蚁垤《罗摩衍那》 · 篇 2.93
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.93.1
तया महत्या यायिन्या ध्वजिन्या वनवासिनः ।
अर्द्दिता यूथपा मत्ताः सयूथाः सम्प्रदुद्रुवुः ॥ २.९३.१ ॥
被那庞大行进的军队所惊扰,林中栖居的狂躁兽群首领们带着各自的群体向四面八方奔逃。
2.93.2
ऋक्षाः पृषतसङ्घाश्च रुरवश्च समतन्तः ।
दृश्यन्ते वनराजीषु गिरिष्वपि नदीषु च ॥ २.९३.२ ॥
熊、成群的斑鹿和卢卢鹿因恐惧而四散,在林木成行之处、山上和河流边都可以看到。
2.93.3
स सम्प्रतस्थे धर्मात्मा प्रीतो दशरथात्मजः ।
वृतो महत्या नादिन्या सेनया चतुरङ्गया ॥ २.९३.३ ॥
那位心地正直的十车王之子欣然启程,被庞大而轰鸣的四军所环绕。
2.93.4
सागरौघनिभा सेना भरतस्य महात्मनः ।
महीं सञ्छादयामास प्रावृषि द्यामिवाम्बुदः ॥ २.९३.४ ॥
伟大的婆罗多的军队如同海洋的洪流;如同雨季的云遮蔽天空,它遮蔽了大地。
2.93.5
चिरकालमित्यनेन कदाचिल्लक्ष्यत इति गम्यते ॥ २.९३.५ ॥
由"长久"一词可知,这有时可以见到。
2.93.6
स यात्वा दूरमध्वानं सुपरिश्रान्तवाहनः ।
उवाच भरतः श्रीमान् वसिष्ठं मन्त्रिणां वरम् ॥ २.९३.६ ॥
走了很远的路,坐骑已极度疲惫,光辉的婆罗多对众臣中最杰出的婆悉吒说道。
2.93.7
यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया ।
व्यक्तं प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत् ॥ २.९३.७ ॥
正如眼前所见之景与我所闻相合,我们确已抵达婆罗堕遮所描述的那片土地。
2.93.8
अयं गिरिश्चित्रकूट इयं मन्दाकिनी नदी ।
एतत् प्रकाशते दूरान्नीलमेघनिभं वनम् ॥ २.९३.८ ॥
这是奇拉库塔山,这是曼陀吉尼河。远远望去,这片森林如同蓝黑色的云彩般闪耀。
2.93.9
गिरेः सानूनि रम्याणि चित्रकूटस्य सम्प्रति ।
वारणैरवमृद्यन्ते मामकैः पर्वतोपमैः ॥ २.९३.९ ॥
奇拉库塔山上秀美的山坡,如今正被我那如山般的象群践踏。
2.93.10
मुञ्चन्ति कुसुमान्येते नगाः पर्वतसानुषु ।
नीला इवातपापाये तोयं तोयधरा घनाः ॥ २.९३.१० ॥
山坡上的这些树木纷纷落下花朵,恰如酷暑将尽时,满载雨水的青黑云朵降下甘霖。
2.93.11
किन्नराचरितं देशं पश्य शत्रुघ्न पर्वतम् ।
मृगैः समन्तादाकीर्णं मकरैरिव सागरम् ॥ २.९३.११ ॥
舍怛卢祇那啊,你看这座为紧那罗所居的山地,四面布满鹿群,宛如大海中遍布海兽。
2.93.12
एते मृगगणा भान्ति शीघ्रवेगाः प्रचोदिताः ।
वायुप्रविद्धा शरदि मेघराजिरिवाम्बरे ॥ २.९३.१२ ॥
这些鹿群疾速奔跑,被催逐向前,恰如秋日天空中被风吹送的云层闪耀。
2.93.13
कुर्वन्ति कुसुमापीडान् शिरस्सु सुरभीनमी ।
मेघप्रकाशैः फलकैर्दाक्षिणात्या यथा नराः ॥ २.९३.१३ ॥
他们如南方人一般,头上戴着芬芳的花环,手持如云般明亮的盾牌。
2.93.14
निष्कूजमिव भूत्वेदं वनं घोरप्रदर्शनम् ।
अयोध्येव जनाकीर्णा सम्प्रति प्रतिभाति मा ॥ २.९३.१४ ॥
