蚁垤《罗摩衍那》 · 篇 7.68
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
7.68.1
कथां कथयतां तेषां जयं चाकाङ्क्षतां शुभम् ।
व्यतीता रजनी शीघ्रं शत्रुघ्नस्य महात्मनः ॥ ७.६८.१ ॥
他们讲述故事并期待吉祥的胜利,大德的舍睹如那夜很快便过去了。
7.68.2
ततः प्रभाते विमले तस्मिन्काले स राक्षसः ।
निर्गतस्तु पुराद्धीरो भक्ष्याहारप्रचोदितः ॥ ७.६८.२ ॥
then 那清晨,被食欲驱使的那位坚毅罗刹走出了城外。
7.68.3
एतस्मिन्नन्तरे वीरः शत्रुघ्नो यमुनां नदीम् ।
तीर्त्वा मधुपुरद्वारि धनुष्पाणिरतिष्ठत ॥ ७.६८.३ ॥
此时,英雄舍睹如渡过亚穆纳河,手持弓箭立于摩度补罗城门前。
7.68.4
ततो ऽर्धदिवसे प्राप्ते क्रूरकर्मा स राक्षसः ।
आगच्छद्बहुसाहस्रं प्राणिनां भारमुद्वहन् ॥ ७.६८.४ ॥
then 到了正午,那凶残的罗刹背负着数以千计生灵的重担而来。
7.68.5
ततो ददर्श शत्रुघ्नं स्थितं द्वारि धृतायुधम् ।
तमुवाच ततो रक्षः किमनेन करिष्यसि ॥ ७.६८.५ ॥
于是罗刹看见舍睹如持械立于门前,便对他说:“你将用这些做什么?”
7.68.6
ईदृशानां सहस्राणि सायुधानां नराधम ।
भक्षितानि मया रोषात्कालमाकाङ्क्षसे नु किम् ॥ ७.६८.६ ॥
卑贱的人啊!像这样持械的成千上万人,我已在愤怒中吞食了。你是想求死吗?
7.68.7
आहारश्चास्य सम्पूर्णो ममायं पुरुषाधम ।
स्वयं प्रविष्टो ऽद्य मुखं कथमासाद्य दुर्मते ॥ ७.६८.७ ॥
卑劣之人啊,此人已成为我完整的食物。恶念之人,你今日怎会亲自走进我的口中?
7.68.8
तस्यैवं भाषमाणस्य हसतश्च मुहुर्मुहुः ।
शत्रुघ्नो वीर्यसम्पन्नो रोषादश्रूण्यवासृजत् ॥ ७.६८.८ ॥
当他如此说话、反复大笑时,具有勇力的舍睹卢那因愤怒而落泪。
7.68.9
तस्य रोषाभिभूतस्य शत्रुघ्नस्य महात्मनः ।
तेजोमया मरीच्यस्तु सर्वगात्रैर्विनिष्पतन् ॥ ७.६८.९ ॥
被愤怒所控制的大德舍睹卢那,全身各处射出由光辉构成的光芒。
7.68.10
उवाच च सुसङ्क्रुद्धः शत्रुघ्नस्तं निशाचरम् ।
योद्धुमिच्छामि दुर्बुद्धे द्वन्द्वयुद्धं त्वया सह ॥ ७.६८.१० ॥
舍睹卢那极为愤怒,对那夜行者说:愚蠢之人,我想与你进行单独决斗。
7.68.11
पुत्रो दशरथस्याहं भ्राता रामस्य धीमतः ।
शत्रुघ्नो नित्यशत्रुघ्नो वधाकाङ्क्षी तवागतः ॥ ७.६८.११ ॥
我是舍睹卢那,十车王之子,智者罗摩之弟,永远的敌人毁灭者;我怀着杀你的意愿而来。
7.68.12
तस्य मे युद्धकामस्य द्वन्द्वयुद्धं प्रदीयताम् ।
शत्रुस्त्वं सर्वभूतानां न मे जीवन्गमिष्यसि ॥ ७.६८.१२ ॥
请给我单独决斗的机会,我渴望战斗。你是一切众生的敌人;你不会活着从我手中离去。
7.68.13
तस्मिंस्तथा ब्रुवाणे तु राक्षसः प्रहसन्निव ।
प्रत्युवाच नरश्रेष्ठं दिष्ट्या प्राप्तो ऽसि दुर्मते ॥ ७.६८.१३ ॥
他这样说时,那罗刹仿佛在笑,对人中之杰说道:“恶念之人啊,你幸运地来到了这里。”
7.68.14
मम मातृष्वसुर्भ्राता रावणो राक्षसाधिपः ।
हतो रामेण दुर्बुद्धे स्त्रीहेतोः पुरुषाधम ॥ ७.६८.१४ ॥
我母亲姐妹的兄弟,罗刹之主罗波那,因一个女人被罗摩杀死了。恶念者啊,人中最下贱的人。
7.68.15
तच्च सर्वं मया क्षान्तं रावणस्य कुलक्षयम् ।
अवज्ञां पुरतः कृत्वा मया यूयं विशेषतः ॥ ७.६८.१५ ॥
罗波那一族的灭亡,这一切我都忍受了;尤其是把你们在我面前轻视。
7.68.16
निहताश्च हि मे सर्वे परिभूतास्तृणं यथा ।
भूताश्चैव भविष्याश्च यूयं च पुरुषाधमाः ॥ ७.६८.१६ ॥
他们都被我杀死,像草一样被轻视:过去的、未来的,还有你们,人中最下贱的人。
7.68.17
तस्य ते युद्धकामस्य युद्धं दास्यामि दुर्मते ।
तिष्ठं त्वं च मुहूर्तं तु यावदायुधमानये ।
ईप्सितं यादृशं तुभ्यं सज्जये यावदायुधम् ॥ ७.६८.१७ ॥
你既然渴望战斗,我便给你战斗,恶念之人啊。稍等片刻,待我取来兵器;你所想要的兵器,我都为你备好。
7.68.18
तमुवाचाशु शत्रुघ्नः क्व मे जीवन्गमिष्यसि ।
शत्रुर्यदृच्छया दृष्टो न मोक्तव्यः कृतात्मना ॥ ७.६८.१८ ॥
于是舍睹如那迅速对他说:“你要从我这里活着去哪里?偶然见到的敌人,有自制的人不应放走。”
7.68.19
यो हि विक्लवया बुद्ध्या प्रसरं शत्रवे ददौ ।
स हतो मन्दबुद्धित्वाद्यथा कापुरुषस्तथा ॥ ७.६८.१९ ॥
若因心智慌乱而给敌人可乘之机,便因愚钝而被杀,如同懦夫一般。
7.68.20
तस्मात्सुदृष्टं कुरु जीवलोकं शरैः शितैस्त्वां विविधैर्नयामि ।
यमस्य गेहाभिमुखं हि पापं रिपुं त्रिलोकस्य च राघवस्य ॥ ७.६८.२० ॥
因此你要好好看看活人的世界吧。我将以锋利的各色箭矢,把你送往阎摩的居所,罪人啊,你是三界与罗怙之子的敌人。