Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.26

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.26.1

अभिवाद्य तु कौसल्यां रामः सम्प्रस्थितो वनम्।
कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः ॥ २.२६.१ ॥

罗摩向憍舍利耶行礼后,动身前往森林。他得到母亲为其平安所作的祝福,坚定地立于正法之道上。

2.26.2

विराजयन् राजसुतो राजमार्गं नरैर्वृतम्।
हृदयान्याममन्थेव जनस्य गुणवत्तया ॥ २.२६.२ ॥

王子走在挤满人群的御道上,光彩照人,凭着其卓越的德行,仿佛搅动了人们的心。

2.26.3

वैदेही चापि तत् सर्वं न शुश्राव तपस्विनी।
तदेव हृदि तस्याश्च यौवराज्याभिषेचनम् ॥ २.२६.३ ॥

毗提诃之女(悉多)也没有听到这一切;而那位苦行的女子心中,只有立为太子的加冕之事。

2.26.4

देवकार्यं स्म सा कृत्वा कृतज्ञा हृष्टचेतना।
अभिज्ञा राजधर्माणां राजपुत्री प्रतीक्षति ॥ २.२६.४ ॥

她完成了供奉诸神的仪式,心怀感激,内心喜悦,这位通晓王者之道的公主正在等待。

2.26.5

प्रविवेशाथ रामस्तु स्ववेश्म सुविभूषितम्।
प्रहृष्टजनसम्पूर्णं ह्रिया किंचिदवाङ्मुखः ॥ २.२६.५ ॥

随后罗摩走进他装饰华美的住所,那里挤满了欢喜的人群;他因羞涩而微微低着头。

2.26.6

अथ सीता समुत्पत्य वेपमाना च तं पतिम्।
अपश्यच्छोकसंतप्तं चिन्ताव्याकुलितेन्द्रियम् ॥ २.२६.६ ॥

此时悉多迅速起身,浑身颤抖,看见她的丈夫为悲伤所煎熬,心神因忧虑而扰乱。

2.26.7

तां दृष्ट्वा स हि धर्मात्मा न शशाक मनोगतम्।
तं शोकं राघवः सोढुं ततो विवृततां गतः ॥ २.२६.७ ॥

见到她,正直的罗ghava无法说出心中所想;不堪忍受那份悲痛,他便显露了出来。

2.26.8

विवर्णवदनं दृष्ट्वा तं प्रस्विन्नममर्षणम्।
आह दुःखाभिसंतप्ता किमिदानीमिदं प्रभो ॥ २.२६.८ ॥

看到他面色苍白、汗流浃背、激动不安的样子,悲痛万分的悉多说道:“夫主啊,这到底是怎么了?”

2.26.9

अद्य बार्हस्पतः श्रीमान् युक्तः पुष्येण राघव।
प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वमसि दुर्मनाः ॥ २.२६.९ ॥

据智者婆罗门所说,今日吉祥的布沙星与木星相会,罗ghava啊;那你为何心中如此忧郁?

2.26.10

न ते शतशलाकेन जलफेननिभेन च।
आवृतं वदनं वल्गु च्छत्रेणाभिविराजते ॥ २.२६.१० ॥

你秀美的面容并未被那把百骨、如水沫般洁白的伞遮蔽,却仍然光彩照人。

2.26.11

व्यजनाभ्यां च मुख्याभ्यां शतपत्रनिभेक्षणम्।
चन्द्रहंसप्रकाशाभ्यां वीज्यते न तवाननम् ॥ २.२६.११ ॥

你那双如莲花花瓣般的眼睛所对着的面容,并未被两把如月光与天鹅般明亮的上好羽扇扇拂。

2.26.12

वाग्मिनो वन्दिनश्चापि प्रहृष्टास्त्वां नरर्षभ।
स्तुवन्तो नाद्य दृश्यन्ते मङ्गलैः सूतमागधाः ॥ २.२६.१२ ॥

人中雄牛啊,今日不见那些欢喜的善辩歌者、御者与谱系吟游人,用吉祥之语赞颂你。

2.26.13

न ते क्षौद्रं च दधि च ब्राह्मणा वेदपारगाः।
मूर्ध्नि मूर्धाभिषिक्तस्य ददति स्म विधानतः ॥ २.२६.१३ ॥