这片森林如今没有鸟鸣,景象可怖,在我看来却像人群熙攘的阿约提亚。
2.93.15
खुरैरुदीरितो रेणुर्दिवं प्रच्छाद्य तिष्ठति ।
तं वहत्यनिलः शीघ्रं कुर्वन्निव मम प्रियम् ॥ २.९३.१५ ॥
马蹄扬起的尘土遮蔽了天空,停滞不散;风迅速地将它卷走,仿佛在为我做一件称心的事。
2.93.16
स्यन्दनांस्तुरगोपेतान् सूतमुख्यैरधिष्ठितान् ।
एतान् सम्पततः शीघ्रं पश्य शत्रुघ्न कानने ॥ २.९३.१६ ॥
舍睹卢那啊,看这些战车在林中飞速驶来,套着马匹,由上等御者驾驭。
2.93.17
एतान् वित्रासितान् पश्य बर्हिणः प्रियदर्शनान् ।
एतमाविशतः शीघ्रमधिवासं पतत्ऺित्रणः ॥ २.९३.१७ ॥
看这些受惊的孔雀,外形多么美丽;这些飞鸟正迅速飞入这处栖所。
2.93.18
अतिमात्रमयं देशो मनोज्ञः प्रतिभाति मा ।
तापसानां निवासो ऽयं व्यक्तं स्वर्गपथो यथा ॥ २.९३.१८ ॥
这地方在我看来极为宜人;这是苦行者的居所,显然如同通往天堂的道路。
2.93.19
मृगा मृगीभिः सहिता बहवः पृषता वने ।
मनोज्ञरूपा लक्ष्यन्ते कुसुमैरिव चित्रिताः ॥ २.९३.१९ ॥
林中可见许多花斑鹿与母鹿在一起,形貌可爱,仿佛用花朵绘成。
2.93.20
साधुसैन्याः प्रतिष्ठन्तां विचिन्वन्तु च कानने ।
यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ ॥ २.९३.२० ॥
愿众善士出发,在林中搜寻,以便看见那两位人中之雄——罗摩与罗什曼那。
2.93.21
भरतस्य वचः श्रुत्वा पुरुषाः शस्त्रपाणयः ।
विविशुस्तद्वनं शूरा धूमं च ददृशुस्ततः ॥ २.९३.२१ ॥
众勇士闻知婆罗多之言,手持武器进入那片森林,随后看见了烟。
2.93.22
ते समालोक्य धूमाग्रमूचुर्भरतमागताः ।
नामनुष्ये भवत्याग्निर्व्यक्तमत्रैव राघवौ ॥ २.९३.२२ ॥
他们望见烟之顶端,来对婆罗多说:"无人之处不会有火;必定两位罗怙子就在此处。"
2.93.23
अथ नात्र नरव्याघ्रौ राजपुत्रौ परन्तपौ ।
मन्ये रामोपमाः सन्ति व्यक्तमत्र तपस्विनः ॥ २.९३.२३ ॥
如今,那两位人中之虎、焚烧敌人的王子不在此处。我想这里有如罗摩一般的苦行者,这是明显的。
2.93.24
तच्छ्रुत्वा भरतस्तेषां वचनं साधुसम्मतम् ।
सैन्यानुवाच सर्वांस्तानमित्रबलमर्दनः ॥ २.९३.२४ ॥
婆罗多闻其善士所认可之言,便是摧毁敌军之人,对所有士兵说道。
2.93.25
यत्ता भवन्तस्तिष्ठन्तु नेतो गन्तव्यमग्रतः ।
अहमेव गमिष्यामि सुमन्त्रो गुरुरेव च ॥ २.९३.२५ ॥
你们都留在此地待命,不要再往前走。只有我独自前往,还有苏曼特罗与导师同行。
2.93.26
एवमुक्तास्ततः सर्वे तत्र तस्थुः समन्ततः ।
भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधात् ॥ २.९३.२६ ॥
众人听后便都在那里四面站定。婆罗多将目光投向烟尘升起的顶端。
2.93.27
व्यवस्थिता या भरतेन सा चमूर्निरीक्षमाणापि च धूममग्रतः ।
बभूव हृष्टा नचिरेण जानती प्रियस्य रामस्य समागमं तदा ॥ २.९३.२७ ॥
婆罗多所部署的那支军队,望着前方的烟尘,心中欢喜,因为它知道不久便将与心爱的罗摩相见。