनं श्रुत्वा राघवस्य महात्मनः।
सन्तारं कारयामास सर्षिसङ्घस्य कौशिकः ॥ १.४५.८ ॥

考希迦听了伟大的罗伽婆的这番话,便让他和众仙人一同渡过了河。

1.45.9

उत्तरं तीरमासाद्य सम्पूज्यर्षिगणं ततः।
गङ्गाकूले निविष्टास्ते विशालां ददृशुः पुरीम् ॥ १.४५.९ ॥

抵达北岸,向众仙人致敬之后,他们在恒河岸边坐下,看见了毗舍罗城。

1.45.10

ततो मुनिवरस्तूर्णं जगाम सहराघवः।
विशालां नगरीं रम्यां दिव्यां स्वर्गोपमां तदा ॥ १.४५.१० ॥

于是,最好的仙人与罗伽婆一同迅速前往毗舍罗城——那座美丽、神圣、如同天国的城市。

1.45.11

अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम्।
पप्रच्छ प्राञ्जलिर्भूत्वा विशालामुत्तमां पुरीम् ॥ १.४५.११ ॥

于是,极具智慧的罗摩合掌向大仙人毗首弥多罗询问那座殊胜的毗舍罗城。

1.45.12

कतमो राजवंशोऽयं विशालायां महामुने।
श्रोतुमिच्छामि भद्रं ते परं कौतूहलं हि मे ॥ १.४५.१२ ॥

大仙啊,毗舍罗城中这是哪一王族?我愿意听闻。愿您吉祥,我的好奇心非常强烈。

1.45.13

तस्य तद् वचनं श्रुत्वा रामस्य मुनिपुङ्गवः।
आख्यातुं तत्समारेभे विशालायाः पुरातनम् ॥ १.४५.१३ ॥

闻听罗摩之言,诸仙中的翘楚开始讲述毗舍罗的古老历史。

1.45.14

श्रूयतां राम शक्रस्य कथां कथयतः श्रुताम्।
अस्मिन् देशे हि यद् वृत्तं शृणु तत्त्वेन राघव ॥ १.४५.१४ ॥

罗摩啊,请听我讲述的因陀罗的故事;罗怙之裔啊,请如实听这片土地上发生的事。

1.45.15

पूर्वं कृतयुगे राम दितेः पुत्रा महाबलाः।
अदितेश्च महाभागा वीर्यवन्तः सुधार्मिकाः ॥ १.४५.१५ ॥

往昔在克利塔时代,罗摩啊,提提的诸子极为强大,阿提提的诸子则福德深厚、勇武且极其守法。

1.45.16

ततस्तेषां नरव्याघ्र बुद्धिरासीन्महात्मनाम्।
अमरा विजराश्चैव कथं स्यामो निरामयाः ॥ १.४५.१६ ॥

于是,人中之虎啊,那些大智之人心中生起一念:我们如何才能不死、不老、无病?

1.45.17

तेषां चिन्तयतां तत्र बुद्धिरासीद् विपश्चिताम्।
क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै ॥ १.४५.१७ ॥

众智者思考之际,心中生起一念:搅动乳海,便可在那里获得甘露。

1.45.18

ततो निश्चित्य मथनं योक्त्रं कृत्वा च वासुकिम्।
मन्थानं मन्दरं कृत्वा ममन्थुरमितौजसः ॥ १.४५.१८ ॥

于是决定搅动,以婆苏基为绳,以曼陀罗山为杵,那些威力无量者便搅动了大海。

1.45.19

अथ वर्षसहस्रेण योक्त्रसर्पशिरांसि च।
वमन्तोऽतिविषं तत्र ददंशुर्दशनैः शिलाः ॥ १.४५.१९ ॥

于是经过千年,用作绳索的蛇首吐出极烈的毒液,用牙齿啃咬那里的岩石。

1.45.20

उत्पपाताग्निसंकाशं हालाहलमहाविषम्।
तेन दग्धं जगत् सर्वं सदेवासुरमानुषम् ॥ १.४५.२० ॥

如火一般的大毒哈拉哈拉升起,整个世界连同天神、阿修罗与人类都被它焚烧。

1.45.21

अथ देवा महादेवं शङ्करं शरणार्थिनः।
जग्मुः पशुपतिं रुद्रं त्राहि त्राहीति तुष्टुवुः ॥ १.४५.२१ ॥

