アタルヴァ・ヴェーダ · スークタ 19.35
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
19.35.1
इन्द्रस्य नाम गृह्णन्त ऋषयो जङ्गिडं ददुः ।
देवा यं चक्रुर्भेषजमग्रे विष्कन्धदूषणम् ॥ १९.३५.१ ॥
インドラの名を唱えつつ、聖仙たちはジャンギダを与えた。神々はそれを最初に、ヴィシュカンダを退ける薬とした。
19.35.2
स नो रक्षतु जङ्गिडो धनपालो धनेव ।
देवा यं चक्रुर्ब्राह्मणाः परिपाणमरातिहम् ॥ १९.३५.२ ॥
そのジャンギダが富の守護者のように我らを守らんことを。神々とバラモンたちはそれを敵を滅ぼす護りとした。
19.35.3
दुर्हार्दः संघोरं चक्षुः पापकृत्वानमागमम् ।
तांस्त्वं सहस्रचक्षो प्रतीबोधेन नाशय परिपाणोऽसि जङ्गिडः ॥ १९.३५.३ ॥
悪意の者、恐ろしい邪眼、近づいてくる悪行者たち——千眼の神よ、覚醒した警戒で彼らを滅ぼせ。汝はジャンギダの守護者である。
19.35.4
परि मा दिवः परि मा पृथिव्याः पर्यन्तरिक्षात्परि मा वीरुद्भ्यः ।
परि मा भूतात्परि मोत भव्याद्दिशोदिशो जङ्गिडः पात्वस्मान् ॥ १९.३५.४ ॥
天から私を囲み守り、地から私を囲み守り、中空から私を囲み守り、植物から私を囲み守れ。過去と未来から私を囲み守れ。あらゆる方角でジャンギダが我らを守らんことを。
19.35.5
य ऋष्णवो देवकृता य उतो ववृतेऽन्यः ।
सर्वांस्तान् विश्वभेषजोऽरसां जङ्गिडस्करत् ॥ १९.३५.५ ॥
害をなすもの、神々が作ったもの、そして他から襲ってきたもの——それら全てを、万病を癒すジャンギダが無力にした。