Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.46

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.46.1

ततस्तु तमसातीरं रम्यमाश्रित्य राघवः।
सीतामुद्वीक्ष्य सौमित्रिमिदं वचनमब्रवीत् ॥ २.४६.१ ॥

于是拉戈婆之子罗摩来到可爱的达摩莎河岸,看着悉多,对苏弥特拉之子罗什曼那说了这些话。

2.46.2

इयमद्य निशा पूर्वा सौमित्रे प्रहिता वनम्।
वनवासस्य भद्रं ते न चोत्कण्ठितुमर्हसि ॥ २.४६.२ ॥

苏弥特拉之子啊,今夜是我们在林中流放的第一夜。愿你吉祥,你不应当思念故乡。

2.46.3

पश्य शून्यान्यरण्यानि रुदन्तीव समन्ततः।
यथानिलयमायद्भिर्निलीनानि मृगद्विजैः ॥ २.४६.३ ॥

看啊,四周空寂的森林仿佛在哭泣,那里归巢的鹿与鸟都隐藏其中。

2.46.4

अद्यायोध्या तु नगरी राजधानी पितुर्मम।
सस्त्रीपुंसा गतानस्मान् शोचिष्यति न संशयः ॥ २.४६.४ ॥

今日我父的都城阿逾陀城,连同男女百姓,因我们离去必将悲伤,毫无疑问。

2.46.5

अनुरक्ता हि मनुजा राजानं बहुभिर्गुणैः।
त्वां च मां च नरव्याघ्र शत्रुघ्नभरतौ तथा ॥ २.४६.५ ॥

人民因国王的诸多德行而爱戴他,同样也爱戴你、我,以及沙特鲁吉那和婆罗多,人中之虎啊。

2.46.6

पितरं चानुशोचामि मातरं च यशस्विनीम्।
अपि नान्धौ भवेतां नौ रुदन्तौ तावभीक्ष्णशः ॥ २.४६.६ ॥

我为父亲和尊贵的母亲忧伤;愿他们不要因为不断为我们哭泣而失明。

2.46.7

भरतः खलु धर्मात्मा पितरं मातरं च मे।
धर्मार्थकामसहितैर्वाक्यैराश्वासयिष्यति ॥ २.४६.७ ॥

德行高尚的婆罗多必定会以充满法、利、欲的话语安慰我们的父母。

2.46.8

भरतस्यानृशंसत्वं संचिन्त्याहं पुनः पुनः।
नानुशोचामि पितरं मातरं च महाभुज ॥ २.४६.८ ॥

啊,大臂者!我反复思念婆罗多的仁慈,因此不为父亲和母亲悲伤。

2.46.9

त्वया कार्यं नरव्याघ्र मामनुव्रजता कृतम्।
अन्वेष्टव्या हि वैदेह्या रक्षणार्थं सहायता ॥ २.४६.९ ॥

人中之虎啊,你跟随我已尽了你的职责;为了保护毗提诃公主,必须寻求帮助。

2.46.10

अद्भिरेव हि सौमित्रे वत्स्याम्यद्य निशामिमाम्।
एतद्धि रोचते मह्यं वन्येऽपि विविधे सति ॥ २.४६.१० ॥

啊,苏弥德罗之子!今夜我只以水度过;虽然森林中有许多种东西,我仍然觉得这样最好。

2.46.11

एवमुक्त्वा तु सौमित्रिं सुमन्त्रमपि राघवः।
अप्रमत्तस्त्वमश्वेषु भव सौम्येत्युवाच ह ॥ २.४६.११ ॥

罗怙之后对罗什曼那说完这些话后,又对苏曼特罗说:“善人啊,要好好照料马匹。”

2.46.12

सोऽश्वान् सुमन्त्रः संयम्य सूर्येऽस्तं समुपागते।
प्रभूतयवसान् कृत्वा बभूव प्रत्यनन्तरः ॥ २.४६.१२ ॥

