Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.113

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.113.1

ततः शिरसि कृत्वा तु पादुके भरतस्तदा ।
आरुरोह रथं हृष्टः शत्रुघ्नेन समन्वितः ॥ २.११३.१ ॥

于是婆罗多将那双木屐置于头上,欢喜地与沙陀卢祇那一同登上战车。

2.113.2

वसिष्ऺठो वामदेवश्च जाबालिश्च दृढव्रतः ।
अग्रतः प्रययुः सर्वे मन्त्रिणो मन्त्रपूजिताः ॥ २.११३.२ ॥

婆私吒、婆摩提婆与恪守誓愿的遮婆梨,以及因谋略而受尊敬的诸大臣,都走在前面。

2.113.3

मन्दाकिनीं नदीं रम्यां प्राङ्मुखास्ते ययुस्तदा ।
प्रदक्षिणं च कुर्वाणाश्चित्रकूटं महागिरिम् ॥ २.११३.३ ॥

他们面向东方,前往美丽的曼达基尼河,一边按右绕行大山吉祥山。

2.113.4

पश्यन् धातुसहस्राणि रम्याणि विविधानि च ।
प्रययौ तस्य पार्श्वेन ससैन्यो भरतस्तदा ॥ २.११३.४ ॥

观望那千万种美丽多样的矿石色彩,婆罗多便率领大军沿着山的一侧前行。

2.113.5

अदूराच्चित्रकूटस्य ददर्श भरतस्तदा ।
आश्रमं यत्र स मुनिर्भरद्वाजः कृतालयः ॥ २.११३.५ ॥

离吉祥山不远处,婆罗多看见了仙人婆罗堕遮所居的修道院。

2.113.6

स तमाश्रममागम्य भरद्वाजस्य बुद्धिमान् ।
अवतीर्य रथात् पादौ ववन्दे भरतस्तदा ॥ २.११३.६ ॥

智慧的婆罗多来到那修道院,下了战车,向婆罗堕遮的双足行礼。

2.113.7

ततो हृष्टो भरद्वाजो भरतं वाक्यमब्रवीत् ।
अपि कृत्यं कृतं तात रामेण च समागतम् ॥ २.११३.७ ॥

于是欢喜的婆罗堕遮对婆罗多说:“亲爱的孩子,你的使命完成了吗?你见到罗摩了吗?”

2.113.8

एवमुक्तः स तु ततो भरद्वाजेन धीमता ।
प्रत्युवाच भरद्वाजं भरतो भ्रातृवत्सलः ॥ २.११३.८ ॥

聪慧的婆罗堕遮如此相问,爱护兄长的婆罗多便回答了婆罗堕遮。

2.113.9

स याच्यमानो गुरुणा मया च दृढविक्रमः ।
राघवः परमप्रीतो वसिष्ठं वाक्यमब्रवीत् ॥ २.११३.९ ॥

虽经师尊与我恳请,意志坚定的罗怙之裔(罗摩)甚为欢喜,对婆private/vasistha说了这番话。

2.113.10

पितुः प्रतिज्ञां तामेव पालयिष्यामि तत्त्वतः ।
चतुर्दश हि वर्षाणि या प्रतिज्ञा पितुर्मम ॥ २.११३.१० ॥

我将真正遵守父亲的那项誓言——那是我父亲关于十四年的誓言。

2.113.11

एवमुक्तो महाप्राज्ञो वसिष्ठः प्रत्युवाच ह ।
वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत् ॥ २.११३.११ ॥

如此被问之后,极具智慧的婆private/vasistha——通晓言辞、善于言谈——对罗怙之裔说了这番重要的话。

2.113.12

एते प्रयच्छ संहृष्टः पादुके हेमभूषिते ।
अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव ॥ २.११३.१२ ॥

啊,大智者,欣然献上这两只饰有黄金的木屐吧;在阿逾陀,它们将守护你的安康与福祉。

2.113.13

एवमुक्तो वसिष्ठेन राघवः प्राङ्मुखः स्थितः ।
पादुके अधिरुह्यैते मम राज्याय वै ददौ ॥ २.११३.१३ ॥

