Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.9

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.9.1

एवमुक्ता तु कैकेयी क्रोधेन ज्वलितानना।
दीर्घमुष्णं विनिःश्वस्य मन्थरामिदमब्रवीत् ॥ २.९.१ ॥

被这样说之后,凯克伊因愤怒而面孔燃烧,长长地、热热地叹了一口气,对曼陀罗说了这番话。

2.9.2

अद्य राममितः क्षिप्रं वनं प्रस्थापयाम्यहम्।
यौवराज्येन भरतं क्षिप्रमद्याभिषेचये ॥ २.९.२ ॥

今天我就要让罗摩从这里迅速前往森林,也要今天就让婆罗多迅速被灌顶为太子。

2.9.3

इदं त्विदानीं सम्पश्य केनोपायेन साधये।
भरतः प्राप्नुयाद् राज्यं न तु रामः कथंचन ॥ २.९.३ ॥

现在你看看,用什么办法我才能成就:婆罗多得到王国,而罗摩无论如何也得不到。

2.9.4

एवमुक्ता तु सा देव्या मन्थरा पापदर्शिनी।
रामार्थमुपहिंसन्ती कैकेयीमिदमब्रवीत् ॥ २.९.४ ॥

王后这样说后,那位看向邪恶、损害罗摩之利益的曼陀罗,对凯克伊说了这番话。

2.9.5

हन्तेदानीं प्रपश्य त्वं कैकेयि श्रूयतां वचः।
यथा ते भरतो राज्यं पुत्रः प्राप्स्यति केवलम् ॥ २.९.५ ॥

凯克伊啊,现在你好好看看,听我的话,好让你的儿子婆罗多独自得到王国。

2.9.6

किं न स्मरसि कैकेयि स्मरन्ती वा निगूहसे।
यदुच्यमानमात्मार्थं मत्तस्त्वं श्रोतुमिच्छसि ॥ २.९.६ ॥

凯克伊啊,你不记得了吗?还是记得却隐瞒着?你想从我这里听到我为你自己而说的这些话。

2.9.7

मयोच्यमानं यदि ते श्रोतुं छन्दो विलासिनि।
श्रूयतामभिधास्यामि श्रुत्वा चैतद् विधीयताम् ॥ २.९.७ ॥

娇媚的夫人啊,若你想听我所说,便请听着;我将说出,听后便照此行事吧。

2.9.8

श्रुत्वैवं वचनं तस्या मन्थरायास्तु कैकयी।
किंचिदुत्थाय शयनात् स्वास्तीर्णादिदमब्रवीत् ॥ २.९.८ ॥

听了末陀罗这番话,吉凯伊稍稍从铺好的床上起身,说道:

2.9.9

कथयस्व ममोपायं केनोपायेन मन्थरे।
भरतः प्राप्नुयाद् राज्यं न तु रामः कथंचन ॥ २.९.९ ॥

末陀罗啊,请告诉我一个办法,使婆罗多得到王国,而罗摩无论如何也得不到。

2.9.10

एवमुक्ता तदा देव्या मन्थरा पापदर्शिनी।
रामार्थमुपहिंसन्ती कैकेयीमिदमब्रवीत् ॥ २.९.१० ॥

王后如此说后,怀有恶念、意在伤害罗摩之事的末陀罗对吉凯伊说了这番话。

2.9.11

पुरा देवासुरे युद्धे सह राजर्षिभिः पतिः।
अगच्छत् त्वामुपादाय देवराजस्य साह्यकृत् ॥ २.९.११ ॥

往昔天神与阿修罗之战中,你的丈夫与王仙们一同前往帮助天神之王,并带上了你。

2.9.12

दिशमास्थाय कैकेयि दक्षिणां दण्डकान् प्रति।
वैजयन्तमिति ख्यातं पुरं यत्र तिमिध्वजः ॥ २.९.१२ ॥

吉凯伊啊,朝向南方、通往檀陀迦森林,有一座名为毗阇衍多的城市,那里居住着提弥陀婆阇。

2.9.13

स शम्बर इति ख्यातः शतमायो महासुरः।
ददौ शक्रस्य संग्रामं देवसङ्घैरनिर्जितः ॥ २.९.१३ ॥

那位以百般幻术闻名的大阿修罗商婆罗,不为诸天众所胜,曾与因陀罗交战。

2.9.14

तस्मिन् महति संग्रामे पुरुषान् क्षतविक्षतान्।
रात्रौ प्रसुप्तान् घ्नन्ति स्म तरसापास्य राक्षसाः ॥ २.९.१४ ॥

