蚁垤《罗摩衍那》 · 篇 2.103
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.103.1
वसिष्ठः पुरतः कृत्वा दारान् दशरथस्य च ।
अभिचक्राम तं देशं रामदर्शनतर्षितः ॥ २.१०३.१ ॥
渴望见到罗摩的婆私吒,让十车王的妻子们走在前面,走向那个地方。
2.103.2
राजपत्न्यश्च गच्छन्त्यो मन्दं मन्दाकिनीं प्रति ।
ददृशुस्तत्र तत्तीर्थं रामलक्ष्मणसेवितम् ॥ २.१०३.२ ॥
王后们缓缓走向曼陀吉尼河,在那里看见了罗摩与罗什曼那常去的圣浴处。
2.103.3
कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता ।
सुमित्रामब्रवीद्दीना याश्ऺचान्या राजयोषितः ॥ २.१०३.३ ॥
考莎厘雅泪满面、面容干涸,哀伤地对苏弥德拉和其他王室女子说道。
2.103.4
इदं तेषामनाथानां क्लिष्टमक्लिष्टकर्मणाम् ।
वने प्राक्केवलं तीर्थं ये ते निर्विषयीकृताः ॥ २.१०३.४ ॥
这圣浴处是那些无依无靠、行为无可指摘、却在森林中被剥夺王国的人们所经历苦难之地。
2.103.5
इतः सुमित्रे पुत्रस्ते सदा जलमतन्द्रितः ।
स्वयं हरति सौमित्रिर्मम पुत्रस्य कारणात् ॥ २.१०३.५ ॥
苏弥德拉啊,你的儿子苏弥德罗(罗什曼那)为了我的儿子,总是不知疲倦地亲自从这里取水。
2.103.6
जघन्यमपि ते पुत्रः कृतवान्न तु गर्हितः ।
भ्रातुर्यदर्थसहितं सर्वं तद्विहितं गुणैः ॥ २.१०३.६ ॥
你的儿子即使做过卑微的事,也不值得责备;为了他兄长所做的一切,都充满了美德。
2.103.7
अद्यायमपि ते पुत्रः क्लेशानामतथोचितः ।
नीचानर्थसमाचारं सज्जं कर्म प्रमुञ्चतु ॥ २.१०३.७ ॥
如今你的这个儿子也不配受此苦难,且让他舍弃卑劣与败坏之行,抛下他应尽的本分吧。
2.103.8
दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले ।
पितुरिङ्गुदिपिण्याकं न्यस्तमायतलोचना ॥ २.१०३.८ ॥
在尖端朝南的吉祥草上,那双目宽阔的女子看见地上放着为父亲备好的因古第果油饼。
2.103.9
तं भूमौ पितुरार्तेन न्यस्तं रामेण वीक्ष्य सा ।
उवाच देवी कौसल्या सर्वा दशरथस्त्रियः ॥ २.१०३.९ ॥
王后考萨利雅看见悲伤的罗摩为父亲放在地上的供品,便对十车王所有的妃子说道。
2.103.10
इदमिक्ष्वाकुनाथस्य राघवस्य महात्मनः ।
राघवेण पितुर्दत्तं पश्यतैतद्यथाविधि ॥ २.१०३.१० ॥
这是罗伽瓦为伟大的伊克瓦库之主、他的父亲所备的供品,请依礼仪看看吧。
2.103.11
तस्य देवसमानस्य पार्थिवस्य महात्मनः ।
नैतदौपयिकं मन्ये भुक्तभोगस्य भोजनम् ॥ २.१०३.११ ॥
对那位与神相同、伟大的国王而言,他曾享尽欢乐,我认为这样的食物并不相称。
2.103.12
चतुरन्तां महीं भुक्त्वा महेन्द्रसदृशो विभुः ।
कथमिङ्गुदिपिण्याकं स भुङ्क्ते वसुधाधिपः ॥ २.१०३.१२ ॥
这位与因陀罗相等的君主,曾享有四海为界的大地,如今这位地上之王怎能吃因古第油饼呢?