婆istha如此说后,罗伽瓦面向东方站立;他登上这双鞋,将其交给我,用于王国。

2.113.14

निवृत्तो ऽहमनुज्ञातो रामेण सुमहात्मना ।
अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे ॥ २.११३.१४ ॥

蒙大德罗摩允许,我已返回;我将带着这双吉祥的鞋,前往阿约提亚。

2.113.15

एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः ।
भरद्वाजः शुभतरं मुनिर्वाक्यमुवाच तम् ॥ २.११३.१५ ॥

婆罗多高尚的这番吉祥之言被听到后,仙人婆罗跋阇对他说了更加吉祥的话。

2.113.16

नैतच्चित्रं नरव्याघ्र शीलवृत्तवतां वर ।
यदार्यं त्वयि तिष्ठेत्तु निम्ने सृष्टमिवोदकम् ॥ २.११३.१६ ॥

人中之虎啊,有德行与操守者中的最优者,这并不奇怪:高尚之德居于你心中,犹如倾注于低洼处的水会留住一样。

2.113.17

अमृतः स महाबाहुः पिता दशरथस्तव ।
यस्य त्वमीदृशः पुत्रो धर्मज्ञो धर्मवत्सलः ॥ २.११३.१७ ॥

你的父亲大臂的达舍罗陀是不朽的,因为他有像你这样知法、爱法的儿子。

2.113.18

तमृषिं तु महात्मानमुक्तवाक्यं कृताञ्जलिः ।
आमतन्त्रयितुमारेभे चरणावुपगृह्य च ॥ २.११३.१८ ॥

对这位说完话的大德仙人,婆罗多合掌开始告辞,并握住了他的双足。

2.113.19

ततः प्रदक्षिणं कृत्वा भरद्वाजं पुनःपुनः ।
भरतस्तु ययौ श्रीमानयोध्यां सह मन्त्रिभिः ॥ २.११३.१९ ॥

随后,婆罗堕遮周围一再右绕行礼,光辉的婆罗多与众大臣一同返回阿逾陀。

2.113.20

यानैश्च शकटैश्चैव हयैर्नागैश्च सा चमूः ।
पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी ॥ २.११३.२० ॥

那支随婆罗多而行的庞大军队,连同车辆、马匹与象群,再次折返。

2.113.21

ततस्ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम् ।
ददृशुस्तां पुनः सर्वे गङ्गां शुभजलां नदीम् ॥ २.११३.२१ ॥

随后他们渡过了如波浪花环般的神圣亚穆纳河,众人又见到了水质吉祥的恒河。

2.113.22

तां रम्यजलसम्पूर्णां सन्तीर्य सहबान्धवः ।
शृङ्गिबेरपुरं रम्यं प्रविवेश ससैनिकः ॥ २.११३.२२ ॥

渡过那满是清美河水的河流后,他与亲族及士兵一同进入了可爱的诗灵伽毗罗城。

2.113.23

शृङ्गिबेरपुराद्भूयस्त्वयोध्यां संददर्श ह ॥ २.११३.२३ ॥

他从诗灵伽毗罗城再次望见了阿逾陀。

2.113.24

अयोध्यां च ततो दृष्ट्वा पित्रा भ्रात्रा विवर्जिताम् ।
भरतो दुःखसन्तप्तः सारथिं चेदमब्रवीत् ॥ २.११३.२४ ॥

婆罗多见阿逾陀失去了父亲与兄长,悲痛煎熬,便对御者说了这番话。

2.113.25

सारथे पश्य विध्वस्ता सायोध्या न प्रकाशते ।
निराकारा निरानन्दा दीना प्रतिहतस्वरा ॥ २.११३.२५ ॥

御者啊,看吧:遭毁灭的阿逾陀已不再光彩。她失去了形貌,没有了欢乐,凄惨困苦,声音也已哑然。