Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 1.3

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.3.1

विद्मा शरस्य पितरं पर्जन्यं शतवृष्ण्यम् ।
तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥ १.३.१ ॥

我们认识芦苇之父、拥有百种力量的帕尔贾尼亚。借此我为你的身体在大地上带来安宁;愿你的排泄在体外。

1.3.2

विद्मा शरस्य पितरं मित्रं शतवृष्ण्यम् ।
तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥ १.३.२ ॥

我们认识芦苇之父、拥有百种力量的米特拉。借此我为你的身体在大地上带来安宁;愿你的排泄在体外。

1.3.3

विद्मा शरस्य पितरं वरुणं शतवृष्ण्यम् ।
तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥ १.३.३ ॥

我们认识芦苇之父、拥有百种力量的伐楼那。借此我为你的身体在大地上带来安宁;愿你的排泄在体外。

1.3.4

विद्मा शरस्य पितरं चन्द्रं शतवृष्ण्यम् ।
तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥ १.३.४ ॥

我们认识芦苇之父、拥有百种力量的月神。借此我为你的身体在大地上带来安宁;愿你的排泄在体外。

1.3.5

विद्मा शरस्य पितरं सूर्यं शतवृष्ण्यम् ।
तेना ते तन्वे शं करं पृथिव्यां ते निषेचनं बहिष्टे अस्तु बालिति ॥ १.३.५ ॥

我们认识芦苇之父、拥有百种力量的太阳。借此我为你的身体在大地上带来安宁;愿你的排泄在体外。

1.3.6

यदान्त्रेषु गवीन्योर्यद्वस्तावधि संश्रितम् ।
एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥ १.३.६ ॥

如同积聚在肠中、两个gavīnī之中以及膀胱之上的,愿你的尿液如此全部排出体外。

1.3.7

प्र ते भिनद्मि मेहनं वर्त्रं वेशन्त्या इव ।
एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥ १.३.७ ॥

如同进入的女子,我劈开你尿道的阻塞。愿你的尿液如此完全地向外释放,全部。

1.3.8

विषितं ते वस्तिबिलं समुद्रस्योदधेरिव ।
एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥ १.३.८ ॥

你膀胱的口子闭塞着,如同大海的入口。愿你的尿液如此完全地向外释放,全部。

1.3.9

यथेषुका परापतदवसृष्टाधि धन्वनः ।
एवा ते मूत्रं मुच्यतां बहिर्बालिति सर्वकम् ॥ १.३.९ ॥

如同从弓上射出的箭飞向远方,愿你的尿液如此完全地向外释放,全部。