Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.94

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.94.1

दीर्घकालोषितस्तस्मिन् गिरौ गिरिवनप्रियः ।
वैदेह्याः प्रियमाकांक्षन् स्वं च चित्तं विलोभयन् ॥ २.९४.१ ॥

他在那座山上住了很久,喜爱山岭与森林,既想让毗提诃(悉多)欢喜,也使自己的心意愉悦。

2.94.2

अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत् ।
भार्य्याममरसङ्काशः शचीमिव पुरन्दरः ॥ २.९४.२ ॥

于是十车王之子(罗摩)向妻子展示了奇妙的奇特山(七耳峰),如同如神的因陀罗向妻子舍遮所展示的一般。

2.94.3

न राज्याद्भ्रंशनं भद्रे न सुहृद्भिर्विनाभवः ।
मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम् ॥ २.९४.३ ॥

善良的人啊,使我心中烦恼的,不是失去王国,也不是与朋友分离,而是看到这座可爱的山。

2.94.4

पश्येममचलं भद्रे नानाद्विजगणायुतम् ।
शिखरैः खमिवोद्विद्धैर्द्धातुमद्भिर्विभूषितम् ॥ २.९४.४ ॥

善良的人啊,看这座巍然不动的山,群鸟成群,矿脉装点,高耸的山峰仿佛触及天空。

2.94.5

केचिद्रजतसङ्काशाः केचित् क्षतजसन्निभाः ।
पीतमाञ्जिष्ठवर्णाश्च केचिन्मणिवरप्रभाः ॥ २.९४.५ ॥

有的如白银,有的如鲜血,有的呈黄色和茜草红,有的闪耀如上等宝石之光。

2.94.6

पुष्पार्ककेतकाभाश्च केचिज्ज्योतीरसप्रभाः ।
विराजन्ते ऽचलेन्द्रस्य देशा धातुविभूषिताः ॥ २.९४.६ ॥

有的如花朵、太阳和ketaka花般光彩,有的带有jyotīrasa的光泽;这山王的诸地被矿脉装点,熠熠生辉。

2.94.7

नानामृगगणद्वीपितरक्ष्वृक्षगणैर्वृतः ।
अदुष्टैर्भात्ययं शैलो बहुपक्षिसमायुतः ॥ २.९४.७ ॥

此山被众多鹿群、豹、鬣狗和熊群环绕,纯净明亮,栖息着众多飞鸟。

2.94.8

आम्रजम्ब्वसनैर्लोध्रैः प्रियालैः पनसैर्धवैः ।
अङ्कोलैर्भव्यतिनिशैर्बिल्वतिन्दुकवेणुभिः ॥ २.९४.८ ॥

此山以芒果、蒲桃、阿娑那、罗陀、普里亚拉、菠萝蜜、达婆、安柯拉、高贵的提尼沙、木橘、钉度迦和竹等树木装点。

2.94.9

काश्मर्यरिष्टवरुणैर्मधूकैस्तिलकैस्तथा ।
बदर्य्यामलकैर्नीपैर्वेत्रधन्वनबीजकैः ॥ २.९४.९ ॥

此山还以迦湿摩利、利瑟吒、伐楼那、摩度迦、帝拉卡、枣树、余甘、尼波、藤、檀婆那和毗遮迦等树木装点。

2.94.10

पुष्पवद्भिः फलोपेतैश्छायावद्भिर्मनोरमैः ।
एवमादिभिराकीर्णः श्रियं पुष्यत्ययं गिरिः ॥ २.९४.१० ॥

此山遍布开花、结果、有荫的迷人树木及其他类似的树木,因美丽而繁盛。

2.94.11

शैलप्रस्थेषु रम्येषु पश्येमान् रोमहर्षणान् ।
किन्नरान् द्वन्द्वशो भद्रे रममाणान् मनस्विनः ॥ २.९४.११ ॥

善良的人啊,看这些令人心惊、志气高昂的紧那罗,成双成对地在山上美丽的高原上嬉戏。

2.94.12

शाखावसक्तान् खङ्गांश्च प्रवराण्यम्बराणि च ।
पश्च विद्याधरस्त्रीणां क्रीडोद्देशान् मनोरमान् ॥ २.९४.१२ ॥

看那挂在枝头的宝剑和精美的衣裳,也看看持明女们迷人的嬉戏之地。

2.94.13

जलप्रपातैरुद्भेदैर्निष्यन्दैश्च क्वचित् क्वचित् ।
स्रवद्भिर्भात्ययं शैलः स्रवन्मद इव द्विपः ॥ २.९४.१३ ॥

这座山以瀑布、涌出的泉水和处处流淌的溪流而闪耀,宛如流淌着发情液的大象。

2.94.14

गुहासमीरणो गन्धान् नानापुष्पभवान् वहन् ।
घ्राणतर्प्पणमभ्येत्य कं नरं न प्रहर्षयेत् ॥ २.९४.१४ ॥

洞穴中吹来的微风,携带着众花的芬芳,令鼻子感到愉悦——哪个人遇到它会不欢喜呢?