2.103.13
अतो दुःखतरं लोके न किञ्चित् प्रतिभाति मा ।
यत्र रामः पितुर्दद्यादिङ्गुदीक्षोदमृद्धिमान् ॥ २.१०३.१३ ॥
因此,在我看来世上再没有比富足的罗摩把因古提果糊给父亲更令人痛心的事了。
2.103.14
रामेणेङ्गुदिपिण्याकं पितुर्दत्तं समीक्ष्य मे ।
कथं दुःखेन हृदयं न स्फोटति सहस्रधा ॥ २.१०३.१४ ॥
看到罗摩给父亲的因古提果糊,我的心为何不因悲痛而碎成千片?
2.103.15
श्रुतिस्तु खल्वियं सत्या लौकिकी प्रतिभाति मा ।
यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः ॥ २.१०३.१५ ॥
这句世俗流传的天启之言,如今在我看来确实如此:人吃什么食物,他的神灵也便是什么样的。
2.103.16
एवमार्त्तां सपत्न्यस्ता जग्मुराश्वास्य तां तदा ।
ददृशुश्चाश्रमे रामं स्वर्गच्युतमिवामरम् ॥ २.१०३.१६ ॥
这样安慰了悲伤的考莎利亚之后,众妾离去;这时她们在静修处看见罗摩,宛如从天上坠落的天神。
2.103.17
सर्वभोगैः परित्यक्तं रामं सम्प्रेक्ष्य मातरः ।
आर्त्ता मुमुचुरश्रूणि सस्वरं शोककर्शिताः ॥ २.१०३.१७ ॥
看见罗摩已舍弃一切享乐,母亲们因悲伤而憔悴,痛哭出声,泪流不止。
2.103.18
तासां रामः समुत्थाय जग्राह चरणान् शुभान् ।
मातऽणां मनुजव्याघ्रः सर्वासां सत्यसङ्गरः ॥ २.१०३.१८ ॥
罗摩起身走向她们,这位人中之最、信守诺言者,握住了所有母亲吉祥的双足。
2.103.19
ताः पाणिभिः सुखस्पर्शैर्मृद्वङ्गुलितलैः शुभैः ।
प्रममार्जू रजः पृष्ठाद्रामस्यायतलोचनाः ॥ २.१०३.१९ ॥
那些长眼的母亲以柔软吉祥的指尖、令人愉悦的触摸,拂去罗摩背上的尘土。
2.103.20
सौमित्रिरपि ताः सर्वाः मातऽः सम्प्रेक्ष्य दुःखितः ।
अभ्यवादयतासक्तं शनै रामादनन्तरम् ॥ २.१०३.२० ॥
善眉(罗什曼那)见到众母,心中悲伤,在罗摩之后,依次缓缓向她们行礼。
2.103.21
यथा रामे तथा तस्मिन् सर्वा ववृतिरे स्त्रियः ।
वृत्तिं दशरथाज्जाते लक्ष्मणे शुभलक्षणे ॥ २.१०३.२१ ॥
众妇对待罗摩如何,对生于十车王、具吉祥相的罗什曼那也便如何。
2.103.22
सीतापि चरणांस्तासामुपसंगृह्य दुःखिता ।
श्वश्रूणामश्रुपूर्णाक्षी सा बभूवाग्रतः स्थिता ॥ २.१०३.२२ ॥
悉多也悲伤地抱住众婆母的双足,泪满双眼,站立在她们面前。
2.103.23
तां परिष्वज्य दुःखार्त्तां माता दुहितरं यथा ।
वनवासकृशां दीनां कौसल्या वाक्यमब्रवीत् ॥ २.१०३.२३ ॥
考莎厘雅如母亲拥抱女儿一般拥抱她——她悲痛,因林中流放而消瘦,凄惶可怜——说了这些话。
2.103.24
विदेहराजस्य सुता स्नुषा दशरथस्य च ।
रामपत्नी कथं दुःखं सम्प्राप्ता निर्जने वने ॥ २.१०३.२४ ॥
你是毗提诃王之女,十车王之媳,罗摩之妻,为何竟在荒寂的林中遭受如此苦难?
