Vedyatra वेदयात्रा
搜索

奥义书 · Chāndogya 6.15

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

Chāndogya 6.15.1

पुरुषँ सोम्योतोपतापिनं ज्ञातयः पर्युपासते जानासि मां जानासि मामिति । तस्य यावन्न वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायां तावज्जानाति ॥ ६.१५.१ ॥

亲爱的,当一个人被疾病折磨时,他的亲属围坐在他身边问:你认得我吗?你认得我吗?只要他的言语尚未融入意,意尚未融入气息,气息尚未融入热力,热力尚未融入至高的神,他就还认得。

Chāndogya 6.15.2

अथ यदास्य वाङ्मनसि सम्पद्यते मनः प्राणे प्राणस्तेजसि तेजः परस्यां देवतायामथ न जानाति ॥ ६.१५.२ ॥

此后,当他的言语融入意,意融入气息,气息融入热力,热力融入至高的神时,他便不再认识。

Chāndogya 6.15.3

स य एषोऽणिमैतदात्म्यमिदँ सर्वं तत् सत्यँ स आत्मा तत्त्वमसि श्वेतकेतो इति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ६.१५.३ ॥

那微妙的精华——这整个世界以它为自我。它是真实,它是我,而你,白光啊,正是那个。愿尊者再为我讲解,他说。好吧,亲爱的,他说。