精通吠陀的婆罗门没有按规定在你这已被灌顶的人头上浇灌蜂蜜和凝乳。

2.26.14

न त्वां प्रकृतयः सर्वाः श्रेणीमुख्याश्च भूषिताः।
अनुव्रजितुमिच्छन्ति पौरजानपदास्तथा ॥ २.२६.१४ ॥

你所有的臣民、各行会的首领,虽然盛装打扮,也不愿随你同行,城市与乡村的百姓也是如此。

2.26.15

चतुर्भिर्वेगसम्पन्नैर्हयैः काञ्चनभूषणैः।
मुख्यः पुष्परथो युक्तः किं न गच्छति तेऽग्रतः ॥ २.२६.१५ ॥

为何装饰着金饰、由四匹迅捷骏马驾驭的主要花车不在你的前方行进?

2.26.16

न हस्ती चाग्रतः श्रीमान् सर्वलक्षणपूजितः।
प्रयाणे लक्ष्यते वीर कृष्णमेघगिरिप्रभः ॥ २.२६.१६ ॥

英雄啊,那被各种吉祥之相所尊崇、光辉如黑云或山岳的威严大象,也不见走在你的行列之前。

2.26.17

न च काञ्चनचित्रं ते पश्यामि प्रियदर्शन।
भद्रासनं पुरस्कृत्य यान्तं वीर पुरःसरम् ॥ २.२६.१७ ॥

可爱的人啊,英雄啊,我也没有看见你把饰金的吉祥座椅置于前方、走在前面引领行列。

2.26.18

अभिषेको यदा सज्जः किमिदानीमिदं तव।
अपूर्वो मुखवर्णश्च न प्रहर्षश्च लक्ष्यते ॥ २.२६.१८ ॥

加冕之礼已经备妥,你现在这是怎么了?你的面色不同寻常,也看不出喜悦。

2.26.19

इतीव विलपन्तीं तां प्रोवाच रघुनन्दनः।
सीते तत्रभवांस्तातः प्रव्राजयति मां वनम् ॥ २.२६.१९ ॥

她如此哀泣时,罗怙子孙的喜悦者罗摩对她说:悉多啊,尊敬的父王正派我流放到森林中去。

2.26.20

कुले महति सम्भूते धर्मज्ञे धर्मचारिणि।
शृणु जानकि येनेदं क्रमेणाद्यागतं मम ॥ २.२६.२० ॥

悉多啊,你出身于高贵的家族,通晓法,奉行法,请听这件事是如何依次降临到我身上的。

2.26.21

राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन वै।
कैकेय्यै मम मात्रे तु पुरा दत्तौ महावरौ ॥ २.२६.२१ ॥

诚守誓言的国王,我的父亲十车王,很久以前曾向我的母亲吉开伊许下两个大恩典。

2.26.22

तयाद्य मम सज्जेऽस्मिन्नभिषेके नृपोद्यते।
प्रचोदितः स समयो धर्मेण प्रतिनिर्जितः ॥ २.२६.२२ ॥

今天,在我这次登基的准备正在进行时,她促使那个条件生效;依据法,它作为回报被如约履行。

2.26.23

चतुर्दश हि वर्षाणि वस्तव्यं दण्डके मया।
पित्रा मे भरतश्चापि यौवराज्ये नियोजितः ॥ २.२६.२३ ॥

我必须在檀陀迦森林中居住十四年,而父王也已任命婆罗多为太子。

2.26.24

सोऽहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम्।
भरतस्य समीपे ते नाहं कथ्यः कदाचन ॥ २.२६.२४ ॥

我特来与你告别,即将前往荒僻的森林。在婆罗多面前,你千万不可再提起我。

2.26.25

ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम्।
तस्मान्न ते गुणाः कथ्या भरतस्याग्रतो मम ॥ २.२६.२५ ॥

富足之人不能容忍他人的赞美。因此在我面前,你不应谈论婆罗多的美德。

2.26.26

अहं ते नानुवक्तव्यो विशेषेण कदाचन।
अनुकूलतया शक्यं समीपे तस्य वर्तितुम् ॥ २.२६.२६ ॥

