奥义书 · Chāndogya 6.5
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
Chāndogya 6.5.1
अन्नमशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तत्पुरीषं भवति यो मध्यमस्तन्माँसं योऽणिष्ठस्तन्मनः ॥ ६.५.१ ॥
所食之食物分为三部分:其中最粗的成分变为粪便;中等的成分变为肉;最精微的成分变为心(manas)。
Chāndogya 6.5.2
आपः पीतास्त्रेधा विधीयन्ते तासां यः स्थविष्ठो धातुस्तन्मूत्रं भवति यो मध्यमस्तल्लोहितं योऽणिष्ठः स प्राणः ॥ ६.५.२ ॥
饮下的水分为三部分。其中最粗的成分变为尿,中间的变为血,最细的变为生命气息(prāṇa)。
Chāndogya 6.5.3
तेजोऽशितं त्रेधा विधीयते तस्य यः स्थविष्ठो धातुस्तदस्थि भवति यो मध्यमः स मज्जा योऽणिष्ठः सा वाक् ॥ ६.५.३ ॥
被食入的火(tejas)分为三部分。其中最粗的成分变为骨,中间的变为髓,最细的变为言语(vāk)。
Chāndogya 6.5.4
अन्नमयँहि सोम्य मनः आपोमयः प्राणस्तेजोमयी वागिति भूय एव मा भगवान्विज्ञापयत्विति तथा सोम्येति होवाच ॥ ६.५.४ ॥
“温和的孩子,心由食物构成,生气由水构成,语言由火构成。愿尊者再为我解说。”于是他说:“正是如此,温和的孩子。”