蚁垤《罗摩衍那》 · 篇 2.32
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.32.1
ततः शासनमाज्ञाय भ्रातुः प्रियकरं हितम्।
गत्वा स प्रविवेशाशु सुयज्ञस्य निवेशनम् ॥ २.३२.१ ॥
于是,他领会了兄长的命令,那命令既令人欣喜又有益,便迅速前往,走进了苏耶祭的住所。
2.32.2
तं विप्रमग्न्यगारस्थं वन्दित्वा लक्ष्मणोऽब्रवीत्।
सखेऽभ्यागच्छ पश्य त्वं वेश्म दुष्करकारिणः ॥ २.३२.२ ॥
向站在火堂中的那位婆罗门行礼后,罗什曼那说:"朋友,请上前来,看看这位行非凡之事者的住所。"
2.32.3
ततः संध्यामुपास्थाय गत्वा सौमित्रिणा सह।
ऋद्धं स प्राविशल्लक्ष्म्या रम्यं रामनिवेशनम् ॥ २.३२.३ ॥
于是,他行完黄昏的祭礼,与罗什曼那同往,走进了富丽而可爱的罗摩住所。
2.32.5
जातरूपमयैर्मुख्यैरङ्गदैः कुण्डलैः शुभैः।
सहेमसूत्रैर्मणिभिः केयूरैर्वलयैरपि ॥ २.३२.५ ॥
最上等的金制臂钏,吉祥的耳环,以金线串起的宝石,臂环,以及手镯。
2.32.6
अन्यैश्च रत्नैर्बहुभिः काकुत्स्थः प्रत्यपूजयत्।
सुयज्ञं स तदोवाच रामः सीताप्रचोदितः ॥ २.३२.६ ॥
甘古斯图沙族的罗摩又以许多其他宝石款待苏耶祭;随后,在悉多的提醒下,罗摩对他说道。
2.32.7
हारं च हेमसूत्रं च भार्यायै सौम्य हारय।
रशनां चाथ सा सीता दातुमिच्छति ते सखी ॥ २.३२.७ ॥
善良的朋友,请为妻子带上项链和金线。悉多也想把一条腰带送给你的女友。
2.32.8
अङ्गदानि च चित्राणि केयूराणि शुभानि च।
प्रयच्छति सखी तुभ्यं भार्यायै गच्छती वनम् ॥ २.३२.८ ॥
为即将前往森林的妻子,她的女友赠予你精美的臂钏与华美的臂环(keyūra)。
2.32.9
पर्यङ्कमग्र्यास्तरणं नानारत्नविभूषितम्।
तमपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि ॥ २.३२.९ ॥
毗提诃之女悉多还想把那张铺着上好褥子、以各色宝石装饰的床榻,也安放在你那里。
2.32.10
नागः शत्रुंजयो नाम मातुलोऽयं ददौ मम।
तं ते निष्कसहस्रेण ददामि द्विजपुङ्गव ॥ २.३२.१० ॥
这头名为“胜敌”(Śatrunjaya)的象是我的舅父赠予我的。最优秀的再生者啊,我以一千尼什卡将它赠予你。
2.32.11
इत्युक्तः स तु रामेण सुयज्ञः प्रतिगृह्य तत्।
रामलक्ष्मणसीतानां प्रयुयोजाशिषः शिवाः ॥ २.३२.११ ॥
罗摩如此说后,苏耶若那接受了它,并向罗摩、罗什曼那和悉多献上吉祥的祝福。
2.32.12
अथ भ्रातरमव्यग्रं प्रियं रामः प्रियंवदम्।
सौमित्रिं तमुवाचेदं ब्रह्मेव त्रिदशेश्वरम् ॥ २.३२.१२ ॥
于是罗摩对性情沉稳、言语温和的弟弟苏弥德拉之子说了这些话,犹如梵天对众神之主因陀罗说话一般。
