蚁垤《罗摩衍那》 · 篇 3.5
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.5.1
हत्वा तु तं भीमबलं विराधं राक्षसं वने।
ततः सीतां परिष्वज्य समाश्वास्य च वीर्यवान् ॥ ३.५.१ ॥
在森林中杀死了力量可怕的罗刹毗罗陀之后,拥抱并安慰悉多的那位勇武者(罗摩)……
3.5.2
अब्रवीद् भ्रातरं रामो लक्ष्मणं दीप्ततेजसम्।
कष्टं वनमिदं दुर्गं न च स्मो वनगोचराः ॥ ३.५.२ ॥
罗摩对光辉灿烂的弟弟罗什曼那说:“这片森林艰险难行,我们并不习惯在荒野中行走。”
3.5.3
अभिगच्छामहे शीघ्रं शरभङ्गं तपोधनम्।
आश्रमं शरभङ्गस्य राघवोऽभिजगाम ह ॥ ३.५.३ ॥
“我们快去苦行者舍罗盘伽的修行处吧。”于是罗怙之裔果然前往舍罗盘伽的修行处。
3.5.4
तस्य देवप्रभावस्य तपसा भावितात्मनः।
समीपे शरभङ्गस्य ददर्श महदद्भुतम् ॥ ३.५.४ ॥
在具有神力、以苦行净化了自我的舍罗盘伽身边,他看见了一个宏大而奇妙的景象。
3.5.5
विभ्राजमानं वपुषा सूर्यवैश्वानरप्रभम्।
रथप्रवरमारूढमाकाशे विबुधानुगम् ॥ ३.५.५ ॥
身体光辉灿烂,如日如火,乘坐天空中的殊胜车辇,由诸天神随从——他看见了这一位。
3.5.6
असंस्पृशन्तं वसुधां ददर्श विबुधेश्वरम्।
सम्प्रभाभरणं देवं विरजोऽम्बरधारिणम् ॥ ३.५.६ ॥
他看见了不触地面的诸神之主,一位佩戴光辉饰物、身穿洁净衣服的天神。
3.5.7
तद्विधैरेव बहुभिः पूज्यमानं महात्मभिः।
हरितैर्वाजिभिर्युक्तमन्तरिक्षगतं रथम् ॥ ३.५.७ ॥
受到众多同类大德的礼敬,驾着青绿色骏马的战车在天空中行进。
3.5.8
ददर्शादूरतस्तस्य तरुणादित्यसंनिभम्।
पाण्डुराभ्रघनप्रख्यं चन्द्रमण्डलसंनिभम् ॥ ३.५.८ ॥
他从不远处看见了他:如初升的太阳,如洁白浓密的云,如月轮。
3.5.9
अपश्यद् विमलं छत्रं चित्रमाल्योपशोभितम्।
चामरव्यजने चाग्र्ये रुक्मदण्डे महाधने ॥ ३.५.९ ॥
他看见一顶洁净的华盖,饰以彩色花环,还有上好的、金柄的、极其贵重的拂尘与扇子。
3.5.10
गृहीते वरनारीभ्यां धूयमाने च मूर्धनि।
गन्धर्वामरसिद्धाश्च बहवः परमर्षयः ॥ ३.५.१० ॥
两位出众的女子持之,在他头上摇动;还有乾闼婆、天神、悉陀以及众多大仙人在场。
3.5.11
अन्तरिक्षगतं देवं गीर्भिरग्र्या भिरैडयन्।
सह सम्भाषमाणे तु शरभङ्गेन वासवे ॥ ३.५.११ ॥
众人以优美的言辞赞颂在天空中行进的神,而婆薮(因陀罗)正与舍罗婆伽交谈。
3.5.12
दृष्ट्वा शतक्रतुं तत्र रामो लक्ष्मणमब्रवीत्।
रामोऽथ रथमुद्दिश्य भ्रातुर्दर्शयताद्भुतम् ॥ ३.५.१२ ॥
罗摩在那里看见百祭者(因陀罗),便对罗什曼那说;随后,罗摩指着战车,向兄弟展示这奇异的景象。
3.5.13
अर्चिष्मन्तं श्रिया जुष्टमद्भुतं पश्य लक्ष्मण।
प्रतपन्तमिवादित्यमन्तरिक्षगतं रथम् ॥ ३.५.१३ ॥
罗什曼那啊,看那辆辉煌而充满光彩的奇妙战车,在空中行进,如同烈日炽热。
3.5.14
ये हयाः पुरुहूतस्य पुरा शक्रस्य नः श्रुताः।
अन्तरिक्षगता दिव्यास्त इमे हरयो ध्रुवम् ॥ ३.५.१४ ॥
往昔我们听说过的、因陀罗(众所呼唤者)的神马,在空中飞驰——这些无疑正是那些骏马。
3.5.15
इमे च पुरुषव्याघ्र ये तिष्ठन्त्यभितो दिशम्।
