阿闼婆吠陀 · 颂诗(Sūkta) 3.29
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.29.1
यद्राजानो विभजन्त इष्टापूर्तस्य षोडशं यमस्यामी सभासदः ।
अविस्तस्मात्प्र मुञ्चति दत्तः शितिपात्स्वधा ॥ ३.२९.१ ॥
当诸王分配祭祀与布施的第十六分时,这些是阎摩的议会成员;由此,羊放出。所施的白足羊即是自力(svadhā)。
3.29.2
सर्वान् कामान् पूरयत्याभवन् प्रभवन् भवन् ।
आकूतिप्रोऽविर्दत्तः शितिपान्न् नोप दस्यति ॥ ३.२९.२ ॥
他成就一切所愿,成为、生起、存在。所施的成就意愿之白足羊不会欺骗。
3.29.3
यो ददाति शितिपादमविं लोकेन संमितम् ।
स नाकमभ्यारोहति यत्र शुल्को न क्रियते अबलेन बलीयसे ॥ ३.२९.३ ॥
凡以符合世界尺度的白足羊布施者,升上天界;在那里,不向弱者为强者索取赋税。
3.29.4
पञ्चापूपं शितिपादमविं लोकेन संमितम् ।
प्रदातोप जीवति पितॄणां लोकेऽक्षितम् ॥ ३.२९.४ ॥
以五块饼和符合世界尺度的白足羊布施的施主,在祖先的不朽世界中永存。
3.29.5
पञ्चापूपं शितिपादमविं लोकेन संमितम् ।
प्रदातोप जीवति सूर्यामासयोरक्षितम् ॥ ३.२९.५ ॥
以五块饼和符合世界尺度的白足羊布施的施主,在日月的不朽世界中永存。
3.29.6
इरेव नोप दस्यति समुद्र इव पयो महत् ।
देवौ सवासिनाविव शितिपान् नोप दस्यति ॥ ३.२९.६ ॥
如伊拉不欺,如大海之水不欺,如共居的两位神不欺——白足羊亦不欺。
3.29.7
क इदं कस्मा अदात्कामः कामायादात् ।
कामो दाता कामः प्रतिग्रहीता कामः समुद्रमा विवेश ।
कामेन त्वा प्रति गृह्णामि कामैतत्ते ॥ ३.२९.७ ॥
谁给了这个,给了谁?欲(Kāma)给了欲。欲是施予者,欲是接受者;欲进入了大海。我以欲接受你;欲啊,这是给你的。
3.29.8
भूमिष्ट्वा प्रति गृह्णात्वन्तरिक्षमिदं महत् ।
माहं प्राणेन मात्मना मा प्रजया प्रतिगृह्य वि राधिषि ॥ ३.२९.८ ॥
愿大地接受你,这广大的虚空也接受你。愿我在接受之后,不因气息、自我、子嗣而被剥夺。