Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 19.36

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

19.36.1

शतवारो अनीनशद्यक्ष्मान् रक्षांसि तेजसा ।
आरोहन् वर्चसा सह मणिर्दुर्णामचातनः ॥ १९.३६.१ ॥

百力护符以其光辉摧毁了消耗病与罗刹。与生命光华一同升起,此宝珠驱逐恶名者(Durnāman)。

19.36.2

शृङ्गाभ्यां रक्षो नुदते मूलेन यातुधान्यः ।
मध्येन यक्ष्मं बाधते नैनं पाप्माति तत्रति ॥ १९.३६.२ ॥

以其角驱逐罗刹,以其根驱逐食人女妖。以其中段折磨消耗病;罪恶不会触及此人,也不会越过他。

19.36.3

ये यक्ष्मासो अर्भका महान्तो ये च शब्दिनः ।
सर्वां दुर्णामहा मणिः शतवारो अनीनशत् ॥ १९.३६.३ ॥

无论小的、大的,还是喧闹的消耗病,全都被摧毁了——那恶名的摧毁者、百力宝珠 Śatavāra。

19.36.4

शतं वीरान् अजनयच्छतं यक्ष्मान् अपावपत् ।
दुर्णाम्नः सर्वान् हत्वाव रक्षांसि धूनुते ॥ १९.३६.४ ॥

它生出百位勇士,驱散百种消耗病。杀尽所有恶名者之后,它抖落罗刹。

19.36.5

हिरण्यशृङ्ग ऋषभः शातवारो अयं मणिः ।
दुर्णाम्नः सर्वांस्तृध्वाव रक्षांस्यक्रमीत् ॥ १९.३६.५ ॥

此 Śātavāra 宝珠如同长着金角的雄牛。碾碎所有恶名者之后,它踏过罗刹。

19.36.6

शतमहं दुर्णाम्नीनां गन्धर्वाप्सरसां शतम् ।
शतं शश्वन्वतीनां शतवारेण वारये ॥ १९.३६.६ ॥

恶名女妖之百,乾闥婆与阿普萨拉斯之百,Śaśvanvatī 之百——我以百力宝珠将它们驱开。