Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 4.44

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.44.1

विशेषेण तु सुग्रीवो हनूमत्यर्थमुक्तवान्।
स हि तस्मिन् हरिश्रेष्ठे निश्चितार्थोऽर्थसाधने ॥ ४.४४.१ ॥

须羯罗特别向哈奴曼谈起此事,因为这位猴中之最对完成使命有坚定的决心。

4.44.2

अब्रवीच्च हनूमन्तं विक्रान्तमनिलात्मजम्।
सुग्रीवः परमप्रीतः प्रभुः सर्ववनौकसाम् ॥ ४.४४.२ ॥

须羯罗是所有林中居民的主君,他十分欢喜,对勇猛的风之子哈奴曼说道。

4.44.3

न भूमौ नान्तरिक्षे वा नाम्बरे नामरालये।
नाप्सु वा गतिसङ्गं ते पश्यामि हरिपुंगव ॥ ४.४४.३ ॥

猴中之最啊,我看不到你的行动在大地、天空、虚空、天界或水中有任何阻碍。

4.44.4

सासुराः सहगन्धर्वाः सनागनरदेवताः।
विदिताः सर्वलोकास्ते ससागरधराधराः ॥ ४.४४.४ ॥

阿修罗、乾闼婆、龙、人与天神,连同大海与承载山岳的大地,所有世界都为你所知。

4.44.5

गतिर्वेगश्च तेजश्च लाघवं च महाकपे।
पितुस्ते सदृशं वीर मारुतस्य महौजसः ॥ ४.४४.५ ॥

你的速度、力量、光辉与敏捷,大猴英雄啊,与你的父亲、大力的风神摩录多相等。

4.44.6

तेजसा वापि ते भूतं न समं भुवि विद्यते।
तद् यथा लभ्यते सीता तत्त्वमेवानुचिन्तय ॥ ४.४४.६ ॥

大地上没有任何生灵能与你的光辉相比。因此,你自己好好想想如何才能找到悉多。

4.44.7

त्वय्येव हनुमन्नस्ति बलं बुद्धिः पराक्रमः।
देशकालानुवृत्तिश्च नयश्च नयपण्डित ॥ ४.४४.७ ॥

哈奴曼啊,力量、智慧、勇猛、随时应地的行事,以及善于谋略,唯你一人具备,精通谋略者啊。

4.44.8

ततः कार्यसमासङ्गमवगम्य हनूमति।
विदित्वा हनुमन्तं च चिन्तयामास राघवः ॥ ४.४४.८ ॥

于是,罗怙之后(罗摩)看出哈奴曼堪当此任,又深知哈奴曼,便沉思起来。

4.44.9

सर्वथा निश्चितार्थोऽयं हनूमति हरीश्वरः।
निश्चितार्थतरश्चापि हनूमान् कार्यसाधने ॥ ४.४४.९ ॥

猴王在各方面都确信此事寄托于哈奴曼;而哈奴曼在完成使命上更加坚定。

4.44.10

तदेवं प्रस्थितस्यास्य परिज्ञातस्य कर्मभिः।
भर्त्रा परिगृहीतस्य ध्रुवः कार्यफलोदयः ॥ ४.४४.१० ॥

如此,此人既已出发,以其功绩为人所知,又为主上所接纳,其事之果必定成就。

4.44.11

तं समीक्ष्य महातेजा व्यवसायोत्तरं हरिम्।
कृतार्थ इव संहृष्टः प्रहृष्टेन्द्रियमानसः ॥ ४.४४.११ ॥

他见这猴子决心超群,大光明者喜不自胜,仿佛大功已成,耳目心神俱悦。

4.44.12

ददौ तस्य ततः प्रीतः स्वनामाङ्कोपशोभितम्।
अङ्गुलीयमभिज्ञानं राजपुत्र्याः परंतपः ॥ ४.४४.१२ ॥

于是,喜悦的敌人克星将刻有自己名字、饰以纹样的戒指交给他,此乃王女的信物。

4.44.13

अनेन त्वां हरिश्रेष्ठ चिह्नेन जनकात्मजा।
मत्सकाशादनुप्राप्तमनुद्विग्नानुपश्यति ॥ ४.४४.१३ ॥

猴中最优者啊!凭此信物,遮那伽之女知你是从我这里来的,便会无忧地看着你。

4.44.14

व्यवसायश्च ते वीर सत्त्वयुक्तश्च विक्रमः।
सुग्रीवस्य च संदेशः सिद्धिं कथयतीव मे ॥ ४.४४.१४ ॥

英雄啊!你的决心、你充满勇力的威武,以及须羯哩婆的话语,仿佛都在向我宣告成功。

4.44.15

स तद् गृह्य हरिश्रेष्ठः कृत्वा मूर्ध्नि कृताञ्जलिः।
वन्दित्वा चरणौ चैव प्रस्थितः प्लवगर्षभः ॥ ४.४४.१५ ॥

猴中最优者接过它,合掌置于头顶,向足下礼拜后起身出发——猴群中的雄牛。

4.44.16

स तत् प्रकर्षन् हरिणां महद् बलं
बभूव वीरः पवनात्मजः कपिः।
गताम्बुदे व्योम्नि विशुद्धमण्डलः
शशीव नक्षत्रगणोपशोभितः ॥ ४.४४.१६ ॥

那位英雄,风之子猿猴,振奋了猴群的大军,光辉如同无云天空中圆盘洁净的月亮,被众星环绕而更加耀眼。

4.44.17

अतिबल बलमाश्रितस्तवाहं
हरिवर विक्रम विक्रमैरनल्पैः।
पवनसुत यथाधिगम्यते सा
जनकसुता हनुमंस्तथा कुरुष्व ॥ ४.४४.१७ ॥

至强者啊!我依赖你的力量。猴中最优者,勇猛者啊!凭借你伟大的勇武,风之子哈努曼啊,去行动吧,使遮那伽之女得以寻得。