Vedyatra वेदयात्रा
検索

アタルヴァ・ヴェーダ · スークタ 3.1

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

3.1.1

अग्निर्नः शत्रून् प्रत्येतु विद्वान् प्रतिदहन्न् अभिशस्तिमरातिम् ।
स सेनां मोहयतु परेषां निर्हस्तांश्च कृणवज्जातवेदाः ॥ ३.१.१ ॥

賢きアグニよ、詛いと敵を焼きながら我らの敵へ向かいたまえ。ジャータヴェーダスよ、彼らの軍を惑わし、その手から武器を奪いたまえ。

3.1.2

यूयमुग्रा मरुत ईदृशे स्थाभि प्रेत मृणत सहध्वम् ।
अमीमृणन् वसवो नाथिता इमे अग्निर्ह्येषां दूतः प्रत्येतु विद्वान् ॥ ३.१.२ ॥

猛き マルトたちよ、このような時に立ち向かい、進み、打ち倒し、勝ちたまえ。呼ばれたヴァス神群が彼らを打ち倒した。彼らの賢き使者アグニよ、前へ進みたまえ。

3.1.3

अमित्रसेनां मघवन्न् अस्मान् छत्रूयतीमभि ।
युवं तामिन्द्र वृत्रहन्न् अग्निश्च दहतं प्रति ॥ ३.१.३ ॥

施しの神インドラよ、我らに向かい害を企てる敵軍を、ヴリトラを討つインドラとアグニの二神よ、焼き払いたまえ。

3.1.4

प्रसूत इन्द्र प्रवता हरिभ्यां प्र ते वज्रः प्रमृणन्न् एतु शत्रून् ।
जहि प्रतीचो अनूचः पराचो विष्वक्सत्यं कृणुहि चित्तमेषाम् ॥ ३.१.४ ॥

インドラよ、栗毛の馬に導かれて坂を駆けくだる者よ。汝の雷杖は敵を砕きつつ進みたまえ。前にいる者、後ろにいる者、遠くにいる者を打ち倒し、彼らの心を四方に真に惑わせたまえ。

3.1.5

इन्द्र सेनां मोहयामित्राणाम् ।
अग्नेर्वातस्य ध्राज्या तान् विषूचो वि नाशय ॥ ३.१.५ ॥

インドラよ、敵の軍を惑わせたまえ。アグニと風の激しい勢いで、彼らを四方に散らし、滅ぼしたまえ。

3.1.6

इन्द्रः सेनां मोहयतु मरुतो घ्नन्त्वोजसा ।
चक्षूंस्यग्निरा दत्तां पुनरेतु पराजिता ॥ ३.१.६ ॥

インドラよ、彼らの軍を惑わせたまえ。マルトたちよ、力をもって打ち倒したまえ。アグニよ、彼らの視力を返したまえ。敗れた軍は再び退け。