于是诸神寻求庇护,前往大神湿婆(Śaṅkara),即万物之主楼陀罗,并呼喊着“救救我们,救救我们!”来赞颂他。

1.45.22

एवमुक्तस्ततो देवैर्देवदेवेश्वरः प्रभुः।
प्रादुरासीत् ततोऽत्रैव शङ्खचक्रधरो हरिः ॥ १.४५.२२ ॥

诸神如此祈求之后,诸神之主、手持法螺与法轮的哈利(Hari)便在那里显现。

1.45.23

उवाचैनं स्मितं कृत्वा रुद्रं शूलधरं हरिः।
दैवतैर्मथ्यमाने तु यत्पूर्वं समुपस्थितम् ॥ १.४५.२३ ॥

哈利微笑着对手持三叉戟的楼陀罗说道:“便是诸神搅动时,最先出现的那物。”

1.45.24

तत् त्वदीयं सुरश्रेष्ठ सुराणामग्रतो हि यत्।
अग्रपूजामिह स्थित्वा गृहाणेदं विषं प्रभो ॥ १.४५.२४ ॥

“诸神之首啊,那毒物本属于您,因为您独自先于诸神受到首要的供奉。主啊,请站在这里,接受这毒药吧。”

1.45.25

इत्युक्त्वा च सुरश्रेष्ठस्तत्रैवान्तरधीयत।
देवतानां भयं दृष्ट्वा श्रुत्वा वाक्यं तु शार्ङ्गिणः ॥ १.४५.२५ ॥

说完这话,诸神中最杰出者便在那里隐去。见诸天恐惧,又听闻持弓者(毗湿奴)之言。

1.45.26

हालाहलं विषं घोरं संजग्राहामृतोपमम्।
देवान् विसृज्य देवेशो जगाम भगवान् हरः ॥ १.४५.२६ ॥

他将可怕的哈拉哈拉毒如甘露般接受。遣送诸神后,神主吉祥者哈罗(湿婆)便离去了。

1.45.27

ततो देवासुराः सर्वे ममन्थू रघुनन्दन।
प्रविवेशाथ पातालं मन्थानः पर्वतोत्तमः ॥ १.४५.२७ ॥

于是诸天神与阿修罗都开始搅动,啊,罗怙族之喜悦者。那最上的山岳曼陀罗,即搅棒,便陷入了地底世界。

1.45.28

ततो देवाः सगन्धर्वास्तुष्टुवुर्मधुसूदनम्।
त्वं गतिः सर्वभूतानां विशेषेण दिवौकसाम् ॥ १.४५.२८ ॥

于是诸天神与乾闼婆一同赞颂摩豆苏陀那(毗湿奴):“你是一切众生的归宿,尤其是天界居民的归宿。”

1.45.30

पालयास्मान् महाबाहो गिरिमुद्धर्तुमर्हसि।
पर्वतं पृष्ठतः कृत्वा शिष्ये तत्रोदधौ हरिः।
पर्वताग्रं तु लोकात्मा हस्तेनाक्रम्य केशवः ॥ १.४५.३० ॥

“啊,大臂者,请护佑我们;举起此山正合你的身份。”于是哈里将山置于背上,躺卧在大海之中;世界之魂(毗湿奴)केशव以手按住山巅。

1.45.31

देवानां मध्यतः स्थित्वा ममन्थ पुरुषोत्तमः।
अथ वर्षसहस्रेण आयुर्वेदमयः पुमान् ॥ १.४५.३१ ॥

最上之人立于诸神之中搅动;随后,经过千年,由阿育吠陀所成的人显现了。

1.45.32

उदतिष्ठत् सुधर्मात्मा सदण्डः सकमण्डलुः।
पूर्वं धन्वन्तरिर्नाम अप्सराश्च सुवर्चसः ॥ १.४५.३२ ॥

德行高尚的檀凡陀罗手持木杖与水瓶首先升起,光彩夺目的阿普萨拉斯也随之升起。

1.45.33

अप्सु निर्मथनादेव रसात् तस्माद् वरस्त्रियः।
उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसोऽभवन् ॥ १.४५.३३ ॥

