Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 3.4

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

3.4.1

आ त्वा गन् राष्ट्रं सह वर्चसोदिहि प्राङ्विशां पतिरेकराट्त्वं वि राज ।
सर्वास्त्वा राजन् प्रदिशो ह्वयन्तूपसद्यो नमस्यो भवेह ॥ ३.४.१ ॥

啊,国王,愿王国与光辉归于你;起来吧。作为众民之主、唯一的统治者,你当执政。愿四方都召唤你;在此你当平易可近,且受人敬礼。

3.4.2

त्वां विशो वृणतां राज्याय त्वामिमाः प्रदिशः पञ्च देवीः ।
वर्ष्मन् राष्ट्रस्य ककुदि श्रयस्व ततो न उग्रो वि भजा वसूनि ॥ ३.४.२ ॥

愿众民为王国选择你;愿这五个神圣的方位也选择你。安坐于国家的峰顶;然后,啊威猛者,为我们分配财富。

3.4.3

अच्छ त्वा यन्तु हविनः सजाता अग्निर्दूतो अजिरः सं चरातै ।
जायाः पुत्राः सुमनसो भवन्तु बहुं बलिं प्रति पश्यासा उग्रः ॥ ३.४.३ ॥

愿你的亲族带着供物前来;愿不老的火神作为使者与你同行。愿妻子和儿子心存善意;啊威猛者,愿他们注视着大供物。

3.4.4

अश्विना त्वाग्रे मित्रावरुणोभा विश्वे देवा मरुतस्त्वा ह्वयन्तु ।
अधा मनो वसुदेयाय कृणुष्व ततो न उग्रो वि भजा वसूनि ॥ ३.४.४ ॥

先愿双马童召唤你,愿弥陀罗与伐楼那二者,以及一切众天神和风暴神召唤你。然后专心施予财富;然后啊威猛者,为我们分配宝藏。

3.4.5

आ प्र द्रव परमस्याः परावतः शिवे ते द्यावापृथिवी उभे स्ताम् ।
तदयं राजा वरुणस्तथाह स त्वायमह्वत्स उपेदमेहि ॥ ३.४.५ ॥

从最遥远的地方奔跑而来;愿天与地二者都对你吉祥。国王伐楼那如此说;正是他召唤了你,所以来到近处吧。

3.4.6

इन्द्रेन्द्र मनुष्याः परेहि सं ह्यज्ञास्था वरुणैः संविदानः ।
स त्वायमह्वत्स्वे सधस्थे स देवान् यक्षत्स उ कल्पयद्विशः ॥ ३.४.६ ॥

因陀罗啊,人们啊,上前来吧;你们与伐嚕那们同心协力,深知其理。愿这位国王在他自己的共同座位上召唤你们;愿他敬拜诸神,并由他来安排诸民。

3.4.7

पथ्या रेवतीर्बहुधा विरूपाः सर्वाः संगत्य वरीयस्ते अक्रन् ।
तास्त्वा सर्वाः संविदाना ह्वयन्तु दशमीमुग्रः सुमना वशेह ॥ ३.४.७ ॥

诸道路,富饶而多样,形态各异,齐聚一处,为你开辟了宽广之地。愿它们同心协力召唤你;第十位者啊,威猛而心善,愿你乐意在此安居。