你永远不应特意向他提起我;只有对他恭顺,才能在他身边生活。

2.26.27

तस्मै दत्तं नृपतिना यौवराज्यं सनातनम्।
स प्रसाद्यस्त्वया सीते नृपतिश्च विशेषतः ॥ २.२६.२७ ॥

国王已授予他永久的太子之位。悉多啊,你应当使他欢心,尤其要使国王欢心。

2.26.28

अहं चापि प्रतिज्ञां तां गुरोः समनुपालयन्।
वनमद्यैव यास्यामि स्थिरीभव मनस्विनि ॥ २.२६.२८ ॥

我也将谨守师长的那个誓言,今天就前往森林。坚定你的心志吧,有决心的人啊。

2.26.29

याते च मयि कल्याणि वनं मुनिनिषेवितम्।
व्रतोपवासपरया भवितव्यं त्वयानघे ॥ २.२६.२९ ॥

吉祥的人啊,当我前往圣人所居的森林之后,无瑕的人啊,你应当专心于持戒和斋戒。

2.26.30

कल्यमुत्थाय देवानां कृत्वा पूजां यथाविधि।
वन्दितव्यो दशरथः पिता मम जनेश्वरः ॥ २.२६.३० ॥

清晨起身,依礼供奉诸神之后,你应当敬拜我的父亲、人民之主十车王。

2.26.31

माता च मम कौसल्या वृद्धा संतापकर्शिता।
धर्ममेवाग्रतः कृत्वा त्वत्तः सम्मानमर्हति ॥ २.२६.३१ ॥

我的母亲考湿利耶年老,因悲痛而憔悴。应以法为先,她理应受到你的尊敬。

2.26.32

वन्दितव्याश्च ते नित्यं याः शेषा मम मातरः।
स्नेहप्रणयसम्भोगैः समा हि मम मातरः ॥ २.२६.३२ ॥

你应当始终礼敬我其余的母亲们。在慈爱、情意与相处之中,我的母亲们对我都是一样的。

2.26.33

भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः।
त्वया भरतशत्रुघ्नौ प्राणैः प्रियतरौ मम ॥ २.२६.३३ ॥

你应当特别将婆罗多与设睹卢那视为兄弟与儿子。他们对我而言比生命更为珍贵。

2.26.34

विप्रियं च न कर्तव्यं भरतस्य कदाचन।
स हि राजा च वैदेहि देशस्य च कुलस्य च ॥ २.२६.३४ ॥

你决不可对婆罗多做任何令他不悦之事。因为他是国王,哦,毗提诃之女,也是国土与家族的主人。

2.26.35

आराधिता हि शीलेन प्रयत्नैश्चोपसेविताः।
राजानः सम्प्रसीदन्ति प्रकुप्यन्ति विपर्यये ॥ २.२६.३५ ॥

君王若以良好品行使其欢心,又以勤勉侍奉,便会喜悦;若情形相反,则会震怒。

2.26.36

औरस्यानपि पुत्रान् हि त्यजन्त्यहितकारिणः।
समर्थान् सम्प्रगृह्णन्ति जनानपि नराधिपाः ॥ २.२६.३६ ॥

君王若见亲生之子行事有害,也会将其舍弃;而对有才能的人,即便是普通人,也会加以任用。

2.26.37

सा त्वं वसेह कल्याणि राज्ञः समनुवर्तिनी।
भरतस्य रता धर्मे सत्यव्रतपरायणा ॥ २.२६.३७ ॥

吉祥的人啊,你留在这里,顺从国王(婆罗多),热爱法,坚守真实之誓。

2.26.38

अहं गमिष्यामि महावनं प्रिये
त्वया हि वस्तव्यमिहैव भामिनि।
यथा व्यलीकं कुरुषे न कस्यचित्
तथा त्वया कार्यमिदं वचो मम ॥ २.२६.३८ ॥

爱妻啊,我将前往大森林。光彩的人啊,你必须留在这里;正如你不对任何人做错事,你也必须遵从我这句话。