在那场大战中,罗刹们迅速拨开受伤残破的人,将夜间熟睡的人杀害。

2.9.15

तत्राकरोन्महायुद्धं राजा दशरथस्तदा।
असुरैश्च महाबाहुः शस्त्रैश्च शकलीकृतः ॥ २.९.१५ ॥

当时,臂力强大的国王十车在那里与阿修罗展开大战,身躯被兵器砍得粉碎。

2.9.16

अपवाह्य त्वया देवि संग्रामान्नष्टचेतनः।
तत्रापि विक्षतः शस्त्रैः पतिस्ते रक्षितस्त्वया ॥ २.९.१६ ॥

王后啊,你将失去知觉的他从战场上带走;在那里,他被兵器所伤,你也保护了你的丈夫。

2.9.17

तुष्टेन तेन दत्तौ ते द्वौ वरौ शुभदर्शने।
स त्वयोक्तः पतिर्देवि यदेच्छेयं तदा वरम् ॥ २.९.१७ ॥

吉祥容颜的你啊,他欢喜之下赐给你两个恩惠;王后啊,你曾对那位丈夫说:‘我想要时,便会取那恩惠。’

2.9.18

गृह्णीयां तु तदा भर्तस्तथेत्युक्तं महात्मना।
अनभिज्ञा ह्यहं देवि त्वयैव कथितं पुरा ॥ २.९.१८ ॥

‘那时我便取之’——对此,那位大德回答:‘就这样吧。’王后啊,我并不知情,因为这话是你先前亲口对我说的。

2.9.19

कथैषा तव तु स्नेहान्मनसा धार्यते मया।
रामाभिषेकसम्भारान्निगृह्य विनिवर्तय ॥ २.९.१९ ॥

出于对你的爱,我一直把此事藏在心中。请制止罗摩的加冕准备,将其扭转。

2.9.20

तौ च याचस्व भर्तारं भरतस्याभिषेचनम्।
प्रव्राजनं च रामस्य वर्षाणि च चतुर्दश ॥ २.९.२० ॥

向国王求那两个恩惠:立婆罗多为王,以及罗摩流放十四年。

2.9.21

चतुर्दश हि वर्षाणि रामे प्रव्राजिते वनम्।
प्रजाभावगतस्नेहः स्थिरः पुत्रो भविष्यति ॥ २.९.२१ ॥

罗摩被流放到森林十四年后,民众的爱戴将牢固地转向你的儿子,他将稳固地成为国王。

2.9.22

क्रोधागारं प्रविश्याद्य क्रुद्धेवाश्वपतेः सुते।
शेष्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी ॥ २.९.२२ ॥

阿湿婆帕蒂之女啊,现在进入愤怒之室,仿佛愤怒一般,身穿污秽衣裳,隐藏着躺在地上。

2.9.23

मा स्मैनं प्रत्युदीक्षेथा मा चैनमभिभाषथाः।
रुदन्ती पार्थिवं दृष्ट्वा जगत्यां शोकलालसा ॥ २.९.२३ ॥

即使见到国王,也不要满怀期待地看他,也不要与他说话;在地上哭泣,仿佛渴望悲伤。

2.9.24

दयिता त्वं सदा भर्तुरत्र मे नास्ति संशयः।
त्वत्कृते च महाराजो विशेदपि हुताशनम् ॥ २.९.२४ ॥

你始终深受丈夫的宠爱,对此我毫无疑问。为了你,大王甚至会投身火中。

2.9.25

न त्वां क्रोधयितुं शक्तो न क्रुद्धां प्रत्युदीक्षितुम्।
तव प्रियार्थं राजा तु प्राणानपि परित्यजेत् ॥ २.९.२५ ॥

国王不能使你生气,也不敢在你发怒时正视你。为了让你高兴,国王甚至会舍弃自己的性命。

2.9.26

न ह्यतिक्रमितुं शक्तस्तव वाक्यं महीपतिः।
मन्दस्वभावे बुध्यस्व सौभाग्यबलमात्मनः ॥ २.९.२६ ॥

国王实在不能违背你的话。天真单纯的人啊,请明白你自身福分的力量吧。

2.9.27

मणिमुक्तासुवर्णानि रत्नानि विविधानि च।
दद्याद् दशरथो राजा मा स्म तेषु मनः कृथाः ॥ २.९.२७ ॥

国王达舍罗陀可能会赠送宝石、珍珠、黄金和各种珠宝;但你不要把心思放在这些上面。

2.9.28

यौ तौ देवासुरे युद्धे वरौ दशरथो ददौ।
तौ स्मारय महाभागे सोऽर्थो न त्वा क्रमेदति ॥ २.९.२८ ॥

