阿闼婆吠陀 · 颂诗(Sūkta) 1.1
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.1.1
ये त्रिषप्ताः परियन्ति विश्वा रूपाणि बिभ्रतः ।
वाचस्पतिर्बला तेषां तन्वो अद्य दधातु मे ॥ १.१.१ ॥
那二十一位化身为一切形相而往来的,愿语主今日将他们的力量安放在我的身体之中。
1.1.2
पुनरेहि वचस्पते देवेन मनसा सह ।
वसोष्पते नि रमय मय्येवास्तु मयि श्रुतम् ॥ १.१.२ ॥
语主啊,带着神圣之心再度归来。财主啊,安住于我而喜悦吧;愿所闻之学识常在我心中。
1.1.3
इहैवाभि वि तनूभे आर्त्नी इव ज्यया ।
वाचस्पतिर्नि यच्छतु मय्येवास्तु मयि श्रुतम् ॥ १.१.३ ॥
就在此处,如弓弦牵系两端一般,愿语主将我的两身牢牢系住;愿所闻之学识常在我心中。
1.1.4
उपहूतो वाचस्पतिरुपास्मान् वाचस्पतिर्ह्वयताम् ।
सं श्रुतेन गमेमहि मा श्रुतेन वि राधिषि ॥ १.१.४ ॥
被召请的语主,愿他将我们召近;愿语主呼唤我们。愿我们与所闻之学相会,愿我们不与所闻之学相离。