ヴァールミーキのラーマーヤナ · サルガ 1.68
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.68.1
जनकेन समादिष्टा दूतास्ते क्लान्तवाहनाः।
त्रिरात्रमुषिता मार्गे तेऽयोध्यां प्राविशन् पुरीम् ॥ १.६८.१ ॥
ジャナカに命じられた使者たちは、疲れた乗り物とともに道中で三夜を過ごし、アヨーディヤー の都に入った。
1.68.2
ते राजवचनाद् गत्वा राजवेश्म प्रवेशिताः।
ददृशुर्देवसंकाशं वृद्धं दशरथं नृपम् ॥ १.६८.२ ॥
王の命により彼らは王宮へ行き、招き入れられ、神々のようで老いた王ダシャラタを見た。
1.68.3
बद्धाञ्जलिपुटाः सर्वे दूता विगतसाध्वसाः।
राजानं प्रश्रितं वाक्यमब्रुवन् मधुराक्षरम् ॥ १.६८.३ ॥
全ての使者は合掌し、恐れなく、謙虚で甘美な言葉で王に語りかけた。
1.68.4
मैथिलो जनको राजा साग्निहोत्रपुरस्कृतः।
मुहुर्मुहुर्मधुरया स्नेहसंरक्तया गिरा ॥ १.६८.४ ॥
ミティラーの王ジャナカは、火の供犠を先頭に、愛情に染まった甘い言葉で繰り返し語る。
1.68.5
कुशलं चाव्ययं चैव सोपाध्यायपुरोहितम्।
जनकस्त्वां महाराज पृच्छते सपुरःसरम् ॥ १.६८.५ ॥
大王よ、ジャナカはまず、あなたとあなたの師や家の司祭の、衰えることのない安寧を尋ねております。
1.68.6
पृष्ट्वा कुशलमव्यग्रं वैदेहो मिथिलाधिपः।
कौशिकानुमते वाक्यं भवन्तमिदमब्रवीत् ॥ १.६८.६ ॥
ヴィデーハの王、ミティラーの主は、カウシカの同意を得て、落ち着いてあなたの安寧を尋ね、このように言われました。
1.68.7
पूर्वं प्रतिज्ञा विदिता वीर्यशुल्का ममात्मजा।
राजानश्च कृतामर्षा निर्वीर्या विमुखीकृताः ॥ १.६८.७ ॥
私の誓いは以前から知られている。娘の代価は武勇である。王たちは怒ったが無力となり、退けられた。
1.68.8
सेयं मम सुता राजन् विश्वामित्रपुरस्कृतैः।
यदृच्छयागतै राजन् निर्जिता तव पुत्रकैः ॥ १.६८.८ ॥
王よ、この私の娘はヴィシュヴァーミトラに前に出されたが、偶然来たあなたの息子たちが勝ち取った。
1.68.9
तच्च रत्नं धनुर्दिव्यं मध्ये भग्नं महात्मना।
रामेण हि महाबाहो महत्यां जनसंसदि ॥ १.६८.९ ॥
そして神聖な宝の弓は、大腕の王よ、偉大な魂のラーマによって大勢の集いの中で真ん中から折られた。
1.68.10
अस्मै देया मया सीता वीर्यशुल्का महात्मने।
प्रतिज्ञां तर्तुमिच्छामि तदनुज्ञातुमर्हसि ॥ १.६८.१० ॥
武勇を代価とするシーターを、私はこの偉大な魂の方に与えねばならぬ。私は誓いを果たしたい。どうか許可を与えられよ。
1.68.11
सोपाध्यायो महाराज पुरोहितपुरस्कृतः।
शीघ्रमागच्छ भद्रं ते द्रष्टुमर्हसि राघवौ ॥ १.६८.११ ॥
大王よ、師とともに、司祭を先頭にして速やかに来られよ。あなたに幸いあれ。あなたは二人のラグヴァを見るべきである。
1.68.12
प्रतिज्ञां मम राजेन्द्र निर्वर्तयितुमर्हसि।
पुत्रयोरुभयोरेव प्रीतिं त्वमुपलप्स्यसे ॥ १.६८.१२ ॥
王の中の王よ、私の誓いを果たされよ。あなたは二人の息子から喜びを得るであろう。
1.68.13
एवं विदेहाधिपतिर्मधुरं वाक्यमब्रवीत्।
विश्वामित्राभ्यनुज्ञातः शतानन्दमते स्थितः ॥ १.६८.१३ ॥
このようにヴィデーハの主は甘美な言葉を語った。ヴィシュヴァーミトラの許しを得て、シャターナンダの意見に従いつつ。
1.68.14
दूतवाक्यं तु तच्छ्रुत्वा राजा परमहर्षितः।
वसिष्ठं वामदेवं च मन्त्रिणश्चैवमब्रवीत् ॥ १.६८.१४ ॥
使者の言葉を聞いて、王は大いに喜んだ。ヴァシシュタ、ヴァーマデーヴァおよび大臣たちにこのように語った。
1.68.15
गुप्तः कुशिकपुत्रेण कौसल्यानन्दवर्धनः।
लक्ष्मणेन सह भ्रात्रा विदेहेषु वसत्यसौ ॥ १.६८.१५ ॥
クシカの子(ヴィシュヴァーミトラ)に守られ、カウサリヤーの喜びを増す彼は、弟ラクシュマナとともにヴィデーハに住んでいる。
1.68.16
दृष्टवीर्यस्तु काकुत्स्थो जनकेन महात्मना।
सम्प्रदानं सुतायास्तु राघवे कर्तुमिच्छति ॥ १.६८.१६ ॥
マハートマー・ジャナカは、カークツトタ(ラーマ)の武勇を見て、ラーガヴァに娘を嫁がせたいと望んでいる。
1.68.17
यदि वो रोचते वृत्तं जनकस्य महात्मनः।
पुरीं गच्छामहे शीघ्रं मा भूत् कालस्य पर्ययः ॥ १.६८.१७ ॥
もし偉大なジャナカのこの提案があなた方の意にかなうなら、急いで都へ行こう。遅れてはならない。
1.68.18
मन्त्रिणो बाढमित्याहुः सह सर्वैर्महर्षिभिः।
सुप्रीतश्चाब्रवीद् राजा श्वो यात्रेति च मन्त्रिणः ॥ १.६८.१८ ॥
大臣たちとすべての大仙は「よろしい」と言った。大いに喜んだ王は大臣たちに言った、「明日出発だ」と。
1.68.19
मन्त्रिणस्तु नरेन्द्रस्य रात्रिं परमसत्कृताः।
ऊषुः प्रमुदिताः सर्वे गुणैः सर्वैः समन्विताः ॥ १.६८.१९ ॥
国王の大臣たちは大いに敬われ、喜びのうちにその夜を過ごした。彼らはあらゆる徳を備えていた。