请提醒他在天神与阿修罗之战中赐给你的那两个恩惠,啊,极有福分的人。那个目的不会从你身边溜走。

2.9.29

यदा तु ते वरं दद्यात् स्वयमुत्थाप्य राघवः।
व्यवस्थाप्य महाराजं त्वमिमं वृणुया वरम् ॥ २.९.२९ ॥

当罗伽瓦自己愿意赐予你恩惠时,你要扶起大王使他坐好,然后请求这个恩惠。

2.9.30

रामप्रव्रजनं दूरं नव वर्षाणि पञ्च च।
भरतः क्रियतां राजा पृथिव्यां पार्थिवर्षभ ॥ २.९.३० ॥

让罗摩远行流放十四年,让婆罗多被立为大地之王。啊,王中之雄牛!

2.9.31

चतुर्दश हि वर्षाणि रामे प्रव्राजिते वनम्।
रूढश्च कृतमूलश्च शेषं स्थास्यति ते सुतः ॥ २.९.३१ ॥

若罗摩被流放入林,十四年将过去,你的儿子扎根稳固,将长久安居其位。

2.9.32

रामप्रव्राजनं चैव देवि याचस्व तं वरम्।
एवं सेत्स्यन्ति पुत्रस्य सर्वार्थास्तव कामिनि ॥ २.९.३२ ॥

王后啊,请以罗摩的流放为恩赐来求;如此你儿子的一切志愿都将成就,我的爱人。

2.9.33

एवं प्रव्राजितश्चैव रामोऽरामो भविष्यति।
भरतश्च गतामित्रस्तव राजा भविष्यति ॥ २.९.३३ ॥

如此,罗摩一旦被流放,便会失去欢颜;而无敌的婆罗多将成为你的国王。

2.9.34

येन कालेन रामश्च वनात् प्रत्यागमिष्यति।
अन्तर्बहिश्च पुत्रस्ते कृतमूलो भविष्यति ॥ २.९.३४ ॥

待罗摩从林中归来之时,你的儿子内外根基都已牢固。

2.9.35

संगृहीतमनुष्यश्च सुहृद्भिः साकमात्मवान्।
प्राप्तकालं नु मन्येऽहं राजानं वीतसाध्वसा ॥ २.९.३५ ॥

我认为时机已到:婆罗多已与朋友一同得民心,且能自制,应当无所畏惧地登上王位。

2.9.36

रामाभिषेकसंकल्पान्निगृह्य विनिवर्तय।
अनर्थमर्थरूपेण ग्राहिता सा ततस्तया ॥ २.९.३६ ॥

制止罗摩的加冕之议,使其回转。如此,灾祸被当作好处让她接受;于是她便接受了。

2.9.37

हृष्टा प्रतीता कैकेयी मन्थरामिदमब्रवीत्।
सा हि वाक्येन कुब्जायाः किशोरीवोत्पथं गता ॥ २.९.३७ ॥

凯盖依欣喜且安心,对曼塔拉说了这番话。她因驼背女的话而偏离正道,如同年少的女子。

2.9.38

कैकेयी विस्मयं प्राप्य परं परमदर्शना।
प्रज्ञां ते नावजानामि श्रेष्ठे श्रेष्ठाभिधायिनि ॥ २.९.३८ ॥

凯盖依大为惊异,目光高远,说道:“贤良之人啊,言说善言之人啊,我不轻视你的智慧。”

2.9.39

पृथिव्यामसि कुब्जानामुत्तमा बुद्धिनिश्चये।
त्वमेव तु ममार्थेषु नित्ययुक्ता हितैषिणी ॥ २.९.३९ ॥

世上驼背女中,你在坚定的判断上最为出众;而你独自常常为我的事务尽心,寻求我的福祉。

2.9.40

नाहं समवबुद्ध्येयं कुब्जे राज्ञश्चिकीर्षितम्।
सन्ति दुःसंस्थिताः कुब्जाः वक्राः परमपापिकाः ॥ २.९.४० ॥

哎,驼背女,我不能领会国王的心意。驼背女形貌不正、弯曲,极为邪恶。

2.9.41

त्वं पद्ममिव वातेन संनता प्रियदर्शना।
उरस्तेऽभिनिविष्टं वै यावत् स्कन्धात् समुन्नतम् ॥ २.९.४१ ॥

