Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 15.6

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

15.6.1

स ध्रुवां दिशमनु व्यचलत् ॥ १५.६.१ ॥

他朝向恒定的方向前行。

15.6.2

तं भूमिश्चाग्निश्चौषधयश्च वनस्पतयश्च वानस्पत्याश्च वीरुधश्चानुव्यचलन् ।
भूमेश्च वै सोऽग्नेश्चौषधीनां च वनस्पतीनां च वानस्पत्यानां च वीरुधां च प्रियं धाम भवति य एवं वेद ।
स ऊर्ध्वां दिशमनु व्यचलत् ॥ १५.६.२ ॥

大地、阿耆尼、草药、树木、林木与藤蔓跟随着他。知此者便得大地、阿耆尼、草药、树木、林木与藤蔓的可爱居所。他朝向上方而行。

15.6.3

तमृतं च सत्यं च सूर्यश्च चन्द्रश्च नक्षत्राणि चानुव्यचलन् ॥ १५.६.३ ॥

宇宙秩序、真理、太阳、月亮与星辰跟随着他。

15.6.4

ऋतस्य च वै स सत्यस्य च सूर्यस्य च चन्द्रस्य च नक्षत्राणां च प्रियं धाम भवति य एवं वेद ।
स उत्तमां दिशमनु व्यचलत् ॥ १५.६.४ ॥

知此者便得宇宙秩序、真理、太阳、月亮与星辰的可爱居所。他朝向最高的方向而行。

15.6.5

तमृचश्च सामानि च यजूंषि च ब्रह्म चानुव्यचलन् ॥ १५.६.५ ॥

颂诗、歌咏、祭祀祷文与梵语圣言跟随着他。

15.6.6

ऋचां च वै स साम्नां च यजुषां च ब्रह्मणश्च प्रियं धाम भवति य एवं वेद ॥ १५.६.६ ॥

知此者便得颂诗、歌咏、祭祀祷文与梵语圣言的可爱居所。

15.6.7

स बृहतीं दिशमनु व्यचलत् ॥ १५.६.७ ॥

他向广大的方位(bṛhatī)前行。

15.6.8

तमितिहासश्च पुराणं च गाथाश्च नाराशंसीश्चानुव्यचलन् ॥ १५.६.८ ॥

史诗(itihāsa)、古传(purāṇa)、诗偈(gāthā)与纳罗深西(nārāśaṃsī)颂歌随他而行。

15.6.9

इतिहासस्य च वै स पुराणस्य च गाथानां च नाराशंसीनां च प्रियं धाम भवति य एवं वेद ॥ १५.६.९ ॥

知此者,此即成为史诗、古传、诗偈与纳罗深西颂歌的可爱居所。

15.6.10

स परमां दिशमनु व्यचलत् ॥ १५.६.१० ॥

他向最高的方位(paramā)前行。

15.6.11

तमाहवनीयश्च गार्हपत्यश्च दक्षिणाग्निश्च यज्ञश्च यजमानश्च पशवश्चानुव्यचलन् ।
आहवनीयस्य च वै स गार्हपत्यस्य च दक्षिणाग्नेश्च यज्ञस्य च यजमानस्य च पशूनां च प्रियं धाम भवति य एवं वेद ।
सोऽनादिष्टां दिशमनु व्यचलत् ॥ १५.६.११ ॥

随他而行的有供奉火(āhavanīya)、家主火(gārhapatya)、南火(dakṣiṇāgni)、祭祀、祭主与牲畜。知此者,此即成为这些火、祭祀、祭主与牲畜的可爱居所。他向未经指定的方位(anādiṣṭā)前行。

15.6.12

तमृतवश्चार्तवाश्च लोकाश्च लौक्याश्च मासाश्चार्धमासाश्चाहोरात्रे चानुव्यचलन् ।
ऋतूनां च वै स आर्तवानां च लोकानां च लौक्यानां च मासानां चार्धमासानां चाहोरात्रयोश्च प्रियं धाम भवति य एवं वेद ।
सोऽनावृत्तां दिशमनु व्यचलत्ततो नावर्त्स्यन्न् अमन्यत ॥ १५.६.१२ ॥

季节、季节之神、世界、世俗众生、月份、半月,以及昼夜追随着他。知此之人,便成为季节与季节之神、世界与世俗众生、月份与半月、昼夜所喜爱的住所。他走向那无法回返的方向;于是他想,自己将不再回来。

15.6.13

तं दितिश्चादितिश्चेडा चेन्द्राणी चानुव्यचलन् ॥ १५.६.१३ ॥

提提与阿提提、伊达与因陀罗尼也随他而行。

15.6.14

दितेश्च वै सोऽदितेश्चेडायाश्चेन्द्राण्याश्च प्रियं धाम भवति य एवं वेद ।
स दिशोऽनु व्यचलत्तं विराडनु व्यचलत्सर्वे च देवाः सर्वाश्च देवताः ॥ १५.६.१४ ॥

知此之人,便成为提提、阿提提、伊达与因陀罗尼所喜爱的住所。他走向诸方;毗罗阇随他而行,所有天神与所有女神也随他而行。

15.6.15

विराजश्च वै स सर्वेषां च देवानां सर्वासां च देवतानां प्रियं धाम भवति य एवं वेद ॥ १५.६.१५ ॥

知此之人,便成为毗罗阇、一切天神与一切女神所喜爱的住所。

15.6.16

स सर्वान् अन्तर्देशान् अनु व्यचलत् ॥ १५.६.१६ ॥

他走向一切中间的方位。

15.6.17

तं प्रजापतिश्च परमेष्ठी च पिता च पितामहश्चानुव्यचलन् ॥ १५.६.१७ ॥

生主与最高居者、父与祖父也随他而行。

15.6.18

प्रजापतेश्च वै स परमेष्ठिनश्च पितुश्च पितामहस्य च प्रियं धाम भवति य एवं वेद ॥ १५.६.१८ ॥

知此者便成为生主、至上居者、父与祖父所喜爱的居所。