2.94.15

यदीह शरदो ऽनेकास्त्वया सार्द्धमनिन्दिते ।
लक्ष्मणेन च वत्स्यामि न मां शोकः प्रधक्ष्यति ॥ २.९४.१५ ॥

无瑕的人啊!如果我与你和罗什曼那在此度过许多个秋天,悲痛便不会焚烧我。

2.94.16

बहुपुष्पफले रम्ये नानाद्विजगणायुते ।
विचित्रशिखरे ह्यस्मिन् रतवानस्मि भामिनि ॥ २.९४.१६ ॥

美丽的女子啊!在这座可爱的山上,花果繁多,群鸟聚集,山峰奇特,我确实感到了欢乐。

2.94.17

अनेन वनवासेन मया प्राप्तं फलद्वयम् ।
पितुश्चानृणता धर्मे भरतस्य प्रियं तथा ॥ २.९४.१७ ॥

通过这次林中流放,我获得了两种果实:依照法义免除了父亲的债务,同样也使婆罗多欢喜。

2.94.18

वैदेहि रमसे कच्चिच्चित्रकूटे मया सह ।
पश्यन्ती विविधान् भावान् मनोवाक्कायसंयतान् ॥ २.९४.१८ ॥

维德黑啊!你是否与我一同在奇特罗库塔山中欢喜,观赏种种景象,意、语、身皆能自制?

2.94.19

इदमेवामृतं प्राहू राज्ञि राजर्षयः परे ।
वनवासं भवार्थाय प्रेत्य मे प्रपितामहाः ॥ २.९४.१९ ॥

古代的王者仙人称此林居为甘露;我的高祖们为身后的福祉而居于林中。

2.94.20

शिलाः शैलस्य शोभन्ते विशालाः शतशो ऽभितः ।
बहुला बहुलैर्वर्णैर्नीलपीतसितारुणैः ॥ २.९४.२० ॥

山上广阔的岩石四面环绕,成百上千,呈现蓝、黄、白、红等多种颜色,光彩夺目。

2.94.21

निशि भान्त्यचलेन्द्रस्य हुताशनशिखा इव ।
ओषध्यः स्वप्रभालक्ष्या भ्राजमानाः सहस्रशः ॥ २.९४.२१ ॥

夜间,山王的草药以自身光辉而被识别,成千上万地闪耀,如同祭火的火焰。

2.94.22

केचित् क्षयनिभा देशाः केचिदुद्यानसन्निभाः ।
केचिदेकशिला भान्ति पर्वतस्यास्य भामिनि ॥ २.९४.२२ ॥

美人啊,此山某些处如同居所,某些如同园林,某些则如一块独石般闪耀。

2.94.23

भित्त्वेव वसुधां भाति चित्रकूटः समुत्थितः ।
चित्रकूटस्य कूटो ऽसौ दृश्यते सर्वतः शुभः ॥ २.९४.२३ ॥

仿佛劈开大地而升起,此为奇特山;奇特山的这一峰从四面看去都十分秀丽。

2.94.24

कुष्ठपुन्नागस्ऺथगरभूर्जपत्रोत्तरच्छदान् ।
कामिनां स्वास्तरान् पश्य कुशेशयदलायुतान् ॥ २.९४.२४ ॥

看那恋人的美好卧榻,上覆木香、鸂鶒花、栀子花与桦树皮,缀以成千上万的莲瓣。

2.94.25

मृदिताश्चापविद्धाश्च दृश्यन्ते कमलस्रजः ।
कामिभिर्वनिते पश्य फलानि विविधानि च ॥ २.९४.२५ ॥

夫人请看,恋人们揉碎抛弃的莲花花环随处可见,还有各种各样的果实。

2.94.26

वस्वौकसारां नलिनीमत्येतीवोत्तरान् कुरून् ।
पर्वतश्चित्रकूटो ऽसौ बहुमूलफलोदकः ॥ २.९४.२६ ॥

这座奇拉古塔山,有水源丰富的莲花池,似乎超过了北方的俱卢之地;这里根茎、果实和水都十分充足。

2.94.27

इमं तु कालं वनिते विजह्रिवांस्त्वया च सीते सह लक्ष्मणेन च ।
रतिं प्रपत्स्ये कुलधर्मवर्द्धनीं सतां पथि स्वैर्नियमैः परैः स्थितः ॥ २.९४.२७ ॥

悉多夫人啊,这段时间我与你和罗什曼那一同嬉游;如今我将坚守善人之道,恪守自己的和最高的誓戒,获得增益家族责任的快乐。