阿闼婆吠陀 · 颂诗(Sūkta) 20.89
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
20.89.1
अस्तेव सु प्रतरं लायमस्यन् भूषन्न् इव प्र भरा स्तोममस्मै ।
वाचा विप्रास्तरत वाचमर्यो नि रामय जरितः सोम इन्द्रम् ॥ २०.८९.१ ॥
如良马般迅疾前行地送出颂歌,为他献上赞美如装饰一般。愿智者以言语渡过言语。歌者啊,愿主宰苏摩使因陀罗欢喜。
20.89.2
दोहेन गामुप शिक्षा सखायं प्र बोधय जरितर्जारमिन्द्रम् ।
कोशं न पूर्णं वसुना न्यृष्टमा च्यावय मघदेयाय शूरम् ॥ २०.८९.२ ॥
如挤奶取牛一般亲近朋友;歌者啊,唤醒所爱的因陀罗。如盛满财富而倾泻的宝库,为施主激起英雄前来。
20.89.3
किमङ्ग त्वा मघवन् भोजमाहुः शिशीहि मा शिशयं त्वा शृणोमि ।
अप्नस्वती मम धीरस्तु शक्र वसुविदं भगमिन्द्रा भरा नः ॥ २०.८९.३ ॥
慷慨者啊,为何称你为享用者?唤醒我吧,我听闻你如沉睡一般。威力的帝释啊,愿我的思想富于财物;因陀罗啊,为我们带来寻获财富的福运。
20.89.4
त्वां जना ममसत्येष्विन्द्र संतस्थाना वि ह्वयन्ते समीके ।
अत्रा युजं कृणुते यो हविष्मान् नासुन्वता सख्यं वष्टि शूरः ॥ २०.८९.४ ॥
因陀罗啊,众人在军阵的争斗中呼唤你,并肩站立,在相遇时各自呼喊。此处携带祭品使你成为同伴的人——英雄不愿与不榨苏摩者结为友谊。
20.89.5
धनं न स्पन्द्रं बहुलं यो अस्मै तीव्रान्त्सोमामासुनोति प्रयस्वान् ।
तस्मै शत्रून्त्सुतुकान् प्रातरह्नो नि स्वष्ट्रान् युवति हन्ति वृत्रम् ॥ २०.८९.५ ॥
为他榨取如财富般迅疾、丰盛、锐利的苏摩之人,携带供物者,在清晨白昼之初,将他的敌人,那些早起的仇敌,击倒在地;他击杀弗栗多。
20.89.6
यस्मिन् वयं दधिमा शंसमिन्द्रे यः शिश्राय मघवा काममस्मे ।
आराच्चित्सन् भयतामस्य शत्रुर्न्यस्मै द्युम्ना जन्या नमन्ताम् ॥ २०.८९.६ ॥
我们将赞颂置于因陀罗之中,他这位慷慨的摩ghavan向我们施予愿望:即使从远方,他的敌人也应畏惧;愿众民的荣耀向他低头。
20.89.7
आराच्छत्रुमप बाधस्व दूरमुग्रो यः शम्बः पुरुहूत तेन ।
अस्मे धेहि यवमद्गोमदिन्द्र कृधी धियं जरित्रे वाजरत्नाम् ॥ २०.८९.७ ॥
从远方驱逐敌人,远远地,啊猛烈者;啊被多次呼唤者,以你所用来对付汕巴罗的那力量。在我们之中安置富有大麦与牛群的财富,因陀罗啊;使歌者的智慧成为力量之宝。
20.89.8
प्र यमन्तर्वृषसवासो अज्मन् तीव्राः सोमा बहुलान्तास इन्द्रम् ।
नाह दामानं मघवा नि यंसन् नि सुन्वते वहति भूरि वामम् ॥ २०.८९.८ ॥
在因陀罗之中,凭其力,锐利的牡牛驱动之苏摩汁沿道流溢而多量;慷慨的摩ghavan并不拉住他的缰绳;为压榨苏摩者,他携来丰厚的财宝。
20.89.9
उत प्रहामतिदीवा जयति कृतमिव श्वघ्नी वि चिनोति काले ।
यो देवकामो न धनं रुणद्धि समित्तं रायः सृजति स्वधाभिः ॥ २०.८९.९ ॥
如同掷骰者赢得胜利之骰,超越者也在适当时候聚集;愿神者不扣留财富,他以自身之力放出财富之流。
20.89.10
गोभिष्टरेमामतिं दुरेवां यवेन वा क्षुधं पुरुहूत विश्वे ।
वयं राजसु प्रथमा धनान्यरिष्टासो वृजनीभिर्जयेम ॥ २०.८९.१० ॥
以牛群渡过恶意的贫困,或以大麦渡过饥饿,啊被多次呼唤者;愿我们众人,作为诸王中之首,无伤无损,以奔突之军赢得财富。
20.89.11
बृहस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघयोः ।
इन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरीयः कृणोतु ॥ २०.८९.११ ॥
愿布哈斯帕蒂从后方、北方、下方保护我们,免受恶人的侵害。愿因陀罗从前方和中间做我们的朋友;愿朋友为朋友开辟宽广之处。