你如同被风吹弯的莲花,令人赏心悦目;你的胸部坚挺,高高隆起直至肩头。

2.9.42

अधस्ताच्चोदरं शान्तं सुनाभमिव लज्जितम्।
प्रतिपूर्णं च जघनं सुपीनौ च पयोधरौ ॥ २.९.४२ ॥

下腹平静,脐部秀美,仿佛含羞;臀部丰满,双乳十分饱满。

2.9.43

विमलेन्दुसमं वक्त्रमहो राजसि मन्थरे।
जघनं तव निर्मृष्टं रशनादामभूषितम् ॥ २.९.४३ ॥

啊,曼塔拉,你的面容如无瑕的明月般多么光彩!你的臀部饰以腰链,光滑闪亮。

2.9.44

जङ्घे भृशमुपन्यस्ते पादौ च व्यायतावुभौ।
त्वमायताभ्यां सक्थिभ्यां मन्थरे क्षौमवासिनी ॥ २.९.४४ ॥

啊,曼塔拉,你的小腿匀称非常,双脚修长。身着麻布衣,你以修长的大腿而光彩照人。

2.9.45

अग्रतो मम गच्छन्ती राजसेऽतीव शोभने।
आसन् याः शम्बरे मायाः सहस्रम् असुराधिपे ॥ २.९.४५ ॥

啊,美丽的人,你走在我前面,光彩耀人。阿修罗之王商跋罗所拥有的千般幻术,也在你身上。

2.9.46

हृदये ते निविष्टास् ता भूयश् चान्याः सहस्रशः।
तदेव स्थगु यद् दीर्घं रथ-घोणम् इवायतम् ॥ २.९.४६ ॥

那些幻术已住在你的心中,此外还有成千上万的其他幻术。你那如战车辕杆般长长的驼背,本身也是其中之一。

2.9.47

मतयः क्षत्र-विद्याश् च मायाश्चात्र वसन्ति ते।
अत्र तेऽहं प्रमोक्ष्यामि मालां कुब्जे हिरण्मयीम् ॥ २.९.४७ ॥

驼背的女人啊,你身上住着机谋、武艺与幻术。因此我要在此赠你这条金色花环。

2.9.48

अभिषिक्ते च भरते राघवे च वनं गते।
जात्येन च सुवर्णेन सुनिष्टप्तेन सुन्दरि ॥ २.९.४८ ॥

待婆罗多受封,罗怀婆(罗摩)已入林中,那时,美丽的人啊,我将以上等、经火充分精炼的纯金赠你(饰物)。

2.9.49

लब्धार्था च प्रतीता च लेपयिष्यामि ते स्थगु।
मुखे च तिलकं चित्रं जातरूपमयं शुभम् ॥ २.९.४९ ॥

吉伽伊对曼陀罗说:“你的心愿已经达成,你也受到信任。我要让人给你的身体涂上檀香膏,并在你的脸上点上一个精美吉祥的金色额印。”

2.9.50

कारयिष्यामि ते कुब्जे शुभान्याभरणानि च।
परिधाय शुभे वस्त्रे देवतेव चरिष्यसि ॥ २.९.५० ॥

“驼背的人啊,我要为你制作精美的饰品;穿上华丽的衣服,你将像女神一样行走。”

2.9.51

चन्द्रमाह्वयमानेन मुखेनाप्रतिमानना।
गमिष्यसि गतिं मुख्यां गर्वयन्ती द्विषज्जने ॥ २.९.५१ ॥

“你的脸庞仿佛在与月亮争辉,无与伦比的你啊,将以高雅的步态前行,在敌人面前流露出骄傲。”

2.9.52

तवापि कुब्जाः कुब्जायाः सर्वाभरणभूषिताः।
पादौ परिचरिष्यन्ति यथैव त्वं सदा मम ॥ २.९.५२ ॥

“你的驼背侍女们也会佩戴各种饰品,像你总是侍奉我那样,侍奉你的双脚。”

2.9.53

शयानां शयने शुभ्रे वेद्यामग्निशिखामिव ॥ २.९.५३ ॥

“你躺在洁白的床上,就像祭坛上的一缕火焰。”

2.9.54

गतोदके सेतुबन्धो न कल्याणि विधीयते।
उत्तिष्ठ कुरु कल्याणं राजानमनुदर्शय ॥ २.९.५४ ॥

“吉祥的人啊,水流走之后就不再筑堤了。起来吧,做那吉祥之事,去见国王吧。”

2.9.55

तथा प्रोत्साहिता देवी गत्वा मन्थरया सह।
क्रोधागारं विशालाक्षी सौभाग्यमदगर्विता ॥ २.९.५५ ॥

