Vedyatra वेदयात्रा
搜索

阿闼婆吠陀 · 颂诗(Sūkta) 4.12

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

4.12.1

रोहण्यसि रोहण्यस्थ्नश्छिन्नस्य रोहणी ।
रोहयेदमरुन्धति ॥ ४.१२.१ ॥

你是罗诃尼,使之生长的;断骨的罗诃尼。阿润达弟啊,使此处生长。

4.12.2

यत्ते रिष्टं यत्ते द्युत्तमस्ति पेष्ट्रं त आत्मनि ।
धाता तद्भद्रया पुनः सं दधत्परुषा परुः ॥ ४.१२.२ ॥

你身上受伤、撕裂或碾碎之处,愿造物者以吉祥之法再度接合,使关节接连关节。

4.12.3

सं ते मज्जा मज्ज्ञा भवतु समु ते परुषा परुः ।
सं ते मांसस्य विस्रस्तं समस्थ्यपि रोहतु ॥ ४.१२.३ ॥

愿你的骨髓与骨髓相合,你的关节与关节相连。愿你肉中脱落之处复合,骨也生长。

4.12.4

मज्जा मज्ञा सं धीयतां चर्मणा चर्म रोहतु ।
असृक्ते अस्थि रोहतु मांसं मांसेन रोहतु ॥ ४.१२.४ ॥

愿骨髓与骨髓相合而定;愿皮肤与皮肤相连而长。愿你的血与骨生长;愿肉与肉相连而长。

4.12.5

लोम लोम्ना सं कल्पया त्वचा सं कल्पया त्वचम् ।
असृक्ते अस्थि रोहतु छिन्नं सं धेह्योषधे ॥ ४.१२.५ ॥

以毛合毛,以皮合皮。愿你的血与骨生长。草药啊,请使断处相连。

4.12.6

स उत्तिष्ठ प्रेहि प्र द्रव रथः सुचक्रः ।
सुपविः सुनाभिः प्रति तिष्ठोर्ध्वः ॥ ४.१२.६ ॥

起来,前行,奔驰吧,有良轮、良轴、良毂的车啊。挺立直立。

4.12.7

यदि कर्तं पतित्वा संशश्रे यदि वाश्मा प्रहृतो जघान ।
ऋभू रथस्येवाङ्गानि सं दधत्परुषा परुः ॥ ४.१२.७ ॥

若因跌倒骨骼断裂,或石头击伤,则如Ṛbhu装配战车的各部件那样,一节一节地将肢体接合起来。