Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.40

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.40.1

अथ रामश्च सीता च लक्ष्मणश्च कृताञ्जलिः।
उपसंगृह्य राजानं चक्रुर्दीनाः प्रदक्षिणम् ॥ २.४०.१ ॥

于是罗摩、悉多与罗什曼那合掌走近国王,心怀悲伤,绕行于他的右侧致敬。

2.40.2

तं चापि समनुज्ञाप्य धर्मज्ञः सह सीतया।
राघवः शोकसम्मूढो जननीमभ्यवादयत् ॥ २.४०.२ ॥

罗摩亦向他辞行,这位知法的罗ghava与悉多一同,因悲痛而心神恍惚,向母亲行礼致敬。

2.40.3

अन्वक्षं लक्ष्मणो भ्रातुः कौसल्यामभ्यवादयत्।
अपि मातुः सुमित्राया जग्राह चरणौ पुनः ॥ २.४०.३ ॥

随后罗什曼那跟随兄长向考莎利亚行礼,又握住了母亲苏弥特拉的双足。

2.40.4

तं वन्दमानं रुदती माता सौमित्रिमब्रवीत्।
हितकामा महाबाहुं मूर्ध्न्युपाघ्राय लक्ष्मणम् ॥ २.४०.४ ॥

母亲见他行礼,一边哭泣一边希望他安好,便亲吻这位大臂的苏弥特里·罗什曼那的头顶,对他说道。

2.40.5

सृष्टस्त्वं वनवासाय स्वनुरक्तः सुहृज्जने।
रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति ॥ २.४०.५ ॥

孩子,你被派去过森林的生活;你对亲友深怀眷恋。兄长罗摩将要离去,你不可对他怠慢。

2.40.6

व्यसनी वा समृद्धो वा गतिरेष तवानघ।
एष लोके सतां धर्मो यज्ज्येष्ठवशगो भवेत् ॥ २.४०.६ ॥

无罪之人啊,无论困顿还是富足,这都是你的道路。世上善人之法,便是顺从长兄。

2.40.7

इदं हि वृत्तमुचितं कुलस्यास्य सनातनम्।
दानं दीक्षा च यज्ञेषु तनुत्यागो मृधेषु हि ॥ २.४०.७ ॥

这是此族永恒而合宜的行为:在祭祀中行布施与受戒,在战场上舍弃身体。

2.40.8

लक्ष्मणं त्वेवमुक्त्वासौ संसिद्धं प्रियराघवम्।
सुमित्रा गच्छ गच्छेति पुनः पुनरुवाच तम् ॥ २.४०.८ ॥

他对坚定而为罗怙后裔所爱的罗什曼那如此说罢,一再对他说:"苏弥special之子,去吧,去吧。"

2.40.9

रामं दशरथं विद्धि मां विद्धि जनकात्मजाम्।
अयोध्यामटवीं विद्धि गच्छ तात यथासुखम् ॥ २.४०.९ ॥

"你应视我为罗摩与十车王;视我为阇那伽之女(悉多);视阿约提亚本身为森林。亲爱的,依你所愿去吧。"

2.40.10

ततः सुमन्त्रः काकुत्स्थं प्राञ्जलिर्वाक्यमब्रवीत्।
विनीतो विनयज्ञश्च मातलिर्वासवं यथा ॥ २.४०.१० ॥

于是苏曼特罗合掌,谦恭而知礼,对迦古斯特ha(罗摩)说了这些话,如同摩多梨对婆娑婆(因陀罗)说话一般。

2.40.11

रथमारोह भद्रं ते राजपुत्र महायशः।
क्षिप्रं त्वां प्रापयिष्यामि यत्र मां राम वक्ष्यसे ॥ २.४०.११ ॥

"请登上战车,愿你吉祥,王子,大名远扬的人。罗摩,你说往哪里去,我便迅速将你送到那里。"

2.40.12

चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वया।
तान्युपक्रमितव्यानि यानि देव्या प्रचोदितः ॥ २.४०.१२ ॥

"十四年你必须住在森林中;王后所催促你做的那些事,你都必须着手去做。"

2.40.13

तं रथं सूर्यसंकाशं सीता हृष्टेन चेतसा।
आरुरोह वरारोहा कृत्वालंकारमात्मनः ॥ २.४०.१३ ॥