太阳将要落山时,苏曼特罗勒住马匹,给它们充足的草料,并守在它们身边。

2.46.13

उपास्य तु शिवां संध्यां दृष्ट्वा रात्रिमुपागताम्।
रामस्य शयनं चक्रे सूतः सौमित्रिणा सह ॥ २.४६.१३ ॥

行完吉祥的晨昏礼拜,见夜色已至,御者苏曼特拉与苏弥德拉(罗什曼那)一同为罗摩铺设卧榻。

2.46.14

तां शय्यां तमसातीरे वीक्ष्य वृक्षदलैर्वृताम्।
रामः सौमित्रिणा सार्धं सभार्यः संविवेश ह ॥ २.४६.१४ ॥

罗摩见到塔马萨河岸上那张以树叶覆盖的卧榻,便与苏弥德拉(罗什曼那)及其妻子一同躺卧其上。

2.46.15

सभार्यं सम्प्रसुप्तं तु श्रान्तं सम्प्रेक्ष्य लक्ष्मणः।
कथयामास सूताय रामस्य विविधान् गुणान् ॥ २.४६.१५ ॥

见罗摩与妻子同眠,疲惫而沉睡,罗什曼那便向御者讲述罗摩的种种美德。

2.46.16

जाग्रतोरेव तां रात्रिं सौमित्रेरुदितो रविः।
सूतस्य तमसातीरे रामस्य ब्रुवतो गुणान् ॥ २.४६.१६ ॥

在塔马萨河岸上,罗什曼那与御者仍醒着、谈论罗摩之德时,那一夜便过去了,太阳升起。

2.46.17

गोकुलाकुलतीरायास्तमसाया विदूरतः।
अवसत् तत्र तां रात्रिं रामः प्रकृतिभिः सह ॥ २.४६.१७ ॥

在离塔马萨河稍远之处,那里河岸上满是牛群,罗摩与百姓一同在那里度过了那一夜。

2.46.18

उत्थाय च महातेजाः प्रकृतीस्ता निशाम्य च।
अब्रवीद् भ्रातरं रामो लक्ष्मणं पुण्यलक्षणम् ॥ २.४६.१८ ॥

大光明的罗摩起身,看见那些百姓,便对具有吉祥相的胞弟罗什曼那说道。

2.46.19

अस्मद्व्यपेक्षान् सौमित्रे निर्व्यपेक्षान् गृहेष्वपि।
वृक्षमूलेषु संसक्तान् पश्य लक्ष्मण साम्प्रतम् ॥ २.४६.१९ ॥

萨乌米特里啊,看吧,罗什曼那,那些只依靠我们而离开家园的人,如今紧贴着树根躺卧。

2.46.20

यथैते नियमं पौराः कुर्वन्त्यस्मन्निवर्तने।
अपि प्राणान् न्यसिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम् ॥ २.४६.२० ॥

这些城中之人对我们的返回所立下的誓愿,他们会以生命相托,却绝不放弃其决心。

2.46.21

यावदेव तु संसुप्तास्तावदेव वयं लघु।
रथमारुह्य गच्छामः पन्थानमकुतोभयम् ॥ २.४६.२१ ॥

趁他们都沉睡之际,我们快快登上战车,走那无惧之路吧。

2.46.22

अतो भूयोऽपि नेदानीमिक्ष्वाकुपुरवासिनः।
स्वपेयुरनुरक्ता मा वृक्षमूलेषु संश्रिताः ॥ २.४६.२२ ॥

因此,伊刹婆迦城中那些忠诚的居民,此后不要再依靠树根而睡卧了。

2.46.23

पौरा ह्यात्मकृताद् दुःखाद् विप्रमोच्या नृपात्मजैः।
न तु खल्वात्मना योज्या दुःखेन पुरवासिनः ॥ २.४६.२३ ॥