如此受到鼓动,大眼睛的王后因幸福的骄傲而自负,与曼他罗一同前往愤怒之室。

2.9.56

अनेकशतसाहस्रं मुक्ताहारं वराङ्गना।
अवमुच्य वरार्हाणि शुभान्याभरणानि च ॥ २.९.५६ ॥

那位美女摘下了成千上万条珍珠项链和珍贵吉祥的饰物。

2.9.57

तदा हेमोपमा तत्र कुब्जावाक्यवशंगता।
संविश्य भूमौ कैकेयी मन्थरामिदमब्रवीत् ॥ २.९.५७ ॥

那时,色如黄金的吉迦伊,听从驼背女的话,伏卧于地,对曼他罗说了这番话。

2.9.58

इह वा मां मृतां कुब्जे
नृपायावेदयिष्यसि।
वनं तु राघवे प्राप्ते
भरतः प्राप्स्यते क्षितिम् ॥ २.९.५८ ॥

驼背女啊,你会把我死在这里的消息告诉国王吗?罗怙之子去了森林之后,婆罗多将得到大地。

2.9.59

सुवर्णेन न मे ह्यर्थो
न रत्नैर्न च भोजनैः।
एष मे जीवितस्यान्तो
रामो यद्यभिषिच्यते ॥ २.९.५९ ॥

我不需要黄金,不需要珠宝,也不需要食物。如果罗摩被灌顶,那便是我生命的终结。

2.9.60

ततः पुनस्तां महिषीं महीक्षितो
वचोभिरत्यर्थमहापराक्रमैः।
उवाच कुब्जा भरतस्य मातरं
हितं वचो राममुपेत्य चाहितम् ॥ २.९.६० ॥

于是驼背女又以极其威武的言辞,对国王的王后、婆罗多之母说了一番话:这话对罗摩有害,却对她有益。

2.9.61

प्रपत्स्यते राज्यमिदं हि राघवो
यदि ध्रुवं त्वं ससुता च तप्स्यसे।
ततो हि कल्याणि यतस्व तत् तथा
यथा सुतस्ते भरतोऽभिषेक्ष्यते ॥ २.९.६१ ॥

若罗怙之子得此王国,你和你的儿子必定受苦。所以,吉祥的女人啊,你要努力,使你的儿子婆罗多得以受灌顶。

2.9.62

तथातिविद्धा महिषीति कुब्जया
समाहता वागिषुभिर्मुहुर्मुहुः।
विधाय हस्तौ हृदयेऽतिविस्मिता
शशंस कुब्जां कुपिता पुनः पुनः ॥ २.९.६२ ॥

王后被驼背女的言语之箭一再刺伤,十分惊愕,将双手置于心口,愤怒地一再向驼背女说道。

2.9.63

यमस्य वा मां विषयं गतामितो
निशम्य कुब्जे प्रतिवेदयिष्यसि।
वनं गते वा सुचिराय राघवे
समृद्धकामो भरतो भविष्यति ॥ २.९.६३ ॥

驼背女啊,你听说我已从此处去了阎摩之界,你就会来报告吧;或者,罗怙之子长久进入森林之后,婆罗多将心愿满足而兴盛。

2.9.64

अहं हि नैवास्तरणानि न स्रजो
न चन्दनं नाञ्जनपानभोजनम्।
न किंचिदिच्छामि न चेह जीवनं
न चेदितो गच्छति राघवो वनम् ॥ २.९.६४ ॥

若罗怙之子不从此处前往森林,我既不想要卧具,也不想要花环、檀香、眼膏、饮食;什么都不想要,也不愿在此活着。

2.9.65

अथैवमुक्त्वा वचनं सुदारुणं
निधाय सर्वाभरणानि भामिनी।
असंस्कृतामास्तरणेन मेदिनीं
तदाधिशिश्ये पतितेव किंनरी ॥ २.९.६५ ॥

说完这些极其残酷的话,这位女子卸下所有饰物,躺在没有铺垫的裸地上,像一只跌落的紧那罗女。

2.9.66

उदीर्णसंरम्भतमोवृतानना
तदावमुक्तोत्तममाल्यभूषणा।
नरेन्द्रपत्नी विमना बभूव सा
तमोवृता द्यौरिव मग्नतारका ॥ २.९.६६ ॥

此时,她的脸庞被强烈愤怒的黑暗所笼罩,她摘下了华美的花环与首饰,这位王后心情郁闷,宛如被黑暗笼罩、星辰隐没的天空。