美腰的悉多盛装打扮,怀着喜悦的心情登上那辆如太阳般辉煌的战车。

2.40.14

वनवासं हि संख्याय वासांस्याभरणानि च।
भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ ॥ २.४०.१४ ॥

考虑到森林流放之事,公公把衣物和饰品赠给了跟随丈夫的悉多。

2.40.15

तथैवायुधजातानि भ्रातृभ्यां कवचानि च।
रथोपस्थे प्रविन्यस्य सचर्म कठिनं च यत् ॥ २.४०.१५ ॥

同样,两位兄弟的兵器和铠甲,连同盾牌以及一切坚硬之物,都被放置在战车的底板上。

2.40.16

अथो ज्वलनसंकाशं चामीकरविभूषितम्।
तमारुरुहतुस्तूर्णं भ्रातरौ रामलक्ष्मणौ ॥ २.४०.१६ ॥

接着,两位兄弟罗摩与罗什曼那迅速登上那辆如火焰般闪耀、饰以黄金的战车。

2.40.17

सीतातृतीयानारूढान् दृष्ट्वा रथमचोदयत्।
सुमन्त्रः सम्मतानश्वान् वायुवेगसमाञ्जवे ॥ २.४०.१७ ॥

苏曼陀罗看见他们连同悉多作为第三人已经登车,便催促那些训练有素、速度如风的骏马驾车前行。

2.40.18

प्रयाते तु महारण्यं चिररात्राय राघवे।
बभूव नगरे मूर्च्छा बलमूर्च्छा जनस्य च ॥ २.४०.१८ ॥

罗怙之后为长久流放而前往大森林后,城中与民众陷入一片昏厥,民众的力量也仿佛昏迷了。

2.40.19

तत् समाकुलसम्भ्रान्तं मत्तसंकुपितद्विपम्।
हयसिञ्जितनिर्घोषं पुरमासीन्महास्वनम् ॥ २.४०.१९ ॥

这座被慌乱与混乱笼罩的城市,充满了巨大的喧嚣:发狂愤怒的象群,以及马匹的嘶鸣和蹄声。

2.40.20

ततः सबालवृद्धा सा पुरी परमपीडिता।
राममेवाभिदुद्राव घर्मार्तः सलिलं यथा ॥ २.४०.२० ॥

于是这座城市,连同孩童和老人,极度悲痛,只向罗摩奔去,就像被酷热折磨的人奔向清水。

2.40.21

पार्श्वतः पृष्ठतश्चापि लम्बमानास्तदुन्मुखाः।
बाष्पपूर्णमुखाः सर्वे तमूचुर्भृशनिःस्वनाः ॥ २.४०.२१ ॥

有人从两侧和后面攀附着,面向他,满面泪水,大声地对他说道。

2.40.22

संयच्छ वाजिनां रश्मीन् सूत याहि शनैः शनैः।
मुखं द्रक्ष्याम रामस्य दुर्दर्शं नो भविष्यति ॥ २.४०.२२ ॥

车夫啊,勒住马缰,慢慢地走吧;我们要看罗摩的面容,否则将难以再见。

2.40.23

आयसं हृदयं नूनं राममातुरसंशयम्।
यद् देवगर्भप्रतिमे वनं याति न भिद्यते ॥ २.४०.२३ ॥

罗摩之母的心想必是铁做的,因为她看着如同天神之子的儿子走向森林,心却没有碎裂。

2.40.24

कृतकृत्या हि वैदेही छायेवानुगता पतिम्।
न जहाति रता धर्मे मेरुमर्कप्रभा यथा ॥ २.४०.२४ ॥

维代希已经完成了她的职责;她如影随形地跟随丈夫。她笃守法度,不会离开他,正如太阳的光辉不离开须弥山。

2.40.25

अहो लक्ष्मण सिद्धार्थः सततं प्रियवादिनम्।
भ्रातरं देवसंकाशं यस्त्वं परिचरिष्यसि ॥ २.४०.२५ ॥

啊,罗什曼那!你真是有福之人,将侍奉那言语总是温和、如同神祇的兄长。

2.40.26

महत्येषा हि ते बुद्धिरेष चाभ्युदयो महान्।
एष स्वर्गस्य मार्गश्च यदेनमनुगच्छसि ॥ २.४०.२६ ॥

