Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 18.3

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

18.3.1

इयं नारी पतिलोकं वृणाना नि पद्यत उप त्वा मर्त्य प्रेतम् ।
धर्मं पुराणमनुपालयन्ती तस्यै प्रजां द्रविणं चेह धेहि ॥ १८.३.१ ॥

这位女子选择了丈夫的世界,躺在你身旁,死去的凡人啊。她遵守古老的礼法,请在此赐予她子嗣与财富。

18.3.2

उदीर्ष्व नार्यभि जीवलोकं गतासुमेतमुप शेष एहि ।
हस्तग्राभस्य दधिषोस्तवेदं पत्युर्जनित्वमभि सं बभूथ ॥ १८.३.२ ॥

起来吧,女子,走向生者的世界。从这失去气息的人身边离开吧。在握着你的手、扶持你的丈夫的新生中,你已与他合为一体。

18.3.3

अपश्यं युवतिं नीयमानां जीवां मृतेभ्यः परिणीयमानाम् ।
अन्धेन यत्तमसा प्रावृतासीत्प्राक्तो अपाचीमनयं तदेनाम् ॥ १८.३.३ ॥

我看见一位年轻女子被带离死者,她仍活着。被盲目的黑暗所笼罩的她,我从东方引向西方。

18.3.4

प्रजानत्यघ्न्ये जीवलोकं देवानां पन्थामनुसंचरन्ती ।
अयं ते गोपतिस्तं जुषस्व स्वर्गं लोकमधि रोहयैनम् ॥ १८.३.४ ॥

不可杀者啊,你知晓生者的世界,行走于诸神之路。这是你的牲畜之主;接纳他,将他提升至天界。

18.3.5

उप द्यामुप वेतसमवत्तरो नदीनाम् ।
अग्ने पित्तमपामसि ॥ १८.३.५ ॥

上至天空,下至芦苇,从河流下降的水道中。啊,阿耆尼,你是众水的胆汁。

18.3.6

यं त्वमग्ने समदहस्तमु निर्वापय पुनः ।
क्याम्बूरत्र रोहतु शाण्डदूर्वा व्यल्कशा ॥ १८.३.६ ॥

阿耆尼啊,你所完全烧毁之物,请再将其熄灭。愿此地生长克扬布、山达-杜尔瓦与维亚尔卡莎。

18.3.7

इदं त एकं पुर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व ।
संवेशने तन्वा चारुरेधि प्रियो देवानां परमे सधस्थे ॥ १८.३.७ ॥

这是你的一部分,这是你前面的一部分;与第三道光明相合。在安息之处,以你的身体变得美好;在诸神的至高居所中成为可爱的人。

18.3.8

उत्तिष्ठ प्रेहि प्र द्रवौकः कृणुष्व सलिले सधस्थे ।
तत्र त्वं पितृभिः संविदानः सं सोमेन मदस्व सं स्वधाभिः ॥ १८.३.८ ॥

起来,前行,迅速前往;在水中、在共同的居所中建立你的住所。在那里,与祖先们相合,以苏摩欢喜;以斯瓦陀的供物欢喜。

18.3.9

प्र च्यवस्व तन्वं सं भरस्व मा ते गात्रा वि हायि मो शरीरम् ।
मनो निविष्टमनुसंविशस्व यत्र भूमेर्जुषसे तत्र गच्छ ॥ १८.३.९ ॥

前行,聚集你的身体;愿你的肢体不散,身体不分离。以安定之心进入;前往大地上你所喜悦之处。

18.3.10

वर्चसा मां पितरः सोम्यासो अञ्जन्तु देवा मधुना घृतेन ।
चक्षुषे मा प्रतरं तारयन्तो जरसे मा जरदष्टिं वर्धन्तु ॥ १८.३.१० ॥

愿爱苏摩的祖先以活力为我涂油;愿诸神以蜜与酥油为我涂油。为了视力使我更远地渡过,为了衰老使我在长寿中增长。

18.3.11

वर्चसा मां समनक्त्वग्निर्मेधां मे विष्णुर्न्यनक्त्वासन् ।
रयिं मे विश्वे नि यच्छन्तु देवाः स्योना मापः पवनैः पुनन्तु ॥ १८.३.११ ॥

