阿闼婆吠陀 · 颂诗(Sūkta) 19.9
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
19.9.1
शान्ता द्यौः शान्ता पृथिवी शान्तमिदमुर्वन्तरिक्षम् ।
शान्ता उदन्वतीरापः शान्ता नः सन्त्वोषधीः ॥ १९.९.१ ॥
愿天空安宁,愿大地安宁,愿这广阔的虚空安宁。愿有海洋的水域安宁,愿草木对我们安宁。
19.9.2
शान्तानि पूर्वरूपाणि शान्तं नो अस्तु कृताकृतम् ।
शान्तं भूतं च भव्यं च सर्वमेव शमस्तु नः ॥ १९.९.२ ॥
愿先前的征兆安宁;愿已作与未作之事对我们安宁。愿过去与未来,一切都为我们带来平安。
19.9.3
इयं या परमेष्ठिनी वाग्देवी ब्रह्मसंशिता ।
ययैव ससृजे घोरं तयैव शान्तिरस्तु नः ॥ १९.९.३ ॥
这位居于至上之处的语言女神,由梵力磨砺;她以创造可怖之物的同一力量,愿那力量为我们带来平安。
19.9.4
इदं यत्परमेष्ठिनं मनो वां ब्रह्मसंशितम् ।
येनैव ससृजे घोरं तेनैव शान्तिरस्तु नः ॥ १९.९.४ ॥
你们二者的这心智,居于至上之处,由梵力磨砺;它以创造可怖之物的同一力量,愿那力量为我们带来平安。
19.9.5
इमानि यानि पञ्चेन्द्रियाणि मनःषष्ठानि मे हृदि ब्रह्मणा संशितानि ।
यैरेव ससृजे घोरं तैरेव शान्तिरस्तु नः ॥ १९.९.५ ॥
我心中这五根,以意为第六,由梵力磨砺;它借以创造可怖之物的,愿那些为我们带来平安。
19.9.6
शं नो मित्रः शं वरुणः शं विष्णुः शं प्रजापतिः ।
शं न इन्द्रो बृहस्पतिः शं नो भवत्वर्यमा ॥ १९.९.६ ॥
愿密特拉为我们带来平安,愿伐楼那平安,愿毗湿奴平安,愿生主平安。愿因陀罗平安,愿梵天主平安,愿阿利耶曼为我们带来平安。
19.9.7
शं नो मित्रः शं वरुणः शं विवस्वां छमन्तकः ।
उत्पाताः पार्थिवान्तरिक्षाः शं नो दिविचरा ग्रहाः ॥ १९.९.७ ॥
愿弥陀罗对我们吉祥,愿婆罗那吉祥,愿毗婆斯梵与插曼塔迦吉祥。愿地上与空中的凶兆,以及在天空中运行的星辰,对我们吉祥。
19.9.8
शं नो भूमिर्वेप्यमाना शमुल्का निर्हतं च यत् ।
शं गावो लोहितक्षीराः शं भूमिरव तीर्यतीः ॥ १९.९.८ ॥
愿颤抖的大地对我们吉祥,愿坠落的流星以及一切被投落之物吉祥。愿有红色乳汁的牛吉祥,愿向下降落的大地吉祥。
19.9.9
नक्षत्रमुल्काभिहतं शमस्तु नः शं नोऽभिचाराः शमु सन्तु कृत्याः ।
शं नो निखाता वल्गाः शमुल्का देशोपसर्गाः शमु नो भवन्तु ॥ १९.९.९ ॥
愿被星辰或流星击中之物对我们吉祥。愿敌对的仪式对我们吉祥,愿毁灭性的巫术也吉祥。愿埋下的陷阱对我们吉祥,愿流星和地方的灾祸吉祥;愿它们对我们吉祥。
19.9.10
शं नो ग्रहाश्चान्द्रमसाः शमादित्यश्च राहुणा ।
शं नो मृत्युर्धूमकेतुः शं रुद्रास्तिग्मतेजसः ॥ १९.९.१० ॥
愿行星与月亮相关的行星对我们吉祥。愿太阳与罗睺一同吉祥。愿死亡与彗星烟幡对我们吉祥;愿光芒锐利的楼陀罗吉祥。
19.9.11
शं रुद्राः शं वसवः शमादित्याः शमग्नयः ।
शं नो महर्षयो देवाः शं देवाः शं बृहस्पतिः ॥ १९.९.११ ॥
愿楼陀罗吉祥,愿婆苏吉祥,愿阿底提耶吉祥,愿诸火吉祥。愿大仙与诸神对我们吉祥,愿诸神吉祥,愿布里哈斯帕提吉祥。
19.9.12
ब्रह्म प्रजापतिर्धाता लोका वेदाः सप्तऋषयोऽग्नयः ।
तैर्मे कृतं स्वस्त्ययनमिन्द्रो मे शर्म यच्छतु ब्रह्मा मे शर्म यच्छतु ।
विश्वे मे देवाः शर्म यच्छन्तु सर्वे मे देवाः शर्म यच्छन्तु ॥ १९.९.१२ ॥
梵、生主、施者、诸世界、吠陀、七仙与诸火——他们为我作了吉祥祭。愿因陀罗赐我庇护,愿梵天赐我庇护。愿诸维舍婆提婆赐我庇护,愿一切神明赐我庇护。
19.9.13
यानि कानि चिच्छान्तानि लोके सप्तऋषयो विदुः ।
सर्वाणि शं भवन्तु मे शं मे अस्त्वभयं मे अस्तु ॥ १९.९.१३ ॥
凡世间所有的平安之物,七仙所知者,愿它们对我皆吉祥。愿我得安宁,愿我得无畏。
19.9.14
पृथिवी शान्तिरन्तरिक्षं शान्तिर्द्यौः शान्तिरापः शान्तिरोषधयः शान्तिर्वनस्पतयः शान्तिर्विश्वे मे देवाः शान्तिः सर्वे मे देवाः शान्तिः शान्तिः शान्तिः शान्तिभिः ।
यदिह घोरं यदिह क्रूरं यदिह पापं तच्छान्तं तच्छिवं सर्वमेव शमस्तु नः ॥ १९.९.१४ ॥
大地是安宁,虚空是安宁,天空是安宁,诸水是安宁,草木是安宁,林木是安宁,我的诸维舍婆提婆是安宁,我的一切神明是安宁——安宁,安宁,安宁,以安宁之法。此间凡可怖者、凶暴者、有罪者——愿其平息,愿其吉祥;愿一切对我们皆安宁。