你的这份志向何等崇高,这也是伟大的兴盛。你追随他而行,正是通往天界之路。

2.40.27

एवं वदन्तस्ते सोढुं न शेकुर्बाष्पमागतम्।
नरास्तमनुगच्छन्ति प्रियमिक्ष्वाकुनन्दनम् ॥ २.४०.२७ ॥

他们如此说着,已无法忍住涌上来的泪水;众人跟随着那位可爱的、伊克什瓦库家族的欢乐。

2.40.28

अथ राजा वृतः स्त्रीभिर्दीनाभिर्दीनचेतनः।
निर्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन् गृहात् ॥ २.४०.२८ ॥

于是心怀忧伤的国王,被悲苦的妇人们簇拥着,一边说着“我要去见我心爱的儿子”,一边走出了宫殿。

2.40.29

शुश्रुवे चाग्रतः स्त्रीणां रुदतीनां महास्वनः।
यथा नादः करेणूनां बद्धे महति कुञ्जरे ॥ २.४०.२९ ॥

前方传来妇人们哭泣的巨大声响,如同大象被缚时母象的哀鸣。

2.40.30

पिता हि राजा काकुत्स्थः श्रीमान् सन्नस्तदा बभौ।
परिपूर्णः शशी काले ग्रहेणोपप्लुतो यथा ॥ २.४०.३० ॥

那时,身为迦古特陀家族光辉之父的国王显得黯淡,如同满月被行星所蚀。

2.40.31

स च श्रीमानचिन्त्यात्मा रामो दशरथात्मजः।
सूतं संचोदयामास त्वरितं वाह्यतामिति ॥ २.४०.३१ ॥

光辉而不可思议之性的十车王之子罗摩催促御者:“速备车驾。”

2.40.32

रामो याहीति तं सूतं तिष्ठेति च जनस्तथा।
उभयं नाशकत् सूतः कर्तुमध्वनि चोदितः ॥ २.४०.३२ ॥

罗摩对御者说“前行”,而众人说“停下”;御者在路上被催促,两者都无法做到。

2.40.33

निर्गच्छति महाबाहौ रामे पौरजनाश्रुभिः।
पतितैरभ्यवहितं प्रणनाश महीरजः ॥ २.४०.३३ ॥

大臂的罗摩出发时,城中百姓落下的泪水使地上的尘土沉降。

2.40.34

रुदिताश्रुपरिद्यूनं हाहाकृतमचेतनम्।
प्रयाणे राघवस्यासीत् पुरं परमपीडितम् ॥ २.४०.३४ ॥

罗怙婆出发之时,城中因哭泣和泪水而憔悴,哀呼“唉呀”,麻木无知,极为痛苦。

2.40.35

सुस्राव नयनैः स्त्रीणामस्रमायाससम्भवम्।
मीनसंक्षोभचलितैः सलिलं पङ्कजैरिव ॥ २.४०.३५ ॥

女子的眼中流下因劳累与悲痛而生的泪水,如同鱼儿搅动的水中,莲花纷纷坠落。

2.40.36

दृष्ट्वा तु नृपतिः श्रीमानेकचित्तगतं पुरम्।
निपपातैव दुःखेन कृत्तमूल इव द्रुमः ॥ २.४०.३६ ॥

见城中百姓同心跟随罗摩而去,光辉的国王悲痛欲绝,如同断根之树般倒下。

2.40.37

ततो हलहलाशब्दो जज्ञे रामस्य पृष्ठतः।
नराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम् ॥ २.४०.३७ ॥

此时罗摩身后响起一片巨大的哀号之声,众人看见国王因极度悲痛而颓然倒下。

2.40.38

हा रामेति जनाः केचिद् राममातेति चापरे।
अन्तःपुरसमृद्धं च क्रोशन्तं पर्यदेवयन् ॥ २.४०.३८ ॥

有人呼喊:“哎呀,罗摩!”,又有人呼喊:“罗摩之母啊!”后宫的妇女也大声哭喊哀号。

2.40.39

अन्वीक्षमाणो रामस्तु विषण्णं भ्रान्तचेतसम्।
राजानं मातरं चैव ददर्शानुगतौ पथि ॥ २.४०.३९ ॥