2.32.13
अगस्त्यं कौशिकं चैव तावुभौ ब्राह्मणोत्तमौ।
अर्चयाहूय सौमित्रे रत्नैः सस्यमिवाम्बुभिः ॥ २.३२.१३ ॥
苏弥德拉之子啊,请召来阿伽斯蒂耶与憍尸迦这两位最上的婆罗门,以珠宝尊敬他们,如同流水滋养庄稼一般。
2.32.14
तर्पयस्व महाबाहो गोसहस्रेण राघव।
सुवर्णरजतैश्चैव मणिभिश्च महाधनैः ॥ २.३२.१४ ॥
啰怙之裔、大臂者啊,以千头牛、金银、珍贵宝珠与巨大财富使他们满足吧。
2.32.15
कौसल्यां च य आशीर्भिर्भक्तः पर्युपतिष्ठति।
आचार्यस्तैत्तिरीयाणामभिरूपश्च वेदवित् ॥ २.३२.१५ ॥
以祝福虔诚侍奉考沙利雅的那位,泰帝利耶学派的阿阇梨,相貌俊美,通晓吠陀。
2.32.16
तस्य यानं च दासीश्च सौमित्रे सम्प्रदापय।
कौशेयानि च वस्त्राणि यावत् तुष्यति स द्विजः ॥ २.३२.१६ ॥
萨米特丽之子啊,给他车辆与侍女,给他丝绸衣物,直到那位再生者满意为止。
2.32.17
सूतश्चित्ररथश्चार्यः सचिवः सुचिरोषितः।
तोषयैनं महार्हैश्च रत्नैर्वस्त्रैर्धनैस्तथा ॥ २.३२.१७ ॥
御者质多罗罗陀,高贵的谋臣,久居我们之中:以极为贵重的宝石、衣物与财富使他满意。
2.32.18
पशुकाभिश्च सर्वाभिर्गवां दशशतेन च।
ये चेमे कठकालापा बहवो दण्डमाणवाः ॥ २.३२.१८ ॥
以各种牲畜与一万头牛,以及这些持杖的迦陀与迦罗波学派的众多学生。
2.32.19
नित्यस्वाध्यायशीलत्वान्नान्यत् कुर्वन्ति किंचन।
अलसाः स्वादुकामाश्च महतां चापि सम्मताः ॥ २.३२.१९ ॥
因为日日专心诵习吠陀,他们别无所为;他们虽然懒散、贪求美食,却仍受到大人物的尊重。
2.32.20
तेषामशीतियानानि रत्नपूर्णानि दापय।
शालिवाहसहस्रं च द्वे शते भद्रकांस्तथा ॥ २.३२.२० ॥
给他们八十辆装满珠宝的车,一千名运米之人,以及二百头上等的跋陀罗牛。
2.32.21
व्यञ्जनार्थं च सौमित्रे गोसहस्रमुपाकुरु।
मेखलीनां महासङ्घः कौसल्यां समुपस्थितः।
तेषां सहस्रं सौमित्रे प्रत्येकं सम्प्रदापय ॥ २.३२.२१ ॥
萨乌弥德罗啊,请备好一千头牛作食用;系着腰带的学子大群已聚集在憍萨利亚身边。请给他们每人各一千头。
2.32.22
अम्बा यथा नो नन्देच्च कौसल्या मम दक्षिणाम्।
तथा द्विजातींस्तान् सर्वाल्ँलक्ष्मणार्चय सर्वशः ॥ २.३२.२२ ॥
为使我们的母亲憍萨利亚因我的达克希那而欢喜,同样,罗什曼那啊,请以各种方式尊敬那些再生者。
2.32.23
ततः पुरुषशार्दूलस्तद् धनं लक्ष्मणः स्वयम्।
यथोक्तं ब्राह्मणेन्द्राणामददाद् धनदो यथा ॥ २.३२.२३ ॥
于是,人中之虎罗什曼那亲自将那些财物,依所吩咐的,分给了诸位婆罗门中的上首,如施财者俱毗罗那样。
2.32.24
अथाब्रवीद् बाष्पगलांस्तिष्ठतश्चोपजीविनः।
