阿闼婆吠陀 · 颂诗(Sūkta) 3.5
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
3.5.1
आयमगन् पर्णमणिर्बली बलेन प्रमृणन्त्सपत्नान् ।
ओजो देवानां पय ओषधीनां वर्चसा मा जिन्वन्त्वप्रयावन् ॥ ३.५.१ ॥
叶宝来了,强大有力,以力量碾碎敌人。愿诸神的活力与草木的汁液,永不离去,以光辉使我充盈。
3.5.2
मयि क्षत्रं पर्णमणे मयि धारयताद्रयिम् ।
अहं राष्ट्रस्याभीवर्गे निजो भूयासमुत्तमः ॥ ३.५.२ ॥
叶宝啊,在我身上确立王权与财富;愿我在国家的集会中,成为自己人中最优秀的。
3.5.3
यं निदधुर्वनस्पतौ गुह्यं देवाः प्रियं मणिम् ।
तमस्मभ्यं सहायुषा देवा ददतु भर्तवे ॥ ३.५.३ ॥
诸神藏于树木中的那颗可爱的隐秘宝珠,愿诸神连同长寿一起赐给我们,以供扶养。
3.5.4
सोमस्य पर्णः सह उग्रमागन्न् इन्द्रेण दत्तो वरुणेन शिष्टः ।
तं प्रियासं बहु रोचमानो दीर्घायुत्वाय शतशारदाय ॥ ३.५.४ ॥
苏摩之叶带着猛烈的力量而来,由因陀罗赐予,由婆楼那保全。它可爱而大放光明,愿它为长寿、为百年秋季而存在。
3.5.5
आ मारुक्षत्पर्णमणिर्मह्या अरिष्टतातये ।
यथाहमुत्तरोऽसान्यर्यम्ण उत संविदः ॥ ३.५.५ ॥
愿叶宝为我的安康而攀附于我身上,使我胜过阿利雅曼与众聚会者。
3.5.6
ये धीवानो रथकाराः कर्मारा ये मनीषिणः ।
उपस्तीन् पर्ण मह्यं त्वं सर्वान् कृण्वभितो जनान् ॥ ३.५.६ ॥
那些神圣技艺的织者、造车者、铁匠与智者——叶啊,为我使一切依附者,四面八方,都在我之下。
3.5.7
ये राजानो राजकृतः सूता ग्रामण्यश्च ये ।
उपस्तीन् पर्ण मह्यं त्वं सर्वान् कृण्वभितो जनान् ॥ ३.५.७ ॥
那些为王者、由王所立者、御者与村长们,哦叶(Parṇa),请使周围所有的人都为我顺服。
3.5.8
पर्णोऽसि तनूपानः सयोनिर्वीरो वीरेण मया ।
संवत्सरस्य तेजसा तेन बध्नामि त्वा मणे ॥ ३.५.८ ॥
你是叶(Parṇa),身体的守护者,同源,是英雄;与我这英雄同在。以岁年的光辉,我以此束缚你,哦护符。