ヴァールミーキのラーマーヤナ · サルガ 1.71
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.71.1
एवं ब्रुवाणं जनकः प्रत्युवाच कृताञ्जलिः।
श्रोतुमर्हसि भद्रं ते कुलं नः परिकीर्तितम् ॥ १.७१.१ ॥
このように語られたジャナカは合掌して答えた。「あなたに幸いがありますように。我らの家系が語られたのだから、あなたはそれを聴くにふさわしい。」
1.71.2
प्रदाने हि मुनिश्रेष्ठ कुलं निरवशेषतः।
वक्तव्यं कुलजातेन तन्निबोध महामते ॥ १.७१.२ ॥
聖者の中で最も優れた方よ、語るにあたっては、その家に生まれた者が家系を余すところなく語るべきです。大いなる智者よ、お聞きください。
1.71.3
राजाभूत् त्रिषु लोकेषु विश्रुतः स्वेन कर्मणा।
निमिः परमधर्मात्मा सर्वसत्त्ववतां वरः ॥ १.७१.३ ॥
王ニミは自らの行いによって三界に名高くなった。彼は最高に正しい心の持ち主で、あらゆる生き物の中で最も優れていた。
1.71.4
तस्य पुत्रो मिथिर्नाम जनको मिथिपुत्रकः।
प्रथमो जनको राजा जनकादप्युदावसुः ॥ १.७१.४ ॥
彼の息子はミティという名で、ジャナカとも呼ばれ、ミティの子でもあった。最初のジャナカ王は彼であり、ジャナカからウダーヴァスが生まれた。
1.71.5
उदावसोस्तु धर्मात्मा जातो वै नन्दिवर्धनः।
नन्दिवर्धसुतः शूरः सुकेतुर्नाम नामतः ॥ १.७१.५ ॥
ウダーヴァスからは正しい魂のナンディヴァルダナが生まれた。ナンディヴァルダナの勇ましい息子はスケートゥという名であった。
1.71.6
सुकेतोरपि धर्मात्मा देवरातो महाबलः।
देवरातस्य राजर्षेर्बृहद्रथ इति स्मृतः ॥ १.७१.६ ॥
スケートゥの正しい心を持つ大力の息子はデーヴァラータであった。王仙デーヴァラータの息子はブリハドラタと伝えられている。
1.71.7
बृहद्रथस्य शूरोऽभून्महावीरः प्रतापवान्।
महावीरस्य धृतिमान् सुधृतिः सत्यविक्रमः ॥ १.७१.७ ॥
ブリハドラタの子シューラが生まれた。彼は大勇士で威光あふれる人であった。大勇士の子は不動のスドリティであり、その武勇は真実であった。
1.71.8
सुधृतेरपि धर्मात्मा धृष्टकेतुः सुधार्मिकः।
धृष्टकेतोश्च राजर्षेर्हर्यश्व इति विश्रुतः ॥ १.७१.८ ॥
スドリティの子はダルマの心をもつ、非常に敬虔なドリシュタケトゥであった。王仙ドリシュタケトゥの子はハリヤシュヴァという名で知られた。
1.71.9
हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतीन्धकः।
प्रतीन्धकस्य धर्मात्मा राजा कीर्तिरथः सुतः ॥ १.७१.९ ॥
ハリヤシュヴァの子はマルであった。マルの子はプラティーンダカであった。プラティーンダカの、ダルマの心をもつ子は王キールティラタであった。
1.71.10
पुत्रः कीर्तिरथस्यापि देवमीढ इति स्मृतः।
देवमीढस्य विबुधो विबुधस्य महीध्रकः ॥ १.७१.१० ॥
キールティラタの子はデーヴァミーダと伝えられる。デーヴァミーダの子はヴィブダ、ヴィブダの子はマヒードラカであった。
1.71.11
महीध्रकसुतो राजा कीर्तिरातो महाबलः।
कीर्तिरातस्य राजर्षेर्महारोमा व्यजायत ॥ १.७१.११ ॥
マヒードラカの子は大力の王キールティラータであった。王仙キールティラータから大毛が生まれた。
1.71.12
महारोम्णस्तु धर्मात्मा स्वर्णरोमा व्यजायत।
स्वर्णरोम्णस्तु राजर्षेर्ह्रस्वरोमा व्यजायत ॥ १.७१.१२ ॥