城中之民应由王子从自己所造的苦难中解救;不应由他们自己使自己陷入苦难。

2.46.24

अब्रवील्लक्ष्मणो रामं साक्षाद् धर्ममिव स्थितम्।
रोचते मे तथा प्राज्ञ क्षिप्रमारुह्यतामिति ॥ २.४६.२४ ॥

罗什曼那对如同化身正法般站立的罗摩说:智者啊,我觉得这样很好;让我们快快登上战车吧。

2.46.25

अथ रामोऽब्रवीत् सूतं शीघ्रं संयुज्यतां रथः।
गमिष्यामि ततोऽरण्यं गच्छ शीघ्रमितः प्रभो ॥ २.४६.२५ ॥

于是罗摩对御者说:“快快套好车。然后我将前往森林;主啊,快从此处出发。”

2.46.26

सूतस्ततः संत्वरितः स्यन्दनं तैर्हयोत्तमैः।
योजयित्वा तु रामस्य प्राञ्जलिः प्रत्यवेदयत् ॥ २.४६.२६ ॥

于是御者急忙用那些良马套好车,合掌向罗摩禀报。

2.46.27

अयं युक्तो महाबाहो रथस्ते रथिनां वर।
त्वरयाऽऽरोह भद्रं ते ससीतः सहलक्ष्मणः ॥ २.४६.२७ ॥

“大臂者啊,车手中最优秀的人,你的车已经套好。快快登车;愿你吉祥,与悉多和罗什曼那同行。”

2.46.28

तं स्यन्दनमधिष्ठाय राघवः सपरिच्छदः।
शीघ्रगामाकुलावर्तां तमसामतरन्नदीम् ॥ २.४६.२८ ॥

罗怙婆之裔登上那辆车,与随从一起渡过了水流湍急、漩涡翻滚的塔马萨河。

2.46.29

स संतीर्य महाबाहुः श्रीमान् शिवमकण्टकम्।
प्रापद्यत महामार्गमभयं भयदर्शिनाम् ॥ २.४६.२९ ॥

渡过河流后,那大臂而光荣的罗摩踏上了无荆棘、吉祥的大道;对于那些看到恐惧的人,这条路是无畏的。

2.46.30

मोहनार्थं तु पौराणां सूतं रामोऽब्रवीद् वचः।
उदङ्मुखः प्रयाहि त्वं रथमारुह्य सारथे ॥ २.४६.३० ॥

为了迷惑城中百姓,罗摩对御者说:“御者啊,你登上车,面向北方前行。”

2.46.31

मुहूर्तं त्वरितं गत्वा निवर्तय रथं पुनः।
यथा न विद्युः पौरा मां तथा कुरु समाहितः ॥ २.४६.३१ ॥

疾驰片刻,再把车调转回来,并小心行事,使城中百姓认不出我。

2.46.32

रामस्य तु वचः श्रुत्वा तथा चक्रे च सारथिः।
प्रत्यागम्य च रामस्य स्यन्दनं प्रत्यवेदयत् ॥ २.४६.३२ ॥

御者听了罗摩的话便照办;回来后,他向罗摩禀报了战车的情况。

2.46.33

तौ सम्प्रयुक्तं तु रथं समास्थितौ
तदा ससीतौ रघुवंशवर्धनौ।
प्रचोदयामास ततस्तुरंगमान्
स सारथिर्येन पथा तपोवनम् ॥ २.४६.३३ ॥

当两位光大罗怙世系的人与悉多一同登上套好的战车后,御者便驱策马匹,沿着通向苦行林的道路前行。

2.46.34

ततः समास्थाय रथं महारथः
ससारथिर्दाशरथिर्वनं ययौ।
उदङ्मुखं तं तु रथं चकार
प्रयाणमाङ्गल्यनिमित्तदर्शनात् ॥ २.४६.३४ ॥

于是,大战车手、十车王之子与御者一同登上战车,前往森林;见到出发的吉兆,便使战车转向北方。