人中之最!正因搅动海水,从其精华中升起了殊胜的女子,因此她们被称为阿普萨拉斯。

1.45.34

षष्टिः कोट्योऽभवंस्तासामप्सराणां सुवर्चसाम्।
असंख्येयास्तु काकुत्स्थ यास्तासां परिचारिकाः ॥ १.४५.३४ ॥

那些光彩夺目的阿普萨拉斯共有六十千万之数;啊,迦古特斯塔!她们的侍女则数不胜数。

1.45.35

न ताः स्म प्रतिगृह्णन्ति सर्वे ते देवदानवाः।
अप्रतिग्रहणादेव ता वै साधारणाः स्मृताः ॥ १.४५.३५ ॥

诸天与阿修罗都不接纳她们;正因未被接纳,她们被视为众人共有。

1.45.36

वरुणस्य ततः कन्या वारुणी रघुनन्दन।
उत्पपात महाभागा मार्गमाणा परिग्रहम् ॥ १.४५.३६ ॥

随后,啊,罗忽之乐!伐楼那之女伐楼尼,极有福德,为求被接纳而升起。

1.45.37

दितेः पुत्रा न तां राम जगृहुर्वरुणात्मजाम्।
अदितेस्तु सुता वीर जगृहुस्तामनिन्दिताम् ॥ १.४५.३७ ॥

啊,罗摩!第缔之子不接纳伐楼那之女;然而,啊,英雄!阿底提之子接纳了那位无可指摘的少女。

1.45.38

असुरास्तेन दैतेयाः सुरास्तेनादितेः सुताः।
हृष्टाः प्रमुदिताश्चासन् वारुणीग्रहणात् सुराः ॥ १.४५.३८ ॥

因此,提缇之子成为阿修罗,阿提提之子成为天神;天神因取得伐如尼酒而欢喜,极为喜悦。

1.45.39

उच्चैःश्रवा हयश्रेष्ठो मणिरत्नं च कौस्तुभम्।
उदतिष्ठन्नरश्रेष्ठ तथैवामृतमुत्तमम् ॥ १.४५.३९ ॥

最优良的马乌恰伊什拉瓦斯、宝石与卡乌斯图巴升起;人中之杰啊,同样,至上的甘露也升起了。

1.45.40

अथ तस्य कृते राम महानासीत् कुलक्षयः।
अदितेस्तु ततः पुत्रा दितिपुत्रानयोधयन् ॥ १.४५.४० ॥

于是,罗摩啊,因此发生了大规模的族类毁灭;那时,阿提提之子与提缇之子争斗。

1.45.41

एकतामगमन् सर्वे असुरा राक्षसैः सह।
युद्धमासीन्महाघोरं वीर त्रैलोक्यमोहनम् ॥ १.४५.४१ ॥

所有阿修罗与罗刹联合起来;勇士啊,发生了令三界迷乱的极为可怖的大战。

1.45.42

यदा क्षयं गतं सर्वं तदा विष्णुर्महाबलः।
अमृतं सोऽहरत् तूर्णं मायामास्थाय मोहिनीम् ॥ १.४५.४२ ॥

当一切都被毁灭之时,大力的毗湿奴化作迷人的摩诃尼幻相,迅速夺走了甘露。

1.45.43

ये गताभिमुखं विष्णुमक्षरं पुरुषोत्तमम्।
सम्पिष्टास्ते तदा युद्धे विष्णुना प्रभविष्णुना ॥ १.४५.४३ ॥

那些迎向不灭至上神毗湿奴的人,在那场战斗中被具有威能的毗湿奴所粉碎。

1.45.44

अदितेरात्मजा वीरा दितेः पुत्रान् निजघ्निरे।
अस्मिन् घोरे महायुद्धे दैतेयादित्ययोर्भृशम् ॥ १.४५.४४ ॥

阿底提的英勇之子杀死了提提的儿子们。在这场可怕的大战中,达伊提亚与阿底提耶之间展开了激烈的厮杀。

1.45.45

निहत्य दितिपुत्रांस्तु राज्यं प्राप्य पुरंदरः।
शशास मुदितो लोकान् सर्षिसङ्घान् सचारणान् ॥ १.४५.४५ ॥

杀死提提之子后,补兰达罗(因陀罗)获得了王权,欢喜地与仙人众和乾闼婆一同统治诸世界。