蚁垤《罗摩衍那》 · 篇 3.73
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.73.1
दर्शयित्वा तु रामाय सीतायाः परिमार्गणे।
वाक्यमन्वर्थमर्थज्ञः कबन्धः पुनरब्रवीत् ॥ ३.७३.१ ॥
在寻找悉多的过程中为罗摩指明道路后,知晓事理的羯班陀再次说出了有意义的话。
3.73.2
एष राम शिवः पन्था यत्रैते पुष्पिता द्रुमाः।
प्रतीचीं दिशमाश्रित्य प्रकाशन्ते मनोरमाः ॥ ३.७३.२ ॥
罗摩啊,这是吉祥的道路,那里这些开花的树木面向西方,光彩夺目,令人心旷神怡。
3.73.3
जम्बूप्रियालपनसा न्यग्रोधप्लक्षतिन्दुकाः।
अश्वत्थाः कर्णिकाराश्च चूताश्चान्ये च पादपाः ॥ ३.७३.३ ॥
蒲桃、钵罗叉、波罗蜜、尼拘卢陀、鹧鸪木、漆树、菩提树、金色花、芒果以及其他树木。
3.73.4
धन्वना नागवृक्षाश्च तिलका नक्तमालकाः।
नीलाशोकाः कदम्बाश्च करवीराश्च पुष्पिताः ॥ ३.७३.४ ॥
檀那婆树、那伽树、提罗迦树、夜摩罗树、青无忧树、剑花树与夹竹桃,皆已开花。
3.73.5
अग्निमुख्या अशोकाश्च सुरक्ताः पारिभद्रकाः।
तानारुह्याथवा भूमौ पातयित्वा च तान् बलात् ॥ ३.७३.५ ॥
火口树、无忧树与深红的波利跋陀罗树——或攀登其上,或强行将其拉倒于地。
3.73.6
फलान्यमृतकल्पानि भक्षयित्वा गमिष्यथः।
तदतिक्रम्य काकुत्स्थ वनं पुष्पितपादपम् ॥ ३.७३.६ ॥
你们二人食用如甘露般的果实之后将前行;啊,甘蔗王族之后,穿过那片开满花的树林。
3.73.7
नन्दनप्रतिमं चान्यत् कुरवस्तूत्तरा इव।
सर्वकालफला यत्र पादपा मधुरस्रवाः ॥ ३.७३.७ ॥
另有一林,如同难陀园,又如北俱卢洲;那里的树木四时结果,甘蜜滴落。
3.73.8
सर्वे च ऋतवस्तत्र वने चैत्ररथे यथा।
फलभारनतास्तत्र महाविटपधारिणः ॥ ३.७३.८ ॥
那里如同众车林,四季俱全;树木因果实之重而低垂,枝干粗大。
3.73.9
शोभन्ते सर्वतस्तत्र मेघपर्वतसंनिभाः।
तानारुह्याथवा भूमौ पातयित्वाथवा सुखम् ॥ ३.७३.९ ॥
那里四面皆有,如云如山闪耀;攀登其上,或使其落地,便可安然取其果实。
3.73.10
फलान्यमृतकल्पानि लक्ष्मणस्ते प्रदास्यति।
चङ्क्रमन्तौ वरान् शैलान् शैलाच्छैलं वनाद् वनम् ॥ ३.७३.१० ॥
罗什曼那将为你采来如甘露般的果实。你们二人将在优越的山间漫游,从一山到另一山,从一林到另一林。
3.73.11
ततः पुष्करिणीं वीरौ पम्पां नाम गमिष्यथः।
अशर्करामविभ्रंशां समतीर्थामशैवलाम् ॥ ३.७३.११ ॥
然后,两位英雄,你们将前往名为般波的湖泊。
3.73.12
राम संजातवालूकां कमलोत्पलशोभिताम्।
तत्र हंसाः प्लवाः क्रौञ्चाः कुरराश्चैव राघव ॥ ३.७३.१२ ॥
