阿闼婆吠陀 · 颂诗(Sūkta) 1.10
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.10.1
अयं देवानामसुरो वि राजति वशा हि सत्या वरुणस्य राज्ञः ।
ततस्परि ब्रह्मणा शाशदान उग्रस्य मन्योरुदिमं नयामि ॥ १.१०.१ ॥
在众神之中,这位阿修罗统治着;因为国王伐楼那的意志是真实的。由此,借神圣之言(梵)的推动,我将他从猛烈的愤怒(摩纽)中带出。
1.10.2
नमस्ते रजन् वरुणास्तु मन्यवे विश्वं ह्युग्र निचिकेषि द्रुग्धम् ।
सहस्रमन्यान् प्र सुवामि साकं शतं जीवाति शरदस्तवायम् ॥ १.१०.२ ॥
向你的愤怒致敬,国王伐楼那;威猛者啊,你知晓一切欺诈。我一同驱逐千种其他(罪过);愿此人因你的恩典活过一百个秋季。
1.10.3
यदुवक्थानृतं जिह्वया वृजिनं बहु ।
राज्ञस्त्वा सत्यधर्मणो मुञ्चामि वरुणादहम् ॥ १.१०.३ ॥
无论你的舌头说出了何种谎言,以及许多歪曲的过错,我都为你解脱;从持守真法的国王伐楼那那里,我为你解脱。
1.10.4
मुञ्चामि त्वा वैश्वानरादर्णवान् महतस्परि ।
सजातान् उग्रेहा वद ब्रह्म चाप चिकीहि नः ॥ १.१०.४ ॥
从大海和毗舍那罗(火神阿耆尼)那里,我为你解脱。威猛者啊,在此对你的族人说话;向我们显示梵;然后远离。