ヴァールミーキのラーマーヤナ · サルガ 5.33
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
5.33.1
सोऽवतीर्य द्रुमात् तस्माद् विद्रुमप्रतिमाननः।
विनीतवेषः कृपणः प्रणिपत्योपसृत्य च ॥ ५.३३.१ ॥
その木から降り、珊瑚のような顔をして、謙虚な装いで、へりくだって礼拝し近づいた。
5.33.2
तामब्रवीन्महातेजा हनूमान् मारुतात्मजः।
शिरस्यञ्जलिमाधाय सीतां मधुरया गिरा ॥ ५.३३.२ ॥
偉大な光輝を持つ風の子ハヌマーンは、合掌を頭に置き、甘い言葉でシータに語りかけた。
5.33.3
का नु पद्मपलाशाक्षि क्लिष्टकौशेयवासिनि।
द्रुमस्य शाखामालम्ब्य तिष्ठसि त्वमनिन्दिते ॥ ५.३३.३ ॥
蓮の花びらのような目をした方、すり切れた絹をまとい、非難されることのない方よ、木の枝にすがって立っているあなたは誰ですか。
5.33.4
किमर्थं तव नेत्राभ्यां वारि स्रवति शोकजम्।
पुण्डरीकपलाशाभ्यां विप्रकीर्णमिवोदकम् ॥ ५.३३.४ ॥
あなたの両目から悲しみによって生じた水が、蓮の花びらから散った水のように流れるのはなぜですか。
5.33.5
सुराणामसुराणां च नागगन्धर्वरक्षसाम्।
यक्षाणां किंनराणां च का त्वं भवसि शोभने ॥ ५.३३.५ ॥
輝ける方よ、神々、阿修羅、龍、ガンダルヴァ、羅刹、ヤクシャ、キンナラのうち、あなたは誰ですか。
5.33.6
का त्वं भवसि रुद्राणां मरुतां वा वरानने।
वसूनां वा वरारोहे देवता प्रतिभासि मे ॥ ५.३३.६ ॥
美しい顔の方よ、ルドラ、マルト、ヴァスのうち、あなたは誰ですか。美しい腰の方よ、あなたは私には女神のように見えます。
5.33.7
किं नु चन्द्रमसा हीना पतिता विबुधालयात्।
रोहिणी ज्योतिषां श्रेष्ठा श्रेष्ठा सर्वगुणाधिका ॥ ५.३३.७ ॥
あなたは月から離れ、神々の住処から落ちた、星々の中で最も優れ、あらゆる徳に勝るローヒニーなのか?
5.33.8
कोपाद् वा यदि वा मोहाद् भर्तारमसितेक्षणे।
वसिष्ठं कोपयित्वा त्वं वासि कल्याण्यरुन्धती ॥ ५.३३.८ ॥
黒い瞳の方よ、怒りか迷いから夫かヴァシシュタを怒らせ、あなたはアルンダティーなのか、吉祥な方よ?
5.33.9
को नु पुत्रः पिता भ्राता भर्ता वा ते सुमध्यमे।
अस्माल्लोकादमुं लोकं गतं त्वमनुशोचसि ॥ ५.३३.९ ॥
細い腰の方よ、この世から彼の世へ去った、あなたの息子、父、兄弟、夫は誰で、その人のためにあなたは嘆くのか?
5.33.10
रोदनादतिनिःश्वासाद् भूमिसंस्पर्शनादपि।
न त्वां देवीमहं मन्ये राज्ञः संज्ञावधारणात् ॥ ५.३३.१० ॥
泣くことや深いため息、あるいは地に伏すことによっても、私はあなたを王妃だとは思わない。王の印によって確かめることができないからだ。
5.33.11
व्यञ्जनानि हि ते यानि लक्षणानि च लक्षये।
महिषी भूमिपालस्य राजकन्या च मे मता ॥ ५.३३.११ ॥
私があなたに見る身体の印と特徴は、あなたが大地の王の第一王妃であり、王女であることを示している。
5.33.12
रावणेन जनस्थानाद् बलात् प्रमथिता यदि।
सीता त्वमसि भद्रं ते तन्ममाचक्ष्व पृच्छतः ॥ ५.३३.१२ ॥
もしあなたが、ラーヴァナによってジャナスタナから力ずくで連れ去られたシーターであるなら、あなたに幸いあれ。尋ねる私に、それを正直に告げてください。
5.33.13
यथा हि तव वै दैन्यं रूपं चाप्यतिमानुषम्।
तपसा चान्वितो वेषस्त्वं राममहिषी ध्रुवम् ॥ ५.३३.१३ ॥
あなたの困窮、人間離れした姿、苦行をまとった装いを見れば、あなたは確かにラーマの第一王妃でしょう。
5.33.14
सा तस्य वचनं श्रुत्वा रामकीर्तनहर्षिता।
उवाच वाक्यं वैदेही हनूमन्तं द्रुमाश्रितम् ॥ ५.३३.१४ ॥
彼の言葉を聞き、ラーマの名を聞いて喜んだヴァイデーヒーは、木に座すハヌマーンにこう言った。
5.33.15
पृथिव्यां राजसिंहानां मुख्यस्य विदितात्मनः।
स्नुषा दशरथस्याहं शत्रुसैन्यप्रणाशिनः ॥ ५.३३.१५ ॥
私は地上の獅子のような王たちの中で第一人者であり、自らを知り、敵軍を滅ぼすダśaratha王の嫁です。
5.33.16