愿阿耆尼以活力全然为我涂油;愿毗湿努在我口中为智慧涂油。愿诸神赐我财富;愿慈爱的水以其净化之物净化我。

18.3.12

मित्रावरुणा परि मामधातामादित्या मा स्वरवो वर्धयन्तु ।
वर्चो म इन्द्रो न्यनक्तु हस्तयोर्जरदष्टिं मा सविता कृणोतु ॥ १८.३.१२ ॥

愿弥陀罗与伐楼那护持我四周;愿阿底提耶与斯婆鲁使我增长。愿因陀罗以光辉涂抹我的双手;愿萨维德利使我得享长寿。

18.3.13

यो ममार प्रथमो मर्त्यानां यः प्रेयाय प्रथमो लोकमेतम् ।
वैवस्वतं संगमनं जनानां यमं राजानं हविषा सपर्यत ॥ १८.३.१३ ॥

凡人中最先死去、最先前往此世界者——毗婆薮之子、众人聚会之所、国王阎摩,当以祭供敬奉之。

18.3.14

परा यात पितर आ च यातायं वो यज्ञो मधुना समक्तः ।
दत्तो अस्मभ्यं द्रविणेह भद्रं रयिं च नः सर्ववीरं दधात ॥ १८.३.१४ ॥

诸父啊,你们远去,又来到此处;此为你们的祭祀,以蜜涂抹。请在此赐予我们吉祥的财富,并赐予我们连同一切英勇子嗣的财富。

18.3.15

कण्वः कक्षीवान् पुरुमीढो अगस्त्यः श्यावाश्वः सोभर्यर्चनानाः ।
विश्वामित्रोऽयं जमदग्निरत्रिरवन्तु नः कश्यपो वामदेवः ॥ १८.३.१५ ॥

迦纳、迦克史梵、补噜弥陀、阿伽斯提耶、夏耶瓦希婆、索婆哩——赞颂着;毗首弥多罗、此闍摩陀耶尼、阿特利、迦叶波、伐摩提婆——愿他们护佑我们。

18.3.16

विश्वामित्र जमदग्ने वसिष्ठ भरद्वाज गोतम वामदेव ।
शर्दिर्नो अत्रिरग्रभीन् नमोभिः सुसंशासः पितरो मृडता नः ॥ १८.३.१६ ॥

毗首弥多罗啊,闍摩陀耶尼啊,婆悉瑟吒啊,婆罗堕遮啊,乔答摩啊,伐摩提婆啊!阿特利以礼敬接纳了我们的队伍。善受教导的诸父啊,请对我们慈悲。

18.3.17

कस्ये मृजाना अति यन्ति रिप्रमायुर्दधानाः प्रतरं नवीयः ।
आप्यायमानाः प्रजया धनेनाध स्याम सुरभयो गृहेषु ॥ १८.३.१७ ॥

那些自我净化、超越污垢、承载新而长久生命、因子嗣和财富而充盈的祖先,愿我们在家中也芬芳而吉祥。

18.3.18

अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मधुनाभ्यञ्जते ।
सिन्धोरुच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमासु गृह्नते ॥ १८.३.१८ ॥

他们涂油,多样装饰,彻底涂油;以蜜品尝愿力并涂抹。在河水涨溢之中,飞奔的公牛,被金子净化的人们在牲畜之中将其捉住。

18.3.19

यद्वो मुद्रं पितरः सोम्यं च तेनो सचध्वं स्वयशसो हि भूत ।
ते अर्वाणः कवय आ शृणोत सुविदत्रा विदथे हुयमानाः ॥ १८.३.१९ ॥

诸位祖先啊,你们所属于苏摩的印记,便与之相合吧,因为你们自身便是荣耀的。愿那些迅捷而智慧的祖先来此聆听,慷慨的施予者们,在祭会的集会中受到召唤之时。

18.3.20

ये अत्रयो अङ्गिरसो नवग्वा इष्टावन्तो रातिषाचो दधानाः ।
दक्षिणावन्तः सुकृतो य उ स्थासद्यास्मिन् बर्हिषि मादयध्वम् ॥ १८.३.२० ॥

