阿闼婆吠陀 · 颂诗(Sūkta) 2.9
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.9.1
दशवृक्ष मुञ्चेमं रक्षसो ग्राह्या अधि यैनं जग्राह पर्वसु ।
अथो एनं वनस्पते जीवानां लोकमुन् नय ॥ २.९.१ ॥
十树啊,将此人从那在关节中抓住他的罗刹之握中解救出来;然后,林中之主啊,引导他向上,到生者的世界去。
2.9.2
आगादुदगादयं जीवानां व्रातमप्यगात् ।
अभूदु पुत्राणां पिता नृणां च भगवत्तमः ॥ २.९.२ ॥
此人已归来,已起身;他也重新加入了生者的行列。他成为了儿子们的父亲,成为人中最为有福的人。
2.9.3
अधीतीरध्यगादयमधि जीवपुरा अगान् ।
शतं ह्यस्य भिषजः सहस्रमुत वीरुधः ॥ २.९.३ ॥
他已超越了疾病,到达了生者的境域。为他备有百位医师,千种药草。
2.9.4
देवास्ते चीतिमविदन् ब्रह्माण उत वीरुधः ।
चीतिं ते विश्वे देवा अविदन् भूम्यामधि ॥ २.९.४ ॥
诸神、婆罗门与药草为你找到了疗方;一切诸神在大地上为你找到了疗方。
2.9.5
यश्चकार स निष्करत्स एव सुभिषक्तमः ।
स एव तुभ्यं भेषजानि कृणवद्भिषजा शुचिः ॥ २.९.५ ॥
造此者将把它取出;他确是最好的良医。愿那位清净的医师为你调制药剂。