阿闼婆吠陀 · 颂诗(Sūkta) 3.14
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.14.1
सं वो गोष्ठेन सुषदा सं रय्या सं सुभूत्या ।
अहर्जातस्य यन् नाम तेना वः सं सृजामसि ॥ ३.१४.१ ॥
以牛栏的安适居处、财富与吉祥福运,我把你们聚集在一起;以那一日所生者的名字,我把你们聚集在一起。
3.14.2
सं वः सृजत्वर्यमा सं पूषा सं बृहस्पतिः ।
समिन्द्रो यो धनंजयो मयि पुष्यत यद्वसु ॥ ३.१४.२ ॥
愿阿耶摩、补善、梵主,以及夺取财富的因陀罗,将你们聚集;愿所有财物在我这里增长。
3.14.3
संजग्माना अबिभ्युषीरस्मिन् गोष्ठे करीषिणीः ।
बिभ्रतीः सोम्यं मध्वनमीवा उपेतन ॥ ३.१४.३ ॥
你们聚集在这牛栏中,无所畏惧,富有粪肥,承载甘甜的苏摩饮料,远离疾病,请近前来。
3.14.4
इहैव गाव एतनेहो शकेव पुष्यत ।
इहैवोत प्र जायध्वं मयि संज्ञानमस्तु वः ॥ ३.१४.४ ॥
母牛们啊,来到这里,就在这里;像沙卡草一样在此繁盛;在此更多地生长;愿你们在我这里和睦一心。
3.14.5
शिवो वो गोष्ठो भवतु शारिशाकेव पुष्यत ।
इहैवोत प्र जायध्वं मया वः सं सृजामसि ॥ ३.१४.५ ॥
愿这牛栏对你们吉祥;像沙里沙卡草一样繁盛;在此更多地生长;我与你们相合。
3.14.6
मया गावो गोपतिना सचध्वमयं वो गोष्ठ इह पोषयिष्णुः ।
रायस्पोषेण बहुला भवन्तीर्जीवा जीवन्तीरुप वः सदेम ॥ ३.१४.६ ॥
与我及牛主相伴;你们这牛栏在此滋养;因财富的滋养而众多,生存并活着,愿我们坐在你们身旁。