你们这些阿特里与安吉罗斯之裔、纳瓦格瓦,拥有祭祀、遵循布施、富于供奉、行善之人,坐在这圣草座位上的诸位,欢喜吧。

18.3.21

अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतमाशशानाः ।
शुचीदयन् दीध्यत उक्थशसः क्षामा भिन्दन्तो अरुणीरप व्रन् ॥ १८.३.२१ ॥

如今,我们那些远去的古老祖先,啊阿耆尼,渴望天理,光辉灿烂,以颂歌赞美,劈开大地,打开赤色的水流。

18.3.22

सुकर्मानः सुरुचो देवयन्तो अयो न देवा जनिमा धमन्तः ।
शुचन्तो अग्निं वावृधन्त इन्द्रमुर्वीं गव्यां परिषदं नो अक्रन् ॥ १८.३.२२ ॥

行善的、光辉的、渴慕诸神的人,如同诸神生而吹炼金属,点燃阿耆尼,增长因陀罗,为我们筑起充满牛群的广阔圈栏。

18.3.23

आ यूथेव क्षुमति पश्वो अख्यद्देवानां जनिमान्त्युग्रः ।
मर्तासश्चिदुर्वशीरकृप्रन् वृधे चिदर्य उपरस्यायोः ॥ १८.३.२३ ॥

如同牲畜显现于群中,诸神的猛烈降生近前显现。凡人也渴望广阔的黎明;为了增长,他们渴望主宰,以及近前而来的、属于阿尤的光明。

18.3.24

अकर्म ते स्वपसो अभूम ऋतमवस्रन्न् उषसो विभातीः ।
विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः ॥ १८.३.२४ ॥

我们为你行了善事,也成为了你的人;光辉的黎明释放了宇宙秩序。诸神所守护的一切福祉,愿我们在祭会中大声宣说,并有勇敢的子孙同在。

18.3.25

इन्द्रो मा मरुत्वान् प्राच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि ।
लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ १८.३.२५ ॥

愿因陀罗与摩录多一同从东方守护我;如同天空之上的大地,那自诸臂坠落的大地也一同守护。我们礼敬造世者与造路者,他们是诸神祭品的分享者,就在此处。

18.3.26

धाता मा निर्ऋत्या दक्षिणाया दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि ।
लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ १८.३.२६ ॥

愿创造者(Dhātṛ)从南方的尼里提手中守护我;如同天空之上的大地,那自诸臂坠落的大地也一同守护。我们礼敬造世者与造路者,他们是诸神祭品的分享者,就在此处。

18.3.27

अदितिर्मादित्यैः प्रतीच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि ।
लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ १८.३.२७ ॥

愿阿底提与阿底提耶们从西方守护我,如同大地从天上的手臂之上落下而得庇护。我们祭祀造世者与造路者,你们是诸神祭献的分享者,就在此处。

18.3.28

सोमो मा विश्वैर्देवैरुदीच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि ।
लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ १८.३.२८ ॥

愿苏摩与诸神从北方守护我,如同大地从天上的手臂之上落下而得庇护。我们祭祀造世者与造路者,你们是诸神祭献的分享者,就在此处。

18.3.29

धर्ता ह त्वा धरुणो धारयाता ऊर्ध्वं भानुं सविता द्यामिवोपरि ।
लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ १८.३.२९ ॥

愿持者与护者必定将你高高托起,如同萨维特里在天空之上高举光明。我们祭祀造世者与造路者,你们是诸神祭献的分享者,就在此处。

18.3.30

प्राच्यां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।
लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ १८.३.३० ॥

在东方,预先被围绕的你,我将你安置于供养(svadhā)之中,如同大地从天上的手臂之上落下而得庇护。我们祭祀造世者与造路者,你们是诸神祭献的分享者,就在此处。

18.3.31

दक्षिणायां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।
लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ १८.३.३१ ॥

在南方,我将先前被围困的你安置于斯瓦达之处,如同从臂上抛出的大地高于天空。我们祭祀创造世界者、开辟道路者,他们是诸神祭品的分享者,就在此处。

18.3.32

प्रतीच्यां त्वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।
लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ १८.३.३२ ॥

