阿闼婆吠陀 · 颂诗(Sūkta) 1.35
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.35.1
यदाबध्नन् दाक्षायणा हिरण्यं शतानीकाय सुमनस्यमानाः ।
तत्ते बध्नाम्यायुषे वर्चसे बलाय दीर्घायुत्वाय शतशारदाय ॥ १.३५.१ ॥
如同达刹之后裔怀着善意为百面者系上黄金,我为你系上此物,以求寿命、光辉、力量,以及百年之久的长寿。
1.35.2
नैनं रक्षांसि न पिशाचाः सहन्ते देवानामोजः प्रथमजं ह्येतत् ।
यो बिभर्ति दाक्षायणं हिरण्यं स जीवेषु कृणुते दीर्घमायुः ॥ १.३५.२ ॥
罗刹与毗舍遮无法抵挡它,因为这是诸神最初诞生的力量。佩戴达刹之后裔黄金者,在生者之中获得长寿。
1.35.3
अपां तेजो ज्योतिरोजो बलं च वनस्पतीनामुत वीर्याणि ।
इन्द्र इवेन्द्रियाण्यधि धारयामो अस्मिन् तद्दक्षमाणो बिभरद्धिरण्यम् ॥ १.३५.३ ॥
水的光辉、光明、活力与力量,以及树木的精力——我们将这些寓于此物之中,正如因陀罗执持诸根。有能力者持此黄金。
1.35.4
समानां मासामृतुभिष्ट्वा वयं संवत्सरस्य पयसा पिपर्मि ।
इन्द्राग्नी विश्वे देवास्तेऽनु मन्यन्तामहृणीयमानाः ॥ १.३५.४ ॥
我以相等的月份与季节,以年岁之液充盈你。愿因陀罗、阿耆尼与一切毗首婆神不怒,为你认可此事。