阿闼婆吠陀 · 颂诗(Sūkta) 19.4
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
19.4.1
यामाहुतिं प्रथमामथर्वा या जाता या हव्यमकृणोज्जातवेदाः ।
तां त एतां प्रथमो जोहवीमि ताभिष्टुप्तो वहतु हव्यमग्निरग्नये स्वाहा ॥ १९.४.१ ॥
阿闼婆所作、已生成、并被遍知者(Jātavedas)化为祭品的那第一次供物,我为你们首先呼唤它。令被它满足的阿耆尼承载祭品。向阿耆尼献上 svāhā!
19.4.2
आकूतिं देवीं सुभगां पुरो दधे चित्तस्य माता सुहवा नो अस्तु ।
यामाशामेमि केवली सा मे अस्तु विदेयमेनां मनसि प्रविष्टाम् ॥ १९.४.२ ॥
我将神圣而吉祥的意愿置于面前;愿她成为心的母亲,我们易于呼唤。愿我所去向的那愿望对我专一。愿我认识那已进入心中的她。
19.4.3
आकूत्या नो बृहस्पत आकूत्या न उपा गहि ।
अथो भगस्य नो धेह्यथो नः सुहवो भव ॥ १९.४.३ ॥
啊,布利哈斯帕蒂,以意愿来到我们这里,以意愿来到我们这里!赐予我们福运,并使你易于被我们呼唤。
19.4.4
बृहस्पतिर्म आकूतिमाङ्गिरसः प्रति जानातु वाचमेताम् ।
यस्य देवा देवताः संबभूवुः स सुप्रणीताः कामो अन्वेत्वस्मान् ॥ १९.४.४ ॥
愿安吉拉斯之子布利哈斯帕蒂知晓我的这一意愿与这句话。愿那被良好引导的愿望——众神与诸天为之聚集的那愿望——跟随我们。