在西方,我将先前被围困的你安置于斯瓦达之处,如同从臂上抛出的大地高于天空。我们祭祀创造世界者、开辟道路者,他们是诸神祭品的分享者,就在此处。

18.3.33

उदीच्यां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।
लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ १८.३.३३ ॥

在北方,我将先前被围困的你安置于斯瓦达之处,如同从臂上抛出的大地高于天空。我们祭祀创造世界者、开辟道路者,他们是诸神祭品的分享者,就在此处。

18.3.34

ध्रुवायां त्वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।
लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ १८.३.३४ ॥

在定方,我将先前被围困的你安置于斯瓦达之处,如同从臂上抛出的大地高于天空。我们祭祀创造世界者、开辟道路者,他们是诸神祭品的分享者,就在此处。

18.3.35

ऊर्ध्वायां त्वा दिशि पुरा सम्वृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि ।
लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ १८.३.३५ ॥

我将你放置于上方,曾经被覆盖者,在祖灵界(Svadhā)中;如从手臂落下的大地,如上方的天空。我们祭祀创造世界者、创造道路者,这些在此分享诸神祭品者。

18.3.36

धर्तासि धरुनोऽसि वंसगोऽसि ॥ १८.३.३६ ॥

你是支撑者,你是坚固者,你是走向竹子者。

18.3.37

उदपूरसि मधुपूरसि वातपूरसि ॥ १८.३.३७ ॥

你充满水,你充满蜜,你充满风。

18.3.38

इतश्च मामुतश्चावतां यमे इव यतमाने यदैतम् ।
प्र वां भरन् मानुषा देवयन्तो आ सीदतां स्वमु लोकं विदाने ॥ १८.३.३८ ॥

从此处和彼处保护我,如阎摩般努力,当你们二人来到时。愿人们渴望诸神,为你们奉上;愿他们各自知晓自己的世界而坐下。

18.3.39

स्वासस्थे भवतमिन्दवे नो युजे वां ब्रह्म पूर्व्यं नमोभिः ।
वि श्लोक एति पथ्येव सूरिः शृण्वन्तु विश्वे अमृतास एतत् ॥ १८.३.३९ ॥

你们二人呼吸良好;为我们,为因都(苏摩)而在。我为你们二人以礼敬连接古老的梵。在赞颂中它分开而行,如路上的智者;愿一切不死者听闻此事。

18.3.40

त्रीणि पदानि रुपो अन्वरोहच्चतुष्पदीमन्वेतद्व्रतेन ।
अक्षरेण प्रति मिमीते अर्कमृतस्य नाभावभि सं पुनाति ॥ १८.३.४० ॥

他攀登形式的三步,依誓言跟随四足者。以音节他量度赞歌;向宇宙秩序的脐部,他彻底净化。

18.3.41

देवेभ्यः कमवृणीत मृत्युं प्रजायै किममृतं नावृणीत ।
बृहस्पतिर्यज्ञमतनुत ऋषिः प्रियां यमस्तन्वमा रिरेच ॥ १८.३.४१ ॥

诸神选择了何种死亡?为子孙为何不选择不死?圣者布利哈斯帕蒂延展了祭祀;阎摩舍弃了他所爱的身体。

18.3.42

त्वमग्न ईडितो जातवेदोऽवाड्ढव्यानि सुरभीणि कृत्वा ।
प्रादाः पितृभ्यः स्वधया ते अक्षन्न् अद्धि त्वं देव प्रयता हवींषि ॥ १८.३.४२ ॥

阿耆尼啊,受赞颂的知生者,你运载芬芳的供物,以斯瓦陀将它们献给祖先。愿他们享用;神啊,你也享用所奉的供物。

18.3.43

आसीनासो अरुणीनामुपस्थे रयिं धत्त दाशुषे मर्त्याय ।
पुत्रेभ्यः पितरस्तस्य वस्वः प्र यच्छत त इहोर्जं दधात ॥ १८.३.४३ ॥

