Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 19.33

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

19.33.1

सहस्रार्घः शतकाण्डः पयस्वान् अपामग्निर्वीरुधां राजसूयम् ।
स नोऽयं दर्भः परि पातु विश्वतो देवो मणिरायुषा सं सृजाति नः ॥ १९.३३.१ ॥

这株值千金、有百节、富含汁液的茅草,是水中之火,是草木的王者祭礼。愿这神圣的护符茅草从四面保护我们,并使我们与寿命相连。

19.33.2

घृतादुल्लुप्तो मधुमान् पयस्वान् भूमिदृंहोऽच्युतश्च्यावयिष्णुः ।
नुदन्त्सपत्नान् अधरांश्च कृण्वन् दर्भा रोह महतामिन्द्रियेण ॥ १९.३३.२ ॥

自酥油中拔出,甘美、多汁,深扎于大地,坚不可摧,使敌人震颤、驱逐并压低他们。啊,茅草,借伟人的力量生长吧!

19.33.3

त्वं भूमिमत्येष्योजसा त्वं वेद्यां सीदसि चारुरध्वरे ।
त्वां पवित्रमृषयोऽभरन्त त्वं पुनीहि दुरितान्यस्मत् ॥ १९.३३.३ ॥

你以力量超越大地;你在祭坛上于祭祀中美好地端坐。先知们持你为净化之物;请从我们身上净除诸般罪恶。

19.33.4

तीक्ष्णो राजा विषासही रक्षोहा विश्वचर्षणिः ।
ओजो देवानां बलमुग्रमेतत्तं ते बध्नामि जरसे स्वस्तये ॥ १९.३३.४ ॥

锐利的王,能忍受毒物,杀灭罗刹,洞见一切:这是诸神的力量与猛烈之力。我为你将其系上,以求长寿与平安。

19.33.5

दर्भेण त्वं कृणवद्वीर्याणि दर्भं बिभ्रदात्मना मा व्यथिष्ठाः ।
अतिष्ठाय वर्चसाधान्यान्त्सूर्य इवा भाहि प्रदिशश्चतस्रः ॥ १९.३३.५ ॥

借茅草成就你的力量;持着茅草,你自身不要忧伤。以光辉凌驾于他人之上,如太阳般照耀四方。