शतं शतं कुण्डलिनो युवानः खड्गपाणयः ॥ ३.५.१५ ॥
还有,人中之虎啊,那些四面环立的青年——一百又一百,戴着耳环,手持利剑。
3.5.16
विस्तीर्णविपुलोरस्काः परिघायतबाहवः।
शोणांशुवसनाः सर्वे व्याघ्रा इव दुरासदाः ॥ ३.५.१६ ॥
胸膛宽阔,臂长如铁棍,身穿红衣——个个如猛虎般难以接近。
3.5.17
उरोदेशेषु सर्वेषां हारा ज्वलनसंनिभाः।
रूपं बिभ्रति सौमित्रे पञ्चविंशतिवार्षिकम् ॥ ३.५.१७ ॥
萧弥德罗啊,他们每人胸前都有如烈火般的项链;他们呈现出二十五岁的容貌。
3.5.18
एतद्धि किल देवानां वयो भवति नित्यदा।
यथेमे पुरुषव्याघ्रा दृश्यन्ते प्रियदर्शनाः ॥ ३.५.१८ ॥
诚然,诸神的年岁一向如此;正如这些人中之虎,看上去令人喜悦。
3.5.19
इहैव सह वैदेह्या मुहूर्तं तिष्ठ लक्ष्मण।
यावज्जानाम्यहं व्यक्तं क एष द्युतिमान् रथे ॥ ३.५.१९ ॥
罗什曼那,你与毗提诃在此稍候片刻,待我清楚知道车上这位光辉者是谁。
3.5.20
तमेवमुक्त्वा सौमित्रिमिहैव स्थीयतामिति।
अभिचक्राम काकुत्स्थः शरभङ्गाश्रमं प्रति ॥ ३.५.२० ॥
对苏弥德拉之子说了一句"就留在这里"之后,迦古斯特阁下罗摩便朝舍罗婆伽的修道院走去。
3.5.21
ततः समभिगच्छन्तं प्रेक्ष्य रामं शचीपतिः।
शरभङ्गमनुज्ञाप्य विबुधानिदमब्रवीत् ॥ ३.५.२१ ॥
此时,舍语的夫君因陀罗见罗摩走近,便向舍罗婆伽告辞,并对诸神说了这番话。
3.5.22
इहोपयात्यसौ रामो यावन्मां नाभिभाषते।
निष्ठां नयत तावत् तु ततो माद्रष्टुमर्हति ॥ ३.५.२२ ॥
罗摩如今正朝这里走来。在他与我交谈之前,你们先完成此事;之后他便有资格见我。
3.5.23
जितवन्तं कृतार्थं हि तदाहमचिरादिमम्।
कर्म ह्यनेन कर्तव्यं महदन्यैः सुदुष्करम् ॥ ३.५.२३ ॥
那时我将很快使他获胜、功成,因为这件大事须由他来完成,对他人而言极为艰难。
3.5.24
अथ वज्री तमामन्त्र्य मानयित्वा च तापसम्।
रथेन हययुक्तेन ययौ दिवमरिंदमः ॥ ३.५.२४ ॥
随后,手持金刚杵、能降伏敌人的因陀罗,向那位苦行者告辞并致以敬意,便乘坐驾着骏马的车驾返回天界。
3.5.25
प्रयाते तु सहस्राक्षे राघवः सपरिच्छदः।
अग्निहोत्रमुपासीनं शरभङ्गमुपागमत् ॥ ३.५.२५ ॥
千眼神离去后,罗怙之后罗摩与随从前往正在行火祭的舍罗婆南伽那里。
3.5.26
तस्य पादौ च संगृह्य रामः सीता च लक्ष्मणः।
निषेदुस्तदनुज्ञाता लब्धवासा निमन्त्रिताः ॥ ३.५.२६ ॥
罗摩、悉多与罗什曼那握住他的双足;得到他的许可,获得住处并受到邀请后,他们坐下了。
3.5.27
ततः शक्रोपयानं तु पर्यपृच्छत राघवः।
शरभङ्गश्च तत् सर्वं राघवाय न्यवेदयत् ॥ ३.५.२७ ॥
于是罗怙之后询问因陀罗的来临,舍罗婆南伽将一切禀告罗摩。
3.5.28
मामेष वरदो राम ब्रह्मलोकं निनीषति।
जितमुग्रेण तपसा दुष्प्रापमकृतात्मभिः ॥ ३.५.२८ ॥
罗摩啊,这位施恩者想带我去梵天的世界;我以严酷的苦行赢得了它,这对心未调伏者是难以获得的。
3.5.29
अहं ज्ञात्वा नरव्याघ्र वर्तमानमदूरतः।
ब्रह्मलोकं न गच्छामि त्वामदृष्ट्वा प्रियातिथिम् ॥ ३.५.२९ ॥
人中之虎啊,我知道你就在附近,不见你这位亲爱的客人,我是不会前往梵天之界的。