那里有一湖,无碎石,岸边坚实,水口平坦,无苔藓,沙土铺展,装饰着莲花与睡莲。那里也有天鹅、水鸟、鹤和鹗,罗怙王子啊。
3.73.13
वल्गुस्वरा निकूजन्ति पम्पासलिलगोचराः।
नोद्विजन्ते नरान् दृष्ट्वा वधस्याकोविदाः शुभाः ॥ ३.७३.१३ ॥
栖息在般波河水中的甜美嗓音的鸟儿在鸣叫。它们不知杀戮为何物,见到人也不惊慌,它们是吉祥的生灵。
3.73.14
घृतपिण्डोपमान् स्थूलांस्तान् द्विजान् भक्षयिष्यथः।
रोहितान् वक्रतुण्डांश्च नलमीनांश्च राघव ॥ ३.७३.१४ ॥
啊,罗怙婆,你将吃掉那些肥如酥油团的鸟,以及弯嘴的罗希多鱼和那罗鱼。
3.73.15
पम्पायामिषुभिर्मत्स्यांस्तत्र राम वरान् हतान्।
निस्त्वक्पक्षानयस्तप्तानकृशानैककण्टकान् ॥ ३.७३.१५ ॥
啊,罗摩,你将在般波河中用箭射杀那些上好的鱼;剥去它们的皮与鳍,像烧红的铁一样烤熟,你将吃掉那些肥壮的单刺鱼。
3.73.16
तव भक्त्या समायुक्तो लक्ष्मणः सम्प्रदास्यति।
भृशं तान् खादतो मत्स्यान् पम्पायाः पुष्पसंचये ॥ ३.७३.१६ ॥
怀着对你的虔诚,罗什曼那将把它们奉献给你;而你在般波河采花时,将大量食用那些鱼。
3.73.17
पद्मगन्धि शिवं वारि सुखशीतमनामयम्।
उद्धृत्य स तदाक्लिष्टं रूप्यस्फटिकसंनिभम् ॥ ३.७३.१७ ॥
他将汲取带着莲花香气的水:纯净、清凉宜人、无害健康,清澈如银与水晶。
3.73.18
अथ पुष्करपर्णेन लक्ष्मणः पाययिष्यति।
स्थूलान् गिरिगुहाशय्यान् वानरान् वनचारिणः ॥ ३.७३.१८ ॥
随后,罗什曼那将用荷叶给那些肥壮、睡在山洞里、在林中游荡的猴子们饮水。
3.73.19
सायाह्ने विचरन् राम दर्शयिष्यति लक्ष्मणः।
अपां लोभादुपावृत्तान् वृषभानिव नर्दतः ॥ ३.७३.१९ ॥
罗摩啊,傍晚漫游时,罗什曼那会向你展示那些因渴望水而靠近、像吼叫的公牛一样的猴子。
3.73.20
स्थूलान् पीतांश्च पम्पायां द्रक्ष्यसि त्वं नरोत्तम।
सायाह्ने विचरन् राम विटपी माल्यधारिणः ॥ ३.७३.२० ॥
人中之最的罗摩啊,你将在般波湖看到饮水的粗壮猴子;那些住在树上、傍晚漫游、佩戴花环的猴子。
3.73.21
शिवोदकं च पम्पायां दृष्ट्वा शोकं विहास्यसि।
सुमनोभिश्चितास्तत्र तिलका नक्तमालकाः ॥ ३.७३.२१ ॥
看到般波湖的吉祥之水,你将舍弃忧愁;那里有饰满花朵的提拉卡树和夜摩罗树。
3.73.22
उत्पलानि च फुल्लानि पङ्कजानि च राघव।
न तानि कश्चिन्माल्यानि तत्रारोपयिता नरः ॥ ३.७३.२२ ॥
罗怙之后啊,那里有盛开的青莲与红莲;那里没有人把那些花环戴上。
3.73.23
न च वै म्लानतां यान्ति न च शीर्यन्ति राघव।
मतङ्गशिष्यास्तत्रासन्नृषयः सुसमाहिताः ॥ ३.७३.२३ ॥
