Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 19.28

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

19.28.1

इमं बध्नामि ते मणिं दीर्घायुत्वाय तेजसे ।
दर्भं सपत्नदम्भनं द्विषतस्तपनं हृदः ॥ १९.२८.१ ॥

我为你系上此护符,以求长寿与精力:此吉祥草摧伏敌人,灼烧仇者之心。

19.28.2

द्विषतस्तापयन् हृदः शत्रूणां तापयन् मनः ।
दुर्हार्दः सर्वांस्त्वं दर्भ घर्म इवाभीन्त्संतापयन् ॥ १९.२८.२ ॥

灼烧仇敌之心与敌人之意,啊吉祥草,如烈日般四面焚烧所有怀恶意之人。

19.28.3

घर्म इवाभितपन् दर्भ द्विषतो नितपन् मणे ।
हृदः सपत्नानां भिन्द्धीन्द्र इव विरुजं बलम् ॥ १९.२८.३ ॥

如烈日般四面灼烧,啊吉祥草,充分灼烧仇者;啊护符,如因陀罗般劈开敌人之心,摧毁其力量。

19.28.4

भिन्द्धि दर्भ सपत्नानां हृदयं द्विषतां मणे ।
उद्यन् त्वचमिव भूम्याः शिर एषां वि पातय ॥ १९.२८.४ ॥

啊吉祥草,劈开敌人之心;啊护符,劈开仇者之心;如大地之皮般升起,将其头颅割裂坠落。

19.28.5

भिन्द्धि दर्भ सपत्नान् मे भिन्द्धि मे पृतनायतः ।
भिन्द्धि मे सर्वान् दुर्हार्दो भिन्द्धि मे द्विषतो मणे ॥ १९.२८.५ ॥

啊吉祥草,劈开我的敌人;劈开欲与我争斗者;劈开我所有怀恶意者;啊护符,劈开我的仇者。

19.28.6

छिन्द्धि दर्भ सपत्नान् मे छिन्द्धि मे पृतनायतः ।
छिन्द्धि मे सर्वान् दुर्हार्दो छिन्द्धि मे द्विषतो मणे ॥ १९.२८.६ ॥

啊吉祥草,斩断我的敌人;斩断欲与我争斗者;斩断我所有怀恶意者;啊护符,斩断我的仇者。

19.28.7

वृश्च दर्भ सपत्नान् मे वृश्च मे पृतनायतः ।
वृश्च मे सर्वान् दुर्हार्दो वृश्च मे द्विषतो मणे ॥ १९.२८.७ ॥

哦,吉祥草,斩断我的敌人;斩断那些来与我争战的人。斩断所有对我怀有恶意的人;哦,宝珠,斩断憎恨我的人。

19.28.8

कृन्त दर्भ सपत्नान् मे कृन्त मे पृतनायतः ।
कृन्त मे सर्वान् दुर्हार्दो कृन्त मे द्विषतो मणे ॥ १९.२८.८ ॥

哦,吉祥草,劈开我的敌人;劈开那些来与我争战的人。劈开所有对我怀有恶意的人;哦,宝珠,劈开憎恨我的人。

19.28.9

पिंश दर्भ सपत्नान् मे पिंश मे पृतनायतः ।
पिंश मे सर्वान् दुर्हार्दो पिंश मे द्विषतो मणे ॥ १९.२८.९ ॥

哦,吉祥草,碾碎我的敌人;碾碎那些来与我争战的人。碾碎所有对我怀有恶意的人;哦,宝珠,碾碎憎恨我的人。

19.28.10

विध्य दर्भ सपत्नान् मे विध्य मे पृतनायतः ।
विध्य मे सर्वान् दुर्हार्दो विध्य मे द्विषतो मणे ॥ १९.२८.१० ॥

哦,吉祥草,刺穿我的敌人;刺穿那些来与我争战的人。刺穿所有对我怀有恶意的人;哦,宝珠,刺穿憎恨我的人。