蚁垤《罗摩衍那》 · 篇 2.101
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.101.1
रामस्य वचनं श्रुत्वा भरतः प्रत्युवाच ह ।
किं मे धर्माद्विहीनस्य राजधर्मः करिष्यति ॥ २.१०१.१ ॥
婆罗多听了罗摩的话,回答道:"我失去了法,王道对我又有何用呢?"
2.101.2
शाश्वतो ऽयं सदा धर्म्मः स्थितो ऽस्मासु नरर्षभ ।
ज्येष्ठपुत्रे स्थिते राजन्न कनीयान् नृपो भवेत् ॥ २.१०१.२ ॥
人中的雄牛啊,这一法在我们中间始终确立:长子在世时,幼子不应为王。
2.101.3
स समृद्धां मया सार्द्धमयोध्यां गच्छ राघव ।
अभिषेचय चात्मानं कुलस्यास्य भवाय नः ॥ २.१०१.३ ॥
罗怙之后啊,与我同往繁荣的阿逾陀,为了我们这一家族的福祉,为自己举行灌顶吧。
2.101.4
राजानं मानुषं प्राहुर्देवत्वे स मतो मम ।
यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम् ॥ २.१०१.४ ॥
人们称君王为人,但依我看他是神;行为兼具法与利的人,被称为超人。
2.101.5
केकयस्थे च मयि तु त्वयि चारण्यमाश्रिते ।
दिवमार्यो गतो राजा यायजूकः सतां मतः ॥ २.१०१.५ ॥
我在甘勃阇,而你已入林时,那位尊贵的君王——行祭者,受善人敬重——升天而去。
2.101.6
निष्क्रान्तमात्रे भवति सहसीते सलक्ष्मणे ।
दुःखशोकाभिभूतस्तु राजा त्रिदिवमभ्यगात् ॥ २.१०१.६ ॥
你与悉多、罗什曼那刚一出发,王便被忧伤痛苦所压垮,升往天界了。
2.101.7
उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितुः ।
ऺअहं चायं च शत्रुघ्नः पूर्वमेव कृतोदकौ ॥ २.१०१.७ ॥
起来吧,人中之虎!让我们为父亲奉献水祭。我和这位舍睹卢那已经先行完成了水祭。
2.101.8
प्रियेण खलु दत्तं हि पितृलोकेषु राघव ।
अक्षय्यं भवतीत्याहुर्भवांश्चैव पितुः प्रियः ॥ २.१०१.८ ॥
罗怙之裔啊,人们说,爱子所奉献的,在祖灵之界中永不消逝;而你也是父亲所钟爱的。
2.101.9
त्वामेव शोचंस्तव दर्शनेप्सुस्त्वय्येव सक्तामनिवर्त्य बुद्धिम् ।
त्वया विहीनस्तव शोकरुग्णस्त्वां संस्मरन्नस्तमितः पिता ते ॥ २.१०१.९ ॥
只为你悲伤,渴望见到你,心念始终系于你而不曾转移,因失去你而被忧愁之病折磨,唯念着你,你的父亲已经逝去。