阿闼婆吠陀 · 颂诗(Sūkta) 4.23
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
4.23.1
अग्नेर्मन्वे प्रथमस्य प्रचेतसः पाञ्चजन्यस्य बहुधा यमिन्धते ।
विशोविशः प्रविशिवांसमीमहे स नो मुञ्चत्वंहसः ॥ ४.२३.१ ॥
我冥想那第一位、有智慧的阿耆尼,人们为五族以多种方式点燃他。我们祈求那已进入每个氏族的他:愿他使我们脱离罪过。
4.23.2
यथा हव्यं वहसि जातवेदो यथा यज्ञं कल्पयसि प्रजानन् ।
एवा देवेभ्यः सुमतिं न आ वह स नो मुञ्चत्वंहसः ॥ ४.२३.२ ॥
哦,生知者,你如何承载祭品,如何有知地安排祭祀,就如何为诸神为我们带来善意吧。愿他使我们脱离罪过。
4.23.3
यामन्यामन्न् उपयुक्तं वहिष्ठं कर्मङ्कर्मन्न् आभगमग्निमीडे ।
रक्षोहणं यज्ञवृधं घृताहुतं स नो मुञ्चत्वंहसः ॥ ४.२३.३ ॥
我赞颂阿耆尼,他被指派于每一次献祭,是最能承载者,在每一仪式中分得其份,是罗刹的摧毁者,祭祀的增益者,以酥油为供。愿他使我们脱离罪过。
4.23.4
सुजातं जातवेदसमग्निं वैश्वानरं विभुम् ।
हव्यवाहं हवामहे स नो मुञ्चत्वंहसः ॥ ४.२३.४ ॥
我们呼唤阿耆尼:善生者、生知者、属于众人的吠世瓦那罗、遍在者、承载祭品者。愿他使我们脱离罪过。
4.23.5
येन ऋषयो बलमद्योतयन् युजा येनासुराणामयुवन्त मायाः ।
येनाग्निना पणीन् इन्द्रो जिगाय स नो मुञ्चत्वंहसः ॥ ४.२३.५ ॥
诸仙凭之照亮力量,凭之束缚阿修罗的幻术,因陀罗凭之战胜帕尼人:愿他使我们脱离罪过。
4.23.6
येन देवा अमृतमन्वविन्दन् येनौषधीर्मधुमतीरकृण्वन् ।
येन देवाः स्वराभरन्त्स नो मुञ्चत्वंहसः ॥ ४.२३.६ ॥
诸神凭之获得不死,凭之使草药甘如蜜,诸神凭之带来天光:愿他使我们脱离罪过。
4.23.7
यस्येदं प्रदिशि यद्विरोचते यज्जातं जनितव्यं च केवलम् ।
स्तौम्यग्निं नाथितो जोहवीमि स नो मुञ्चत्वंहसः ॥ ४.२३.७ ॥
这一切都属于他,凡在任何方位闪耀的,凡已诞生和将要诞生的,全都唯独属于他。我赞美阿耆尼;作为有所求者,我呼唤他。愿他使我们脱离罪孽。