阿闼婆吠陀 · 颂诗(Sūkta) 3.30
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.30.1
सहृदयं सांमनस्यमविद्वेषं कृणोमि वः ।
अन्यो अन्यमभि हर्यत वत्सं जातमिवाघ्न्या ॥ ३.३०.१ ॥
我使你们同心同意,无有憎恨。如母牛爱其新生的小牛,你们也当彼此相爱。
3.30.2
अनुव्रतः पितुः पुत्रो मात्रा भवतु संमनाः ।
जाया पत्ये मधुमतीं वाचं वदतु शन्तिवाम् ॥ ३.३०.२ ॥
愿子顺从父亲,与母同心。愿妻以甘美温和之言语对丈夫。
3.30.3
मा भ्राता भ्रातरं द्विक्षन् मा स्वसारमुत स्वसा ।
सम्यञ्चः सव्रता भूत्वा वाचं वदत भद्रया ॥ ३.३०.३ ॥
兄不可恶弟,姊不可恶妹。同心同行,立同一志愿,以善言相告。
3.30.4
येन देवा न वियन्ति नो च विद्विषते मिथः ।
तत्कृण्मो ब्रह्म वो गृहे संज्ञानं पुरुषेभ्यः ॥ ३.३०.४ ॥
诸神以此不相离散、不相憎恶,我们为你们在家中作此神圣之咒,使人们心意相通。
3.30.5
ज्यायस्वन्तश्चित्तिनो मा वि यौष्ट संराधयन्तः सधुराश्चरन्तः ।
अन्यो अन्यस्मै वल्गु वदन्त एत सध्रीचीनान् वः संमनसस्क्र्णोमि ॥ ३.३०.५ ॥
汝等心胸宽广,思虑深远,不可分离;共成事业,同驾一轭而行。互相以甘言相告而来;我使你们同行、同心。
3.30.6
समानी प्रपा सह वोऽन्नभागः समाने योक्त्रे सह वो युनज्मि ।
सम्यञ्चोऽग्निं सपर्यतारा नाभिमिवाभितः ॥ ३.३०.६ ॥
愿你们共用一处水源,共分一份饮食;我以同一轭将你们相连。同行共同礼敬火神,如辐条环绕车毂。
3.30.7
सध्रीचीनान् वः संमनसस्कृणोम्येकश्नुष्टीन्त्संवननेन सर्वान् ।
देवा इवामृतं रक्षमाणाः सायंप्रातः सौमनसो वो अस्तु ॥ ३.३०.७ ॥
我使你们都同心同向、同一志趣;如同诸神守护甘露,愿你们晨昏都和睦同心。