Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 2.34

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.34.1

य ईशे पशुपतिः पशूनां चतुष्पदामुत यो द्विपदाम् ।
निष्क्रीतः स यज्ञियं भागमेतु रायस्पोषा यजमानं सचन्ताम् ॥ २.३४.१ ॥

统御牲畜、四足与两足众生的主宰(Paśupati)——愿被赎回者获得应当献给祭祀的份额;财富的滋养伴随施祭者。

2.34.2

प्रमुञ्चन्तो भुवनस्य रेतो गातुं धत्त यजमानाय देवाः ।
उपाकृतं शशमानं यदस्थात्प्रियं देवानामप्येतु पाथः ॥ २.३४.२ ॥

诸神啊,释放世界之精种,为施祭者安立道路;那被带近、奋力而立的牲礼,愿它也抵达诸神所爱之途。

2.34.3

ये बध्यमानमनु दीध्याना अन्वैक्षन्त मनसा चक्षुषा च ।
अग्निष्टान् अग्रे प्र मुमोक्तु देवो विश्वकर्मा प्रजया संरराणः ॥ २.३४.३ ॥

那些光辉地以心与目望着被缚者的人——愿火神(Agni)先将他们释放;愿一切之造作者维什伐卡尔摩(Viśvakarman)以子孙使其欢喜,将他们释放。

2.34.4

ये ग्राम्याः पशवो विश्वरूपा विरूपाः सन्तो बहुधैकरूपाः ।
वायुष्टान् अग्रे प्र मुमोक्तु देवः प्रजापतिः प्रजया संरराणः ॥ २.३४.४ ॥

那些家畜,形相万般,虽形貌各异,却多方地同为一形——愿风神(Vāyu)先将它们释放;愿众生之主生主(Prajāpati)以子孙使其欢喜,将它们释放。

2.34.5

प्रजानन्तः प्रति गृह्णन्तु पूर्वे प्राणमङ्गेभ्यः पर्याचरन्तम् ।
दिवं गच्छ प्रति तिष्ठा शरीरैः स्वर्गं याहि पथिभिर्देवयानैः ॥ २.३४.५ ॥

愿知者先祖接纳那从肢体间使气息周流者;前往天界,携身体而安立;由神路前往天堂(svarga)。