दुहिता जनकस्याहं वैदेहस्य महात्मनः।
सीतेति नाम्ना चोक्ताहं भार्या रामस्य धीमतः ॥ ५.३३.१६ ॥
私は偉大な魂を持つヴィデーハの王ジャナカの娘で、シーターと呼ばれ、賢明なラーマの妻です。
5.33.17
समा द्वादश तत्राहं राघवस्य निवेशने।
भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी ॥ ५.३३.१७ ॥
そこでラーガヴァの館にて、十二年間、人の世の喜びを味わい、望むすべてに満たされていました。
5.33.18
ततस्त्रयोदशे वर्षे राज्ये चेक्ष्वाकुनन्दनम्।
अभिषेचयितुं राजा सोपाध्यायः प्रचक्रमे ॥ ५.३३.१८ ॥
その後十三年目に、王は師と共に、イクシュヴァーク族の喜びであるラーマを王位に就けるための灌頂を始めました。
5.33.19
तस्मिन् सम्भ्रियमाणे तु राघवस्याभिषेचने।
कैकेयी नाम भर्तारमिदं वचनमब्रवीत् ॥ ५.३३.१९ ॥
ラーガヴァの即位式の準備が進んでいたとき、カイケーyī(Kaikeyī)という名の王妃が夫にこう言った。
5.33.20
न पिबेयं न खादेयं प्रत्यहं मम भोजनम्।
एष मे जीवितस्यान्तो रामो यद्यभिषिच्यते ॥ ५.३३.२० ॥
もしラーマが即位されるなら、私は毎日水も食べ物も口にしません。それが私の命の終わりとなるでしょう。
5.33.21
यत् तदुक्तं त्वया वाक्यं प्रीत्या नृपतिसत्तम।
तच्चेन्न वितथं कार्यं वनं गच्छतु राघवः ॥ ५.३३.२१ ॥
王の中の最良の方よ、あなたが愛情をもって与えられた言葉を空しくしないのであれば、ラーガヴァを森へ行かせてください。
5.33.22
स राजा सत्यवाग् देव्या वरदानमनुस्मरन्।
मुमोह वचनं श्रुत्वा कैकेय्याः क्रूरमप्रियम् ॥ ५.३३.२२ ॥
真実を語るその王は、王妃に与えた恩恵を思い起こしつつ、カイケーyīの残酷で不快な言葉を聞いて茫然となった。
5.33.23
ततस्तं स्थविरो राजा सत्यधर्मे व्यवस्थितः।
ज्येष्ठं यशस्विनं पुत्रं रुदन् राज्यमयाचत ॥ ५.३३.२३ ॥
真実の法に堅く立つその老王は、泣きながら名高い長子に王国を懇願した。
5.33.24
स पितुर्वचनं श्रीमानभिषेकात् परं प्रियम्।
मनसा पूर्वमासाद्य वाचा प्रतिगृहीतवान् ॥ ५.३३.२४ ॥
その栄光あるラーマは、即位よりも大切な父の言葉を、まず心に受け入れ、そして言葉によっても承諾した。
5.33.25
दद्यान्न प्रतिगृह्णीयात् सत्यं ब्रूयान्न चानृतम्।
अपि जीवितहेतोर्हि रामः सत्यपराक्रमः ॥ ५.३३.२५ ॥
彼は与えても受け取らず、真実を語っても偽りは語らない。命のためであってもラーマは真実の武勇の人である。
5.33.26
स विहायोत्तरीयाणि महार्हाणि महायशाः।
विसृज्य मनसा राज्यं जनन्यै मां समादिशत् ॥ ५.३३.२६ ॥
その大いなる名声の人は貴重な上衣を脱ぎ捨て、心の中で王国を捨て、私を母に託した。
5.33.27
साहं तस्याग्रतस्तूर्णं प्रस्थिता वनचारिणी।
नहि मे तेन हीनाया वासः स्वर्गेऽपि रोचते ॥ ५.३३.२७ ॥
そこで私は森をさすらう身として、急いで彼の前に進んだ。彼を失っては、天に住むことさえ私の心には喜ばしくない。
5.33.28
प्रागेव तु महाभागः सौमित्रिर्मित्रनन्दनः।
पूर्वजस्यानुयात्रार्थे कुशचीरैरलंकृतः ॥ ५.३३.२८ ॥
それより前に、非常に幸運なサウミトリ、友の喜びである彼は、兄に付き従うためクシャ草と樹皮の衣で身を飾っていた。
5.33.29
ते वयं भर्तुरादेशं बहुमान्य दृढव्रताः।
प्रविष्टाः स्म पुरादृष्टं वनं गम्भीरदर्शनम् ॥ ५.३३.२९ ॥
我々は誓いを堅く守り、夫の命を深く敬って、以前に見たことのない荘厳な姿の森へと入った。
5.33.30
वसतो दण्डकारण्ये तस्याहममितौजसः।
रक्षसापहृता भार्या रावणेन दुरात्मना ॥ ५.३३.३० ॥
ダンダカの森に住んでいた時、無限の力を持つ彼の妻である私は、邪悪な心の羅刹ラーヴァナに連れ去られた。
5.33.31
द्वौ मासौ तेन मे कालो जीवितानुग्रहः कृतः।
ऊर्ध्वं द्वाभ्यां तु मासाभ्यां ततस्त्यक्ष्यामि जीवितम् ॥ ५.३३.३१ ॥
彼は私の命に情けをかけ、二か月の猶予を与えた。その二か月ののち、私は命を捨てよう。