坐在赤色黎明怀中的诸祖啊,请赐予施主凡人以财富。从那财富中给予儿子们,愿他们在此持守活力。

18.3.44

अग्निष्वात्ताः पितर एह गच्छत सदःसदः सदत सुप्रणीतयः ।
अत्तो हवींषि प्रयतानि बर्हिषि रयिं च नः सर्ववीरं दधात ॥ १८.३.४४ ॥

被阿耆尼所食的诸祖啊,来到此地,在每个座位上就坐吧,善引导者们。请食用置于圣草上的供物,赐予我们与所有英雄相伴的财富。

18.3.45

उपहूता नः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु ।
त आ गमन्तु त इह श्रुवन्त्वधि ब्रुवन्तु तेऽवन्त्वस्मान् ॥ १८.३.४५ ॥

我们所召请的堪受苏摩的诸祖啊,请来到圣草上这些珍贵的宝藏之中。愿他们在此聆听,为我们说话,并保护我们。

18.3.46

ये नः पितुः पितरो ये पितामहा अनूजहिरे सोमपीथं वसिष्ठाः ।
तेभिर्यमः सम्रराणो हवींष्युशन्न् उशद्भिः प्रतिकाममत्तु ॥ १८.३.४६ ॥

我们父亲的父辈与祖父辈,那些饮用过苏摩之饮的婆湿吒们——愿阎摩与他们一同欢喜,与所愿者一起,随意享用祭品。

18.3.47

ये तातृषुर्देवत्रा जेहमाना होत्राविदः स्तोमतष्टासो अर्कैः ।
आग्ने याहि सहस्रं देववन्दैः सत्यैः कविभिर्ऋषिभिर्घर्मसद्भिः ॥ १८.३.४७ ॥

在诸神之中渴望者,热切通晓呼唤之职者,以颂歌锻造赞美者,以咒语——阿耆尼啊,与天神所赞的千人同来;与真实者、诗人、仙人、坐于热乳旁者同来。

18.3.48

ये सत्यासो हविरदो हविष्पा इन्द्रेण देवैः सरथं तुरेण ।
आग्ने याहि सुविदत्रेभिरर्वाङ्परैः पूर्वैर्ऋषिभिर्घर्मसद्भिः ॥ १८.३.४८ ॥

食用祭品、饮用祭品的真实者,与因陀罗及诸神同乘一车、疾速而行者——阿耆尼啊,与慷慨的先祖、古老的先仙、坐于热乳旁者一同来此。

18.3.49

उप सर्प मातरं भूमिमेतामुरुव्यचसं पृथिवीं सुशेवाम् ।
ऊर्णम्रदाः पृथिवी दक्षिणावत एषा त्वा पातु प्रपथे पुरस्तात् ॥ १८.३.४९ ॥

靠近这位母亲大地,那广袤舒展、极其慈惠的大地。对施予供品者柔软如羊毛的大地——愿她在路上从前方保护你。

18.3.50

उच्छ्वञ्चस्व पृथिवि मा नि बाधथाः सूपायनास्मै भव सूपसर्पणा ।
माता पुत्रं यथा सिचाभ्येनं भूम ऊर्णुहि ॥ १८.३.५० ॥

大地啊,升起,不要向下压迫。为他成为易于抵达、易于靠近之处。如同母亲以怀抱覆盖儿子,那样,大地啊,覆盖他吧。

18.3.51

उच्छ्वञ्चमाना पृथिवी सु तिष्ठतु सहस्रं मित उप हि श्रयन्ताम् ।
ते गृहासो घृतश्चुतः स्योना विश्वाहास्मै शरणाः सन्त्वत्र ॥ १८.३.५१ ॥

愿被抬起的大地稳稳站立;愿千处丈量过的地方靠近它安居。愿那滴淌酥油、令人安适的房屋,永远在此为他作庇护所。

18.3.52

उत्ते स्तभ्नामि पृथिवीं त्वत्परीमं लोगं निदधन् मो अहं रिषम् ।
एतां स्थूणां पितरो धारयन्ति ते तत्र यमः सादना ते कृणोतु ॥ १८.३.५२ ॥