3.5.30
त्वयाहं पुरुषव्याघ्र धार्मिकेण महात्मना।
समागम्य गमिष्यामि त्रिदिवं चावरं परम् ॥ ३.५.३० ॥
人中之虎啊,与你这位正法而伟大的人相会之后,我将前往天界——无论是上界还是下界。
3.5.31
अक्षया नरशार्दूल जिता लोका मया शुभाः।
ब्राह्म्याश्च नाकपृष्ठ्याश्च प्रतिगृह्णीष्व मामकान् ॥ ३.५.३१ ॥
人中之虎啊,我已赢得梵天与天界那不朽而吉祥的诸世界;请接受我的这些功德。
3.5.32
एवमुक्तो नरव्याघ्रः सर्वशास्त्रविशारदः।
ऋषिणा शरभङ्गेन राघवो वाक्यमब्रवीत् ॥ ३.५.३२ ॥
仙人舍罗婆迦如此说完,通晓诸般经典的人中之虎罗怙子(罗摩)便说了这些话。
3.5.33
अहमेवाहरिष्यामि सर्वाल्ँ लोकान् महामुने।
आवासं त्वहमिच्छामि प्रदिष्टमिह कानने ॥ ३.५.३३ ॥
大仙啊,我自己将获得一切世界;但在这森林中,我愿有一处被指给我的住所。
3.5.34
राघवेणैवमुक्तस्तु शक्रतुल्यबलेन वै।
शरभङ्गो महाप्राज्ञः पुनरेवाब्रवीद् वचः ॥ ३.५.३४ ॥
与因陀罗力量相当的罗怙子如此说完,大智慧的舍罗婆迦又说了这些话。
3.5.35
इह राम महातेजाः सुतीक्ष्णो नाम धार्मिकः।
वसत्यरण्ये नियतः स ते श्रेयो विधास्यति ॥ ३.५.३५ ॥
罗摩啊,此处森林中住着名为苏提克娜的仙人,他光明伟大、崇尚正法、自我克制;他会为你谋求福祉。
3.5.36
सुतीक्ष्णमभिगच्छ त्वं शुचौ देशे तपस्विनम्।
रमणीये वनोद्देशे स ते वासं विधास्यति ॥ ३.५.३६ ॥
你去找那在洁净之地苦修的苦行者苏提克娜;在这片森林的宜人之处,他会为你安排住所。
3.5.37
इमां मन्दाकिनीं राम प्रतिस्रोतामनुव्रज।
नदीं पुष्पोडुपवहां ततस्तत्र गमिष्यसि ॥ ३.५.३७ ॥
罗摩啊,逆着这条曼达吉尼河的流向前行,沿着这条载着花朵与小舟的河流,你便能到达那里。
3.5.38
एष पन्था नरव्याघ्र मुहूर्तं पश्य तात माम्।
यावज्जहामि गात्राणि जीर्णां त्वचमिवोरगः ॥ ३.५.३८ ॥
人中之虎啊,这条路就是。亲爱的,请看我片刻,直到我如蛇蜕去旧皮一般舍弃肢体。
3.5.39
ततोऽग्निं स समाधाय हुत्वा चाज्येन मन्त्रवत् ।
शरभङ्गो महातेजाः प्रविवेश हुताशनम् ॥ ३.५.३९ ॥
于是大光辉的舍罗博伽点燃火焰,依照咒语献上酥油,走入了祭火之中。
3.5.40
तस्य रोमाणि केशांश्च तदा वह्निर्महात्मनः।
जीर्णां त्वचं तदस्थीनि यच्च मांसं च शोणितम् ॥ ३.५.४० ॥
于是火焰焚尽了这位大德者的体毛、发丝、旧皮、骨骼、血肉与鲜血。
3.5.41
स च पावकसंकाशः कुमारः समपद्यत।
उत्थायाग्निचयात् तस्माच्छरभङ्गो व्यरोचत ॥ ३.५.४१ ॥
那如火焰般的少年显现出来;舍罗博伽从那堆火焰中站起,光彩照耀。
3.5.42
स लोकानाहिताग्नीनामृषीणां च महात्मनाम्।
देवानां च व्यतिक्रम्य ब्रह्मलोकं व्यरोहत ॥ ३.५.४२ ॥
他越过持守圣火的仙人之界与大德诸天之界,升入梵天之界。
3.5.43
स पुण्यकर्मा भुवने द्विजर्षभः
पितामहं सानुचरं ददर्श ह।
पितामहश्चापि समीक्ष्य तं द्विजं
ननन्द सुस्वागतमित्युवाच ह ॥ ३.५.४३ ॥
那位功德圆满的最优秀的再生者在世间见到了祖父梵天及其随从。祖父见到那位再生者也很欢喜,说道:"善来!善来!"