マハーローマからダルマの心をもつスヴァルナローマが生まれた。王仙スヴァルナローマからフラスヴァローマが生まれた。
1.71.13
तस्य पुत्रद्वयं राज्ञो धर्मज्ञस्य महात्मनः।
ज्येष्ठोऽहमनुजो भ्राता मम वीरः कुशध्वजः ॥ १.७१.१३ ॥
法を知る偉大な魂の王には二人の息子がいた。私は長男で、弟は勇士クシャドヴァジャであった。
1.71.14
मां तु ज्येष्ठं पिता राज्ये सोऽभिषिच्य पिता मम।
कुशध्वजं समावेश्य भारं मयि वनं गतः ॥ १.७१.१४ ॥
父は長男である私を王国の王位に即け、クシャドヴァジャに任を委ね、重責を私に負わせて森へ去った。
1.71.15
वृद्धे पितरि स्वर्याते धर्मेण धुरमावहम्।
भ्रातरं देवसंकाशं स्नेहात् पश्यन् कुशध्वजम् ॥ १.७१.१५ ॥
老いた父が天に去った後、私は法にのっとって重責を担い、神のごとき弟クシャドヴァジャを愛情をもって見守った。
1.71.16
कस्यचित्त्वथ कालस्य सांकाश्यादागतः पुरात्।
सुधन्वा वीर्यवान् राजा मिथिलामवरोधकः ॥ १.७१.१६ ॥
ある時、サーンカーシャ市から勇猛な王スダンヴァンが来て、ミティラーを包囲した。
1.71.17
स च मे प्रेषयामास शैवं धनुरनुत्तमम्।
सीता च कन्या पद्माक्षी मह्यं वै दीयतामिति ॥ १.७१.१७ ॥
彼はシヴァの無比の弓を送り、「蓮の目の乙女シーターを私に与えよ」と言わせた。
1.71.18
तस्याप्रदानान्महर्षे युद्धमासीन्मया सह।
स हतोऽभिमुखो राजा सुधन्वा तु मया रणे ॥ १.७१.१८ ॥
偉大な聖仙よ、私が彼に娘を与えなかったので、彼と戦いが起こった。戦場で正面から相対し、王スダンヴァンは私に討たれた。
1.71.19
निहत्य तं मुनिश्रेष्ठ सुधन्वानं नराधिपम्।
सांकाश्ये भ्रातरं शूरमभ्यषिञ्चं कुशध्वजम् ॥ १.७१.१९ ॥
最上の聖仙よ、あの人の主スダヴァンを討った後、サーンカーシャで私の勇猛な弟クシャドヴァジャに灌頂を行った。
1.71.20
कनीयानेष मे भ्राता अहं ज्येष्ठो महामुने।
ददामि परमप्रीतो वध्वौ ते मुनिपुंगव ॥ १.७१.२० ॥
この者は私の弟、私は兄です。大聖者よ、最上の聖仙よ、大いに喜んで、あなたの二人の花嫁をお渡しします。
1.71.21
सीतां रामाय भद्रं ते ऊर्मिलां लक्ष्मणाय वै।
वीर्यशुल्कां मम सुतां सीतां सुरसुतोपमाम् ॥ १.७१.२१ ॥
ラーマにシーター、ラクシュマナにウルミラーを——あなたに幸いがありますように。武勇を婚資とする私の娘シーターは、神々の娘のようです。
1.71.22
द्वितीयामूर्मिलां चैव त्रिर्वदामि न संशयः।
ददामि परमप्रीतो वध्वौ ते मुनिपुंगव ॥ १.७१.२२ ॥
二人目はウルミラーです——三度申し上げます、疑いはありません。最上の聖仙よ、大いに喜んで、あなたの二人の花嫁をお渡しします。
1.71.23
रामलक्ष्मणयो राजन् गोदानं कारयस्व ह।
पितृकार्यं च भद्रं ते ततो वैवाहिकं कुरु ॥ १.७१.२३ ॥
王よ、ラーマとラクシュマナのために牛の布施を行わせてください。あなたに幸いがありますように。それから祖霊の祭儀を行い、そのあと婚礼の儀式を行いなさい。
1.71.24
मघा ह्यद्य महाबाहो तृतीयदिवसे प्रभो।
फल्गुन्यामुत्तरे राजंस्तस्मिन् वैवाहिकं कुरु।
रामलक्ष्मणयोरर्थे दानं कार्यं सुखोदयम् ॥ १.७१.२४ ॥
大いなる腕を持つ者よ、主よ、今日はマガー星宿です。三日目、王よ、ウッタラ・パルグニーの下、その日に婚礼の儀式を行いなさい。ラーマとラクシュマナのために、幸福をもたらす布施をなすべきです。