罗怙之后啊,它们既不枯萎,也不凋落;那里曾住着摩多伽的弟子们,都是极为专注的仙人。
3.73.24
तेषां भाराभितप्तानां वन्यमाहरतां गुरोः।
ये प्रपेतुर्महीं तूर्णं शरीरात् स्वेदबिन्दवः ॥ ३.७३.२४ ॥
那些为老师背负林中之物、被重担折磨的人,身上的汗珠迅速落到了地上。
3.73.25
तानि माल्यानि जातानि मुनीनां तपसा तदा।
स्वेदबिन्दुसमुत्थानि न विनश्यन्ति राघव ॥ ३.७३.२५ ॥
罗乡之子啊,那时因众仙人苦行之力而生、由汗珠所生的花环,并不会消亡。
3.73.26
तेषां गतानामद्यापि दृश्यते परिचारिणी।
श्रमणी शबरी नाम काकुत्स्थ चिरजीविनी ॥ ३.७३.२६ ॥
那些已离去的仙人,其侍女名叫沙波利的苦行女,至今仍可见到;迦古室利啊,她长寿不老。
3.73.27
त्वां तु धर्मे स्थिता नित्यं सर्वभूतनमस्कृतम्।
दृष्ट्वा देवोपमं राम स्वर्गलोकं गमिष्यति ॥ ३.७३.२७ ॥
然而,她见到你——罗摩啊,你常住于法,受一切众生礼敬,如同天神——便将前往天界。
3.73.28
ततस्तद्राम पम्पायास्तीरमाश्रित्य पश्चिमम्।
आश्रमस्थानमतुलं गुह्यं काकुत्स्थ पश्यसि ॥ ३.७३.२८ ॥
之后,罗摩啊,你沿着般波河的西岸前行,迦古室利啊,你将看见那无与伦比、隐秘的修行地。
3.73.29
न तत्राक्रमितुं नागाः शक्नुवन्ति तदाश्रमे।
ऋषेस्तस्य मतङ्गस्य विधानात् तच्च काननम् ॥ ३.७३.२९ ॥
在那隐修处,连象群也无法闯入;依照那位仙人摩当伽的规定,那片森林也因此受到守护。
3.73.30
मतङ्गवनमित्येव विश्रुतं रघुनन्दन।
तस्मिन् नन्दनसंकाशे देवारण्योपमे वने ॥ ३.७३.३० ॥
罗怙之喜悦者啊,它以“摩当伽林”之名闻名;在那片如同难陀园、与天界林苑相似的森林中。
3.73.31
नानाविहगसंकीर्णे रंस्यसे राम निर्वृतः।
ऋष्यमूकस्तु पम्पायाः पुरस्तात् पुष्पितद्रुमः ॥ ३.७३.३१ ॥
啊,罗摩!你将在那充满各种飞鸟的森林中安然欢娱。在般波湖之前有鲁希耶穆卡山,山上树木繁花盛开。
3.73.32
सुदुःखारोहणश्चैव शिशुनागाभिरक्षितः।
उदारो ब्रह्मणा चैव पूर्वकालेऽभिनिर्मितः ॥ ३.७३.३२ ॥
那座山极难攀登,由小象守护着。古时梵天将它造得格外壮丽。
3.73.33
शयानः पुरुषो राम तस्य शैलस्य मूर्धनि।
यत् स्वप्नं लभते वित्तं तत् प्रबुद्धोऽधिगच्छति ॥ ३.७३.३३ ॥
啊,罗摩!在那座山顶入睡的人,梦中所得的财富,醒来后便真正获得。
3.73.34
यस्त्वेनं विषमाचारः पापकर्माधिरोहति।
तत्रैव प्रहरन्त्येनं सुप्तमादाय राक्षसाः ॥ ३.७३.३४ ॥
然而行为邪恶、作恶多端的人若登上那座山,便会在睡眠中被罗刹抓住并殴打。
3.73.35
तत्रापि शिशुनागानामाक्रन्दः श्रूयते महान्।