为你,我将大地撑起;使这环绕的世界远离你,愿我不受伤害。这根柱子由祖先们支撑;愿阎摩在那里为你安排住所。

18.3.53

इममग्ने चमसं मा वि जिह्वरः प्रियो देवानामुत सोम्यानाम् ।
अयं यश्चमसो देवपानस्तस्मिन् देवा अमृता मादयन्ताम् ॥ १८.३.५३ ॥

阿耆尼啊,不要舔尽这只杯子,它是诸神和应受苏摩者所喜爱的。愿不死的诸神在这盛满神饮的杯中欢喜。

18.3.54

अथर्वा पूर्णं चमसं यमिन्द्रायाबिभर्वाजिनीवते ।
तस्मिन् कृणोति सुकृतस्य भक्षं तस्मिन् इन्दुः पवते विश्वदानीम् ॥ १८.३.५४ ॥

阿闼婆将满盛的杯子献给有力的因陀罗;他在其中放入善行的份额。就在这杯中,因度时时流动并自我净化。

18.3.55

यत्ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः ।
अग्निष्टद्विश्वादगदं कृणोतु सोमश्च यो ब्राह्मणामाविवेश ॥ १८.३.५५ ॥

若黑鸟刺伤了你,或蚂蚁、蛇、猛兽伤了你;愿阿耆尼从这一切中为你制成解药,愿那已进入婆罗门的苏摩也如此。

18.3.56

पयस्वतीरोषधयः पयस्वन् मामकं पयः ।
अपां पयसो यत्पयस्तेन मा सह शुम्भतु ॥ १८.३.५६ ॥

滋养的草药,我自身的滋养精华,以及诸水的滋养精华——愿它们以此一同使我光彩焕发。

18.3.57

इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा सं स्पृशन्ताम् ।
अनश्रवो अनमीवाः सुरत्ना आ रोहन्तु जनयो योनिमग्रे ॥ १८.३.५७ ॥

这些未寡、夫婿良好的妇人,愿她们以眼膏与酥油相互触摸。无泪、无病、饰以美好珠宝的这些妻子,愿她们先登上子宫。

18.3.58

सं गच्छस्व पितृभिः सं यमेनेष्टापूर्तेन परमे व्योमन् ।
हित्वावद्यं पुनरस्तमेहि सं गच्छतां तन्वा सुवर्चाः ॥ १८.३.५८ ॥

与祖先和阎摩相会,在至高天中与祭祀及功德相会。舍弃过失,再回家来;愿他们以光彩的身体相聚。

18.3.59

ये नः पितुः पितरो ये पितामहा य आविविशुरुर्वन्तरिक्षम् ।
तेभ्यः स्वरादसुनीतिर्नो अद्य वथावशं तन्वः कल्पयाति ॥ १८.३.५९ ॥

我们父亲的祖先,即祖父们,那些进入广阔虚空者——愿从天上引领生命者今日为他们,依风的意愿安排我们的身体。

18.3.60

शं ते नीहारो भवतु शं ते प्रुष्वाव शीयताम् ।
शीतिके शीतिकावति ह्लादिके ह्लादिकावति ।
मण्डूक्यप्सु शं भुव इमं स्वग्निं शमय ॥ १८.३.६० ॥

愿雾气于你吉祥,愿水滴于你吉祥,愿清凉安定。啊,清寒者,有清寒者;啊,欢悦者,有欢悦者;蛙女啊,在水中吉祥;平息这火(热病)。

18.3.61

विवस्वान् नो अभयं कृणोतु यः सुत्रामा जीरदानुः सुदानुः ।
इहेमे वीरा बहवो भवन्तु गोमदश्ववन् मय्यस्तु पुष्टम् ॥ १८.३.६१ ॥

愿毗婆薇ān赐予我们无畏;他是善护者、长寿的赐予者、慷慨的施主。愿此处这些英雄众多;愿我身中有富于牛马的兴盛。

18.3.62

विवस्वान् नो अमृतत्वे दधातु परैतु मृत्युरमृतं न ऐतु ।
इमान् रक्षतु पुरुषान् आ जरिम्णो मो स्वेषामसवो यमं गुः ॥ १८.३.६२ ॥