罗摩回头看去,见国王与母亲在路上跟随着他,神情沮丧,心神迷乱。

2.40.40

स बद्ध इव पाशेन किशोरो मातरं यथा।
धर्मपाशेन संयुक्तः प्रकाशं नाभ्युदैक्षत ॥ २.४०.४० ॥

他仿佛被绳索缚住的幼兽,被法之绳索所束缚,不敢公开地望向母亲。

2.40.41

पदातिनौ च यानार्हावदुःखार्हौ सुखोचितौ।
दृष्ट्वा संचोदयामास शीघ्रं याहीति सारथिम् ॥ २.४०.४१ ॥

他看见二人徒步而行——本应乘车、不应受苦、惯于安逸——便催促御者道:“快走!”

2.40.42

नहि तत् पुरुषव्याघ्रो दुःखजं दर्शनं पितुः।
मातुश्च सहितुं शक्तस्तोत्त्रैर्नुन्न इव द्विपः ॥ २.४०.४२ ॥

人中之虎罗摩无法忍受那源于父母悲苦的景象,正如被刺棒驱赶的象。

2.40.43

प्रत्यगारमिवायान्ती सवत्सा वत्सकारणात्।
बद्धवत्सा यथा धेनू राममाताभ्यधावत ॥ २.४०.४३ ॥

如同母牛因小牛被拴住而奔回家中,罗摩之母也奔向他。

2.40.44

तथा रुदन्तीं कौसल्यां रथं तमनुधावतीम्।
क्रोशन्तीं राम रामेति हा सीते लक्ष्मणेति च ॥ २.४०.४४ ॥

如此哭泣,考撒利亚追赶那车,呼喊着:“罗摩!罗摩!”“哎呀,悉多!”以及“罗什曼那!”

2.40.45

रामलक्ष्मणसीतार्थं स्रवन्तीं वारि नेत्रजम्।
असकृत् प्रैक्षत स तां नृत्यन्तीमिव मातरम् ॥ २.४०.४५ ॥

为罗摩、罗什曼那和悉多而流下泪水,他一次又一次望着那仿佛在舞动的母亲。

2.40.46

तिष्ठेति राजा चुक्रोश याहि याहीति राघवः।
सुमन्त्रस्य बभूवात्मा चक्रयोरिव चान्तरा ॥ २.४०.४६ ॥

国王喊道:“停下!”罗怙之后说:“走吧,走吧!”苏曼特拉的心仿佛夹在两个车轮之间。

2.40.47

नाश्रौषमिति राजानमुपालब्धोऽपि वक्ष्यसि।
चिरं दुःखस्य पापिष्ठमिति रामस्तमब्रवीत् ॥ २.४०.४७ ॥

你要告诉国王:“我没有听见。”即使受到责备;也要说:“这个罪人(罗摩)长期带来痛苦。”罗摩这样对他说。

2.40.48

स रामस्य वचः कुर्वन्ननुज्ञाप्य च तं जनम्।
व्रजतोऽपि हयान् शीघ्रं चोदयामास सारथिः ॥ २.४०.४८ ॥

御者遵从罗摩的话,与众人告别,在马匹启程之际便迅速驱策它们。

2.40.49

न्यवर्तत जनो राज्ञो रामं कृत्वा प्रदक्षिणम्।
मनसाप्याशुवेगेन न न्यवर्तत मानुषम् ॥ २.४०.४९ ॥

国王的臣民绕行罗摩一周后返回;然而他们心中疾速前行,却未曾从那人中之杰处返回。

2.40.50

यमिच्छेत् पुनरायातं नैनं दूरमनुव्रजेत्।
इत्यमात्या महाराजमूचुर्दशरथं वचः ॥ २.४०.५० ॥

“你所愿其再归的人,不应远远地跟随。”大臣们就这样对大王十车说了这些话。

2.40.51

तेषां वचः सर्वगुणोपपन्नः
प्रस्विन्नगात्रः प्रविषण्णरूपः।
निशम्य राजा कृपणः सभार्यो
व्यवस्थितस्तं सुतमीक्षमाणः ॥ २.४०.५१ ॥

国王听了他们的话,他具备一切美德,身上汗流浃背,面容憔悴,与王后一同悲惨地站在那里,凝视着他的儿子。