स प्रदाय बहुद्रव्यमेकैकस्योपजीवनम् ॥ २.३२.२४ ॥
于是他对站立在旁、泪水哽咽的依靠者们说话。他给每人许多财物,为他们安排了生计。
2.32.25
लक्ष्मणस्य च यद् वेश्म गृहं च यदिदं मम।
अशून्यं कार्यमेकैकं यावदागमनं मम ॥ २.३२.२५ ॥
罗什曼那的住所,以及我的这所房屋——每一处都不可在我返回之前空无一人。
2.32.26
इत्युक्त्वा दुःखितं सर्वं जनं तमुपजीविनम्।
उवाचेदं धनाध्यक्षं धनमानीयतां मम ॥ २.३२.२६ ॥
他对所有悲伤的依附者如此说完,便对财务官说:"把我的财富拿来。"
2.32.27
ततोऽस्य धनमाजह्रुः सर्व एवोपजीविनः।
स राशिः सुमहांस्तत्र दर्शनीयो ह्यदृश्यत ॥ २.३२.२७ ॥
于是他的所有依附者都把财富带来了,那里出现了一大堆令人赏心悦目的财物。
2.32.28
ततः स पुरुषव्याघ्रस्तद् धनं सहलक्ष्मणः।
द्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्यो ह्यदापयत् ॥ २.३२.२८ ॥
于是那位人中之虎与罗什曼那一起,把这些财富分给了婆罗门、孩童、老人和穷人。
2.32.29
तत्रासीत् पिङ्गलो गार्ग्यस्त्रिजटो नाम वै द्विजः।
क्षतवृत्तिर्वने नित्यं फालकुद्दाललाङ्गली ॥ २.३२.२९ ॥
那里有一位名叫频伽罗·伽尔伽耶、号称三束的婆罗门,他常年在林中以拾取遗穗为生,身边带着犁头、锄头和犁。
2.32.30
तं वृद्धं तरुणी भार्या बालानादाय दारकान्।
अब्रवीद् ब्राह्मणं वाक्यं स्त्रीणां भर्ता हि देवता ॥ २.३२.३० ॥
那位年老的婆罗门,他年轻的妻子带着孩子对他说了这些话,因为对妇人而言,丈夫就是神明。
2.32.31
अपास्य फालं कुद्दालं कुरुष्व वचनं मम।
रामं दर्शय धर्मज्ञं यदि किंचिदवाप्स्यसि ॥ २.३२.३१ ॥
放下犁头和锄头,听我的话。去拜见通晓法道的罗摩;如果你要得到什么,就会从他那里得到。
2.32.32
स भार्याया वचः श्रुत्वा शाटीमाच्छाद्य दुश्छदाम्।
स प्रातिष्ठत पन्थानं यत्र रामनिवेशनम् ॥ २.३२.३२ ॥
他听了妻子的话,裹上一件破旧的衣服,踏上了通往罗摩住所的道路。
2.32.33
भृग्वङ्गिरःसमं दीप्त्या त्रिजटं जनसंसदि।
आपञ्चमायाः कक्ष्याया नैतं कश्चिदवारयत् ॥ २.३२.३३ ॥
他光辉如同跋利古与安吉罗,头顶三绺发髻,在人群中一直走到第五重庭院,无人阻拦。
2.32.34
स राममासाद्य तदा त्रिजटो वाक्यमब्रवीत्।
निर्धनो बहुपुत्रोऽस्मि राजपुत्र महाबल ॥ २.३२.३४ ॥
于是,三绺发髻者走到罗摩面前说道:"王子啊,大力者!我贫穷,有许多儿子。"
2.32.35
क्षतवृत्तिर्वने नित्यं प्रत्यवेक्षस्व मामिति।
तमुवाच ततो रामः परिहाससमन्वितम् ॥ २.३२.३५ ॥