愿毗婆薇ān使我们安住于不死;愿死亡远去,不死来到我们这里。愿他保护这些人直至衰老;愿他们自己的气息不归于阎摩。

18.3.63

यो दध्रे अन्तरिक्षे न मह्ना पितॄणां कविः प्रमतिर्मतीनाम् ।
तमर्चत विश्वमित्रा हविर्भिः स नो यमः प्रतरं जीवसे धात् ॥ १८.३.६३ ॥

以其伟大托持空中诸祖先者,智者,诸思想中的远见智慧——愿众友以祭物敬奉他。愿那阎摩赐予我们更长的生命。

18.3.64

आ रोहत दिवमुत्तमामृषयो मा बिभीतन ।
सोमपाः सोमपायिन इदं वः क्रियते हविरगन्म ज्योतिरुत्तमम् ॥ १८.३.६४ ॥

诸仙人啊,升上最高天界;不要害怕。饮用苏摩者啊,为你们准备此祭物;我们已到达最高之光。

18.3.65

प्र केतुना बृहता भात्यग्निरा रोदसी वृषभो रोरवीति ।
दिवश्चिदन्तादुपमामुदानडपामुपस्थे महिषो ववर्ध ॥ १८.३.६५ ॥

阿耆尼以其伟大的光芒照耀;如降雨的公牛,他在天地之间咆哮。即使从天边,他也升至最高峰;在水的怀抱中,他以威力成长。

18.3.66

नाके सुपर्णमुप यत्पतन्तं ह्र्दा वेनन्तो अभ्यचक्षत त्वा ।
हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरन्युम् ॥ १८.३.६६ ॥

在天上的高空中,那飞下来的美翼之鸟,心中渴望的人看见了你——金色翅膀、伐楼那的使者,在阎摩居所中的敏捷之鸟。

18.3.67

इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा ।
शिक्षा णो अस्मिन् पुरुहूत यामनि जीवा ज्योतिरशीमहि ॥ १८.३.६७ ॥

因陀罗啊,请赐予我们志愿,如父亲赐予儿子。众所呼求者啊,在此生的路途上教导我们,使我们活着得见光明。

18.3.68

अपूपापिहितान् कुम्भान् यांस्ते देवा अधारयन् ।
ते ते सन्तु स्वधावन्तो मधुमन्तो घृतश्चुतः ॥ १८.३.६८ ॥

诸神为你安置的、以饼覆盖的罐子,愿它们充满斯瓦陀、甘甜,并滴落酥油。

18.3.69

यास्ते धाना अनुकिरामि तिलमिश्रा स्वधावतीः ।
तास्ते सन्तु विभ्वीः प्रभ्वीस्तास्ते यमो राजानु मन्यताम् ॥ १८.३.६९ ॥

我为你撒下的、混以芝麻的谷物,愿其充满斯瓦陀。愿它们为你丰盛而有力;愿国王阎摩为你接受它们。

18.3.70

पुनर्देहि वनस्पते य एष निहितस्त्वयि ।
यथा यमस्य सादन आसातौ विदथा वदन् ॥ १८.३.७० ॥

林中之主啊,请将放在你之中的这物归还,使其在阎摩的座位、集会中说出祭祀之语。

18.3.71

आ रभस्व जातवेदस्तेजस्वद्धरो अस्तु ते ।
शरीरमस्य सं दहाथैनं देहि सुकृतामु लोके ॥ १८.३.७१ ॥

耶陀摩啊,燃起吧,愿你的火焰光明。将他的身体完全焚烧,并将他安置于善人的世界。

18.3.72

ये ते पूर्वे परागता अपरे पितरश्च ये ।
तेभ्यो घृतस्य कुल्यैतु शतधारा व्युन्दती ॥ १८.३.७२ ॥

为你那先前离去的祖先,和后来的父辈,愿一条酥油之渠以百道水流涌出。

18.3.73

एतदा रोह वय उन्मृजानः स्वा इह बृहदु दीदयन्ते ।
अभि प्रेहि मध्यतो माप हास्थाः पितॄनां लोकं प्रथमो यो अत्र ॥ १८.३.७३ ॥

登上这活力,洗净自身;这里你的亲人大放光明。从中间前行,莫要坠落;走向祖先的世界,如同先到此处的那一位。