阿闼婆吠陀 · 颂诗(Sūkta) 2.28
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.28.1
तुभ्यमेव जरिमन् वर्धतामयं मेममन्ये मृत्यवो हिंसिषुः शतं ये ।
मातेव पुत्रं प्रमना उपस्थे मित्र एनं मित्रियात्पात्वंहसः ॥ २.२८.१ ॥
愿此人为你而在衰老中成长;愿百种死亡、其他的死亡都不伤害他。如同慈母满心欢喜地将儿子抱在怀中,愿密特拉以友爱保护他脱离灾难。
2.28.2
मित्र एनं वरुणो वा रिशादा जरामृत्युं कृणुतां संविदानौ ।
तदग्निर्होता वयुनानि विद्वान् विश्वा देवानां जनिमा विवक्ति ॥ २.२८.२ ॥
愿摧敌的密特拉与伐楼那齐心,为他除去衰老与死亡。知晓那些道路的祭司阿耆尼,宣说诸神的一切诞生。
2.28.3
त्वमीशिषे पशूनां पार्थिवानां ये जाता उत वा ये जनित्राः ।
मेमं प्राणो हासीन् मो अपानो मेमं मित्रा वधिषुर्मो अमित्राः ॥ २.२८.३ ॥
你主宰地上的生灵,既已生者,亦将生者。愿他的上行气不离去,下行气也不离去;愿朋友不杀他,敌人也不杀他。
2.28.4
द्यौष्ट्वा पिता पृथिवी माता जरामृत्युं कृणुतां संविदाने ।
यथा जीवा अदितेरुपस्थे प्राणापानाभ्यां गुपितः शतं हिमाः ॥ २.२८.४ ॥
愿天父与地母齐心,为你除去衰老与死亡,使众生在阿底提的怀抱中由上行气与下行气守护,度过百个冬天。
2.28.5
इममग्ने आयुषे वर्चसे नय प्रियं रेतो वरुण मित्र राजन् ।
मातेवास्मा अदिते शर्म यच्छ विश्वे देवा जरदष्टिर्यथासत् ॥ २.२८.५ ॥
阿耆尼啊,引导此人走向寿命与光辉,携带珍爱的精液。国王伐楼那、密特拉,如母亲一般的阿底提,请赐他庇护;愿诸神使他得以活到衰老。