क्रीडतां राम पम्पायां मतङ्गाश्रमवासिनाम् ॥ ३.७३.३५ ॥
啊,罗摩!那里还能听到摩坦伽修行处居民的小象在般波湖中嬉戏时的高声嘶鸣。
3.73.36
सक्ता रुधिरधाराभिः संहत्य परमद्विपाः।
प्रचरन्ति पृथक्कीर्णा मेघवर्णास्तरस्विनः ॥ ३.७३.३६ ॥
那些强壮迅猛、如云般颜色的大象,被血流浸染,时而聚集、时而散开地四处游荡。
3.73.37
ते तत्र पीत्वा पानीयं विमलं चारु शोभनम्।
अत्यन्तसुखसंस्पर्शं सर्वगन्धसमन्वितम् ॥ ३.७३.३७ ॥
他们在那里饮用了清澈、美妙、宜人的水,其触感极为舒适,且具备各种芬芳。
3.73.38
निर्वृत्ताः संविगाहन्ते वनानि वनगोचराः।
ऋक्षांश्च द्वीपिनश्चैव नीलकोमलकप्रभान् ॥ ३.७३.३८ ॥
饮水后得以满足的林中生灵深入森林,熊与豹也在其中,它们闪耀着青色与柔软的毛色光泽。
3.73.39
रुरूनपेतानजयान् दृष्ट्वा शोकं प्रहास्यसि।
राम तस्य तु शैलस्य महती शोभते गुहा ॥ ३.७३.३९ ॥
看见茹茹鹿与山羊,你便会舍弃忧伤,罗摩;那座山的大洞穴闪耀着极其美丽的光彩。
3.73.41
शिलापिधाना काकुत्स्थ दुःखं चास्याः प्रवेशनम्।
तस्या गुहायाः प्राग्द्वारे महान् शीतोदको ह्रदः॥॥ ४०
बहुमूलफलो रम्यो नानानगसमाकुलः।
तस्यां वसति धर्मात्मा सुग्रीवः सह वानरैः ॥ ३.७३.४१ ॥
啊,迦恭斯塔,它的入口被岩石封住,进入颇为艰难。在那洞穴的东门前,有一片寒冷的大池塘,盛产根茎与果实,景致怡人,树木繁多;正法之心的须羯哩婆便与猴众住在那里。
3.73.42
कदाचिच्छिखरे तस्य पर्वतस्यापि तिष्ठति।
कबन्धस्त्वनुशास्यैवं तावुभौ रामलक्ष्मणौ ॥ ३.७३.४२ ॥
有时,羯班陀也站在那座山的山峰上。如此指点之后,羯班陀让罗摩与罗什曼那二人上路。
3.73.43
स्रग्वी भास्करवर्णाभः खे व्यरोचत वीर्यवान्।
तं तु खस्थं महाभागं तावुभौ रामलक्ष्मणौ ॥ ३.७३.४३ ॥
他佩戴花环,闪耀着如太阳般的光辉,这位威武之人在天空中熠熠生辉。罗摩与罗什曼那二人都看见了那位立于空中的大福之人。
3.73.44
प्रस्थितौ त्वं व्रजस्वेति वाक्यमूचतुरन्तिके।
गम्यतां कार्यसिद्ध्यर्थमिति तावब्रवीत् स च ॥ ३.७३.४४ ॥
近旁的二人说:"你去吧,启程吧。"他也对他们二人说:"为完成使命而去吧。"
3.73.45
सुप्रीतौ तावनुज्ञाप्य कबन्धः प्रस्थितस्तदा ॥ ३.७३.४५ ॥
他对二人非常满意,向他们告别后,卡班达便随即启程了。
3.73.46
स तत् कबन्धः प्रतिपद्य रूपं
वृतः श्रिया भास्वरसर्वदेहः।
निदर्शयन् राममवेक्ष्य खस्थः
सख्यं कुरुष्वेति तदाभ्युवाच ॥ ३.७३.४६ ॥
他恢复了原来的形貌,周身光辉耀眼,立于空中注视着罗摩,随即对他说:"与我结为朋友吧。"