アタルヴァ・ヴェーダ · スークタ 20.39
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
20.39.1
इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः ।
अस्माकमस्तु केवलः ॥ २०.३९.१ ॥
私たちはあなたがたのために、四方から人々のためにインドラを呼び求める。彼が私たちだけのものとなりますように。
20.39.2
व्यन्तरिक्षमतिरन् मदे सोमस्य रोचना ।
इन्द्रो यदभिनद्वलम् ॥ २०.३९.२ ॥
ソーマの陶酔の中で、インドラは中空を広く渡った。彼がヴァラの洞窟を裂いたとき、輝く世界を開いた。
20.39.3
उद्गा आजदङ्गिरोभ्य आविष्कृण्वन् गुहा सतीः ।
अर्वाञ्चं नुनुदे वलम् ॥ २०.३९.३ ॥
アンギラスのために洞窟に隠れた牛を現し、彼はそれらを上へ追い立てた。ヴァラをこちら側へ押し返した。
20.39.4
इन्द्रेण रोचना दिवो दृल्हानि दृंहितानि च ।
स्थिराणि न पराणुदे ॥ २०.३९.४ ॥
インドラによって天の輝く世界は堅固に定められた。確かなものを彼は押しのけない。
20.39.5
अपामूर्मिर्मदन्न् इव स्तोम इन्द्राजिरायते ।
वि ते मदा अराजिषुः ॥ २०.३९.५ ॥
水の波が酔わせるように、インドラよ、あなたへの讃歌は流れる。あなたの陶酔は輝き広がった。