"我在森林里总是勉强度日,请照顾我。"他说。于是罗摩带着戏谑的口吻对他说:
2.32.36
गवां सहस्रमप्येकं न च विश्राणितं मया।
परिक्षिपसि दण्डेन यावत्तावदवाप्स्यसे ॥ २.३२.३६ ॥
"一千头牛中,我连一头也没有给过人。你用棍子能扔多远,就能得到多远的牛。"
2.32.37
स शाटीं परितः कट्यां सम्भ्रान्तः परिवेष्ट्य ताम्।
आविध्य दण्डं चिक्षेप सर्वप्राणेन वेगतः ॥ २.३२.३७ ॥
他激动地将布条缠在腰间,挥动木棍,以全身之力迅速投掷出去。
2.32.38
स तीर्त्वा सरयूपारं दण्डस्तस्य कराच्च्युतः।
गोव्रजे बहुसाहस्रे पपातोक्षणसंनिधौ ॥ २.३२.३८ ॥
渡过萨拉尤河的对岸时,他手中的杖滑落,落在成千上万头牛的牛群中,靠近公牛之处。
2.32.39
तं परिष्वज्य धर्मात्मा आ तस्मात् सरयूतटात्।
आनयामास ता गावस्त्रिजटस्याश्रमं प्रति ॥ २.३२.३९ ॥
正直的罗摩拥抱了他,从萨拉尤河岸把那些牛带回到特里阇塔的修行处。
2.32.40
उवाच च तदा रामस्तं गार्ग्यमभिसान्त्वयन्।
मन्युर्न खलु कर्तव्यः परिहासो ह्ययं मम ॥ २.३२.४० ॥
这时罗摩安慰伽尔伽亚说:“你不该生气,这不过是我的玩笑罢了。”
2.32.41
इदं हि तेजस्तव यद् दुरत्ययं
तदेव जिज्ञासितुमिच्छता मया।
इमं भवानर्थमभिप्रचोदितो
वृणीष्व किंचेदपरं व्यवस्यसि ॥ २.३२.४१ ॥
我想要了解你这不可抗拒的力量,才做了这件事;你也因此而被推动。若你还有别的心愿,就请选择一个恩惠吧。
2.32.42
ब्रवीमि सत्येन न ते स्म यन्त्रणां
धनं हि यद्यन्मम विप्रकारणात्।
भवत्सु सम्यक्प्रतिपादनेन
मयार्जितं चैव यशस्करं भवेत् ॥ २.३२.४२ ॥
我以真实起誓:我绝不会对你设下任何阻碍。凡我的财富,为了婆罗门,愿我所积累的,因适当地布施给你们,成为带来荣耀的根源。
2.32.43
ततः सभार्यस्त्रिजटो महामुनि-
र्गवामनीकं प्रतिगृह्य मोदितः।
यशोबलप्रीतिसुखोपबृंहिणी-
स्तदाशिषः प्रत्यवदन्महात्मनः ॥ २.३२.४३ ॥
于是大仙特里阇塔与妻子一同接收了那群牛,心中欢喜,向这位大德之人说出能增长荣耀、力量、喜爱与幸福的祝福。
2.32.44
स चापि रामः प्रतिपूर्णपौरुषो
महाधनं धर्मबलैरुपार्जितम्।
नियोजयामास सुहृज्जने चिराद्
यथार्हसम्मानवचः प्रचोदितः ॥ २.३२.४४ ॥
圆满刚毅的罗摩也在恰当敬意之言的劝导下,将以法力所获的那笔巨富,在很久之后分赠给了亲友。
2.32.45
द्विजः सुहृद् भृत्यजनोऽथवा तदा
दरिद्रभिक्षाचरणश्च यो भवेत्।
न तत्र कश्चिन्न बभूव तर्पितो
यथार्हसम्माननदानसम्भ्रमैः ॥ २.३२.४५ ॥
那时,无论是婆罗门、朋友、仆役,还是靠乞食为生的贫困之人,在那里没有一个人不因恰当的敬意、布施与殷勤而得到满足。