2.103.25
पद्ममातपसन्तप्तं परिक्लिष्टमिवोत्पलम् ।
काञ्चनं रजसा ध्वस्तं क्लिष्टं चन्द्रमिवाम्बुदैः ॥ २.१०३.२५ ॥
如被烈日炙烤的莲花,如枯萎的青莲,如被尘土蒙污的黄金,如被云层遮蔽的明月——她便是这般模样。
2.103.26
मुखं ते प्रेक्ष्य मां शोको दहत्यग्निरिवाश्रयम्
भृशं मनसि वैदेहि व्यसनारणिसम्भवः ॥ २.१०३.२६ ॥
见你的面容,哦,毗提诃之女,悲痛在我心中猛烈燃烧,如火焚烧其所依之处;这悲痛生于灾祸的钻木之中。
2.103.27
ब्रुवन्त्यामेवमार्त्तायां जनन्यां भरताग्रजः ।
पादावासाद्य जग्राह वसिष्ठस्य च राघवः ॥ २.१०३.२७ ॥
母亲悲痛地如此说话时,婆罗多的长兄罗怙(罗摩)走到筏悉瑟吒身边,握住了他的双足。
2.103.28
पुरोहितस्याग्निसमस्य वै तदा बृहस्पतेरिन्द्र इवामराधिपः ।
प्रगृह्य पादौ सुसमृद्धतेजसः सहैव तेनोपविवेश राघवः ॥ २.१०३.२८ ॥
彼时,如同众神之主因陀罗前往祭司布利哈斯帕蒂那里,罗怙握住了那位如火般、光辉炽盛的国师的双足,与他一同坐下。
2.103.29
ततो जघन्यं सहितैः समन्त्रिभिः पुरप्रधानैश्च सहैव सैनिकैः ।
जनेन धर्मज्ञतमेन धर्मवानुपोपविष्टो भरतस्तदाग्रजम् ॥ २.१०३.२९ ॥
于是,持法的婆罗多与大臣、城中的要人、士兵,以及最精通法义的众人一同,在后方靠近他的长兄坐下。
2.103.30
उपोपविष्टस्तु तथा स वीर्यवांस्तपस्विवेषेण समीक्ष्य राघवम् ।
श्रिया ज्वलन्तं भरतः कृताञ्जलिर्यथा महेन्द्रः प्रयतः प्रजापतिम् ॥ २.१०३.३० ॥
如此坐在近旁的英勇的婆罗多,见罗怙身着苦行者之服、光辉灿烂,便合掌而立,恭敬如大因陀罗在生主面前一般。
2.103.31
किमेष वाक्यं भरतो ऽद्य राघवं प्रणम्य सत्कृत्य च साधु वक्ष्यति ।
इतीव तस्यार्यजनस्य तत्त्वतो बभूव कौतूहलमुत्तमं तदा ॥ २.१०३.३१ ॥
今天,婆罗多会向罗ghava致敬、礼敬并说出恰当的话吗?在场的尊贵人士因此真正生起了极大的好奇。
2.103.32
स राघवः सत्यधृतिश्च लक्ष्मणो महानुभवो भरतश्च धार्मिकः ।
वृताः सुहृद्भिश्च विरेजुरध्वरे यथा सदस्यैः सहितास्त्रयो ऽग्नयः ॥ २.१०३.३२ ॥
罗ghava、坚守真理的罗什曼那,以及伟大而正直的婆罗多,被朋友们环绕,在祭祀中与祭司们一起,如三团圣火般光辉闪耀。